स्कन्दप्रोक्तं सदाशिवविग्रहवर्णनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- जैगीषव्यस्कन्दसंवादे -
स्कन्द उवाच ।
शिवेनोक्तं समासेन देव्यै देवेन कीर्तितम् ।
शृणुष्व मुनिभिः सार्धं गणैः सुरगणैः सह ॥ १॥
पुरा कल्पान्तरे शम्भुः सृष्ट्युपायमचिन्तयत् ।
पञ्चाननः स्वयं जातो मायास्वीकृतविग्रहः ॥ २॥
तेजोराशिः स्वप्रकाशः स्वभासा भासयञ्जगत् ।
वदनानि महेशस्य प्रादुरासन् समन्ततः ॥ ३॥
प्राक्प्रत्यक्दक्षिणोदीच्यां ऊर्ध्वं वर्णैश्च पञ्चभिः ।
त्र्यक्षाणि चाभ्रगङ्गेन्द्रशेखराणि समन्ततः ॥ ४॥
तमपूर्वमुखं सौम्यं शुद्धस्फटिकसन्निभम् ।
बालेन्दुमकुटं त्र्यक्षं सुस्मितं करुणाधिकम् ॥ ५॥
विराट् ततः प्रादुरभून्नकारात्मा प्रजापतिः ।
भूरभूच्च ततो विप्र प्रतिष्ठा शाश्वती ततः ॥ ६॥
स एव भगवान् ब्रह्मा लोकसर्गे पितामहः ।
अघोरं दक्षिणं वक्त्रं प्रादुरासीन्महेशितुः ॥ ७॥
दंष्ट्राकरालभ्रुकुटीनिटालाक्षं जगत्प्रभुम् ।
इन्द्रनीलसमाकारं त्र्यक्षं बालेन्दुभूषितम् ॥ ८॥
स्वराडाख्यस्ततो रुद्रः शूलहस्तो विनिर्गतः ।
मकारवाच्यो भगवान् ज्योतिषामयनस्तदा ॥ ९॥
ऊधसद्योजातमुखं शम्भो शारदाम्भोदसच्छवि ।
दीप्तत्रिणयनं सोमधामसामिशिखं मुने ॥ १०॥
सम्राडाख्यस्ततो विष्णुः शिकारादुद्बभूव ह ।
आपस्तस्मात्समुद्भूता लोके सर्गे पुरा मुने ॥ ११॥
वामदेवमुखं शम्भोः प्रादुर्भूतं तदावशात् ।
पद्मरागसमप्रख्यं भालेन्दुकृतशेखरम् ॥ १२॥
त्र्यक्षं प्रसन्नवदनं वकाराख्यादपीश्वरः ।
वायुः प्राणशरीरात्मा जगतां सम्बभूव ह ॥ १३॥
ईशानाख्यं मुखं शम्भोः पर्वशर्वरिनाथवत् ।
त्रिलोचनं चन्द्रचूडमुदभूद्यादिदैवतम् ॥ १४॥
सदाशिवोपकाराच्च प्रादुर्भूतो महेश्वरात् ।
पञ्चब्रह्ममयाकारा मूर्तयोऽमी महेशितुः ॥ १५॥
तुरीयाच्च तदोङ्कारः प्रादुर्भूतोऽर्थवाचकः ।
पञ्च सादाख्यरूपास्ते शिववक्त्राद्विनिर्गताः ॥ १६॥
जगतामुपकाराय ब्रह्मविष्णुमहेश्वराः ।
सदाशिवश्चेश्वरश्च पञ्चब्रह्माण इत्यमी ॥ १७॥
सृष्टिस्थित्युपसंहारतिरोधानानुदर्शकाः ।
पञ्चाक्षरोद्भवाश्चेत्थमुद्बभूव भवान् मुने ॥ १८॥
मुखादिक्रमतःपूर्वं शम्भोरम्भोजसम्भवः ।
नियुक्तः सृष्टिकरणे पालने चाम्बुजेक्षणः ॥ १९॥
रुद्रः संहरणे युक्तो नियुक्तः शूलपाणिना ।
तिरोधानेऽस्य जगत ईश्वरो विनियोजितः ॥ २०॥
सदाशिवोऽनुग्रहणे जगतोऽस्य नियोजितः ।
महादेवेन विप्रेन्द्र भूतादिक्रमवर्णकैः ॥ २१॥
एते हि पशवः प्रोक्ताः पतिरेषां महेश्वरः ।
प्रणवस्यार्थ एवेह अन्ये सर्वे क्रमेश्वराः (?) ॥ २२॥
प्रकाश्यः सर्ववर्णानां शिव एव महेश्वरः ।
पञ्चाक्षरमिदं श्रौतं शतरुद्रीयमध्यगम् ॥ २३॥
