स्कन्दप्रोक्तं भस्मधारणफलोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्दः (उवाच)
अष्टस्थानधृतं त्रिपुण्ड्रमलिके स्यादष्टमूर्तिप्रियं
तद्वै द्वादशरुद्रदैवतमुमे तद्द्वादशाङ्गैर्धृतम् ।
मन्ये षोडशशीतलाङ्गकलया धार्यं त्रिपुण्ड्रं तनौ
द्वात्रिंशस्थित वर्ष्मणि त्रिभुवनाधीशास्पदं प्राप्नुयात् ॥ ५९॥
धृतं ललाटेऽक्षि दधाति भाले
पाणावथैणं शिरसीन्दुगङ्गाम् ।
वक्षस्सुचक्षुःश्रवसोरुहारं
हारोभवेत् भूतिविभूतिभानैः ॥ ६०॥
यो वह्निसप्तकमनुप्रथितोरु भस्म-
भूषस्त्रयायुषमनुप्रथितोरुपुण्ड्रः ।
भालैणवाहसख एणकृताङ्कमौलि-
रेणीदृशार्धतनुरेणकरो भवेत् सः ॥ ६१॥
विरजानलजां समिद्भवां वा
सितवर्णां किल धारयेद्विभूतिम् ।
स्मृतिजातानलभस्मधार्यमाहु-
र्गृहिणां वै नियमेन सर्वथापि ॥ ६२॥
वनदावोत्थभवं वनेचरो
यतयः सर्वगतं सितं सदा ।
अतिवर्णाश्रमधर्मतत्परः
पितृकान्तारगतं विलेपयेत् ॥ ६३॥
विप्राणां पचनाग्निसम्भवमुमे धार्यं त्रिपुण्ड्रात्मना
भस्मैवाधहरं भवेत् हितकृत्पादोद्भवानां सदा
सङ्कीर्णेष्वपि रथ्यपथ्यविहितं भस्मैव तत्पावनम् ॥ ६४॥
धन्यानामिदमेव मङ्गलकरं सद्भाललिप्तं मुने ॥ ६५॥
भस्मत्रिपुण्ड्र परिमण्डिततुण्डगण्ड
श्रीबाहुदण्डयुगलांस बृहत्पिचण्डः ।
चण्डांशुसूनुनिलयं न स जातु पश्येत्
इन्दुप्रभासरसमौलिकटाक्षषण्डैः ॥ ६६॥
भवेत्स विभवाधिकः प्रतिभवेऽपि भावादरो
भवोद्भवसमर्चनप्रभवितात्मभावः सदा ।
भजेत भसितं सितं यदि तदा तनुं सन्त्यजन्
भवेत्किल हि ना नरः (यमादृतः) परमकातरः पामरः ॥ ६७॥
शिवे भसित भूषणो भवति भाग्यपूर्णो नरो
वरश्रुतिपरायणोऽप्यहह भस्मपुण्ड्रोज्झितः ।
द्विजाधमकुलानल प्रबलधूमकेतुर्भवे-
त्कदापि नरकालयान्न हि स जातु मुच्येत च ॥ ६८॥
धृतसितभसितत्रिपुण्ड्रभूषा
यतिमतिगतिदायिनःस्तुतेशाः ।
कृतवरसुकृतोज्झितारिवर्गा-
मितहिततपसा भवन्ति हाराः ॥ ६९॥
नाम्ना न शौचाचमनक्रियाभिः
विद्यापि कृताकृताभिः ।
भस्मत्रिपुण्ड्रोज्झितभालगात्रः
पात्रं स नामुष्मिकपुण्यहेतौ ॥ ७०॥
वीतैषणस्त्रिषवणं किल भस्मभूषो
योषाविरुद्धहृदयः किल भक्तवर्यः ।
शाक्तः स मुक्तिपदवीमभिवीक्षितुं वै
त्र्यक्षप्रसादमखिलं स तदा लभेत ॥ ७१॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं भस्मधारणफलोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ६ । ५९-७१॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 6 . 59-71..
Notes:
Skanda स्कन्द summarizes about the merits of applying Bhasma Tripuṅḍra भस्म त्रिपुण्ड्र.
ŚivaRahasyam daśamāṃśaḥ शिवरहस्यं दशमांशः has several chapters devoted to Bhasma भस्म - it’s preparation, application, related mantra-s etc.
Proofread by Ruma Dewan