प्रणवविधानम्

प्रणवविधानम्

(भगवान् आत्मनाथो भगवती योगनायिका च गुरुस्वरूपौ, प्रणवस्वरूपौ, दक्षिणामूर्तिस्वरूपौ च श्रीमाणिक्यवाचक- भाग्यपरिपाकेन जनैः कृतां सपर्यां स्वीकुरुतः । तयोः स्वरूपं इदमीदृक् इति नावगन्तुं पार्यते । दक्षिणामूर्तिरेव तथा आत्मानं दर्शयामासेति वृद्धाः । बाह्यपूजायां लब्धावकाशा एता नामावल्यः । ध्यानयोगेन प्रणवात्मना परात्मना भावनं योगिमात्रसुकरम् । स ध्यानयोगश्च क्रोडपत्रोपलब्धः इह प्रकाश्यते । गुरुवृद्धसम्पदायानुसार्येष गुरुमुखा देवावगन्तव्यः । पत्रलब्धं न नष्टं भवेदिति धिया अत्र सङ्गृह्यते । प्रणवजपभावनाक्रमः अस्य श्रीप्रणवमहामन्त्रस्य, प्रजापतिः ऋषिः । देवीगायत्री छन्दः । परमात्मा देवता । अं बीजं, उं शक्तिः । अं ॐ आं हृदयाय नमः । इं ॐ ईं शिरसे स्वाहा । उं ॐ ऊं शिखायै वषट् । एं ॐ ऐं कवचाय हुम् । ओं ॐ औं नेत्रत्रयाय वौषट् । अं ॐ अः अस्त्राय फट् । (अथवा) ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ सुवः शिखायै वषट् । ॐ महः कवचाय हुम् । ॐ जनः नेत्रत्रयाय वौषट् । ॐ तपः अस्त्राय फट् । १. अं ॐ नमः ब्रह्माणं भावयामि । (नाभौ) उं ॐ नमः विष्णुं भावयामि । (हृदये) मं ॐ नमः रुद्रं भावयामि । (भ्रूमध्ये) । ॐ ॐ नमः ईश्वरं भावयामि । (मूर्धनि) । २. पृथक् पृथक् एषां लमित्यादिमानसपूजा । तेजोरूपान् विभाव्य, प्रणवोच्चारणेन तानेकीकृत्य षोडशान्तस्थामृतेन योजयेत् । पुनरेवं अं नमः इति प्रणवप्रणवावयवेन ब्रह्माणं चतुर्षु स्थानेषु पूर्ववत्सम्पूज्य प्रणवेन तेजोरूपं कृत्वा अमृतेन योजयेत् । एवं उं नमः, मं नमः इति द्वाभ्यां विष्णुरुद्रौ तथैवामृतेन योजयेत् । ३. पुनः एवमेव प्रणवावयवैः त्रिभिरपि ब्रह्मविष्णु रुद्रान् नाभेर्दक्षिणतो वामतो नाभौ च, हृदयस्य दक्षिणतो वामतो मध्ये च भ्रूमध्यस्य दक्षिणतो वामतो मध्यतश्च यथायोगं भावयित्वा सम्पूज्य तेजोरूपान् षोडशान्तामृतेन योजयेत् । पुनः प्रणवेन एवमेव चतुर्षु स्थानेषु भावयित्वा सम्पूज्य तेजोरूपं ईश्वरं अमृतेन योजयेत् । ४. मातृकास्थानेषु न्यासस्त्वेवम्- अं अं नमः - शिरसि उं आं नमः - मुखवृत्ते मं इं नमः - दक्षनेत्रे अं ईं नमः - वामनेत्रे उं उं नमः - दक्षकर्णे मं ऊं नमः - वामकर्णे अं ऋं नमः - दक्षनासायां उं ॠं नमः - वामनासायां मं लृं नमः - दक्षकपोले अं लॄं नमः - वामकपोले उं एं नमः -ऊर्ध्वोष्ठे मं ऐं नमः -अधरोष्ठे अं ओं नमः -ऊर्ध्वदन्तेषु उं औं नमः - अधोदन्तेषु मं अं नमः - जिह्वाग्रे अं अः नमः - कण्ठे उं कं नमः - दक्षबाहुमूले मं खं नमः - दक्षकूर्परे अं गं नमः - दक्षमणिबन्धे उं घं नमः - दक्षकराङ्गुलिमूले मं ङं नमः - दक्षकराङ्गुल्यग्रे अं चं नमः - वामबाहुमूले उं छं नमः - वामकूर्परे मं जं नमः - वाममणिवन्धे अं झं नमः - वामकराङ्गुलिमूले उं ञं नमः - वामकराङ्गुल्यग्रे मं टं नमः - दक्षोरुमूले अं ठं नमः - दक्षजानुनि उं डं नमः - दक्षगुल्फे मं ढं नमः - दक्षपादाङ्गुलिमूले अं णं नमः - दक्षपादाङ्गुल्यग्रे उं तं नमः - वामोरुमूले मं थं नमः - वामजानुनि अं दं नमः - वामगुल्फे उं धं नमः - वामपादाङ्गुलिमूले मं नं नमः - वामपादाङ्गुल्यग्रे अं पं नमः - दक्षपार्श्वे उं फं नमः - वामपृष्ठे मं बं नमः - वामपार्श्वे अं भं नमः - नाभौ उं मं नमः - जठरे मं यं नमः - हृदये अं रं नमः - दक्षकक्षे उं लं नमः - गलपृष्ठे मं वं नमः - वामकक्षे अं शं नमः - हृदयादि दक्षकराङ्गुल्यन्तं उं षं नमः - हृदयादिवामकराङ्गुल्यन्तं मं सं नमः - हृदयादि दक्षपादाङ्गुल्यन्तं अं हं नमः - हृदयादि वामपादाङ्गुल्यन्तं उं ळं नमः - कट्यादि दक्षिणपादाङ्गुल्यन्तं मं क्षं नमः - कट्यादिवामपादाङ्गुल्यन्तं ५. पुनः ॐ अं ॐ नमः । ॐ आं ॐ नमः इत्येवं प्रणवपुटितवर्णान् मातृकास्थानेषु न्यसेत् । ६. पुनः ॐ अं ब्रह्मणे नमः । ॐ आं विष्णवे । इं रुद्राय । ईं ओङ्काराय । उं प्रणवाय । ऊं सर्वव्यापिने । ऋं अनन्ताय । ॠं ताराय । लृं सूक्ष्माय । लॄं शुक्लाय । एं वैद्युताय । ऐं पराय । ॐ ब्रह्मणे । औं एकाय । अं एकरुद्राय । अः ईशानाय । कं भगवते । खं महेश्वराय । गं महादेवाय । घं सदाशिवाय । ङं सर्वरक्षित्रे । चं सर्वगताय । छं सर्वप्रियतमाय । जं नित्यतृप्ताय । झं सर्वापगमाय । ञं सर्वकान्ताय । टं सर्वप्रतिष्ठाय । ठं सर्वश्रोत्रे । डं सर्वस्वामिने । ढं सर्वसमृद्धाय । णं सर्वचक्राय । तं सर्वक्रियाय । थं सर्वेच्छाय । दं सर्वदीप्ताय । धं सर्वावाप्ताय । नं सर्वालिङ्गिताय । पं सर्वहिंसकाय । फं सर्वदाहकाय । बं सर्वभावाय । भं सर्ववृद्धाय । मं गुणबीजाय । यं स्रुवाय । रं वेदादये । लं आदये । वं मध्यमाय । शं पराय । षं त्रिमात्राय । सं योनये । हं सर्वदेहाश्रयाय । ळं संवादकाय । क्षं सर्वात्मने । इति प्रणवादीन् नमोऽन्तान्मातृकाक्षरस्थानेषु न्यसेत् । ध्यानक्रमः- षट्कुक्षिं पीठसंस्थं तदुपरि विलसत्सोमसूत्रं सबिन्दुं तन्मध्ये नादसंज्ञं प्रणवमभिवृतं बिन्दुनादौ पुनश्च । इत्थं सञ्चिन्त्य योगी विविधमनुदिनं तारगं व्योमसंस्थं सर्वाधारं महेशं सकृदपि मनसा संस्मरेद्यः स मुक्तः ॥ इति प्रणवविधानं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Pranava Vidhanam
% File name             : praNavavidhAnam.itx
% itxtitle              : praNavavidhAnam
% engtitle              : praNavavidhAnam
% Category              : shiva, deities_misc, sahasranAmAvalI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri
% Indexextra            : (Scan, Info 1, 2)
% Latest update         : August 6, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org