वामदेवोऽस्य ऋषिराट् पङ्क्तिश्छन्दः प्रकीर्तितम् ।
सदाशिवोऽस्य देवो हि ``अं'' बीजं शक्तिरुं (``उं'') मुने ॥
ब्रह्मबीजमिदं मन्त्रं मं कीलक मुदीरितम् ।
अङ्गुलीदेहवक्त्रेषु न्यसेत्पञ्चाक्षरं मनुम् ॥ २५॥
ॐ नं तत्पुरुषाय मं अघोरं प्रचक्षते ।
शिं सद्योजातकाय वां वामायेति वा मुने ॥ २६॥
यं ईशानायेति मुने नमोऽन्तेन न्यसेत्क्रमात् ।
अङ्गुलीषु हृदिन्यासं कृत्वाङ्गेषु मुनीश्वर ॥ २७॥
सर्वज्ञधाम्ने हृदयं तृप्तिधाम्ने शिरस्तथा ।
शिखामनादिधाम्ने च कवचे च स्वतन्त्रकम् ॥ २८॥
अलुप्तशक्तिधाम्ने च नेत्रत्रयमथास्त्रकम् ।
अनन्तशक्तिधाम्ने चेत्यङ्गन्यासं चरेत्क्रमात् ॥ २९॥
व्याहृत्या दिग्बन्धनं चैव कृत्वा मूलेन रोधयेत् ।
प्रज्ञानघनमानन्दं कल्याणं शिवमव्ययम् ॥ ३०॥
ध्यायेदहमिति स्वस्थो स्वस्थान्यक्षाणि धारयेत् ।
ध्यायेदेवं विरूपाक्षं षडक्षरविधौ मुने ॥ ३१॥
ध्यानम्
बिभ्रद्दोर्भिः कुठारं मृगमभयकरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मोत्तरीयः ।
ध्येयो मुक्तापरागद्युतिरमृतरसापूर्णकुम्भात्तहस्तः
त्रयक्षः कोटीरकोटीघटिततुहिनरोचिःकलोत्तुङ्गमौलिः ॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सदाशिवविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३६ । १-३०॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 36 . 1-30..
Notes:
Skanda स्कन्द describes to Jaigīṣavya जैगीषव्य about the Five Aspects of SadāŚiva सदाशिव through which He conducts with His Anugraha अनुग्रह, the key functions in The Universe - viz. Sṛṣṭi सृष्टि, Sthiti स्थिति, Upasaṃhāra उपसंहार, Tirodhāna तिरोधान and Anudarśana अनुदर्शन.
SadāŚiva सदाशिव manifests with each of His Five Faces adorned with Three Eyes, facing a specific Direction and representing the respective akśara अक्षर of the ŚivaPaṅcākṣara शिवपञ्चाक्षर i.e. Namaḥ Śivāya नमः शिवाय - that is found in the middle of the Śatarudrīyam शतरुद्रीयम्. These Five are:
Tatpuruṣa - East - Na-kāra तत्पुरुष - न-कार,
Aghora - South - Ma-kāra अघोर - दक्षिण - म-कार,
Sadyojāta - West - Śi-kāra सद्योजात - शि-कार,
Vāmadeva - North - Va-kāra वामदेव - व-कार,
Īśāna - Zenith - Ya-kāra ईशान - य-कार.
Skanda स्कन्द describes about Nyāsa न्यास of the ŚivaṢaḍakṣaraMantra शिवषडक्षरमन्त्र i.e. Om̐ Namaḥ Śivāya ॐ नमः शिवाय; with Om̐ ॐ being the Turīya तुरीय.
Proofread by Ruma Dewan