शिवगौरीसंवादे उपनिषल्लिङ्गकथनम्

शिवगौरीसंवादे उपनिषल्लिङ्गकथनम्

ईश्वरः - अहमीशश्च जीवोऽहमित्यहङ्कारमानिनौ । तावेव हरिब्रह्माणौ तलिङ्गादर्शकौ शिवे ॥ १॥ तन्मौलिमूलं च सुरौ सोऽहङ्कारः प्रकीर्तितः । अहं मानाभिपन्नानां नास्ति तत्पूजनं शिवे ॥ २॥ ईशोऽहं ब्रह्म परमं वाच्यवाचकवर्जितम् । ध्यायन् स्वात्मैक्यविज्ञानमहानन्दाम्बुमग्नधीः ॥ २२॥ सदाशिवोऽहमस्मीति तन्निर्नोदकपानकृत् । एवमात्ममहालिङ्गपूजा ते कथिता शिवे ॥ ३४॥ एवं पूजयतो नित्यं पूज्यपूजाविवर्जितः । पूजकः पूज्यतामेति सदालिङ्गमयोभवेत् ॥ ३५॥ न पूजानलिङ्गं न चोपासनादि न वेदान्तधारारसास्वादनं हि । न वेदप्रचारोत्थर्मैधकजालेस्शिवेमत्प्रसादैकलभ्यं किलेदम् ॥ ३६॥ न च प्राणकोशं न चानन्दकोशं न विज्ञानकोशं न चान्नादिकोशम् । न चाणुर्न दीर्घं न बद्धं न मुक्तं न च द्वैतमेकं त्वनीशं परं च ॥ ३७॥ (न चाणुर्न दीर्घं न बद्धं न मुक्तं न च द्वैतमेकं सदेशं महेशं) ॥ ३७॥ न च व्यापकं देशकालादिहीनमवस्थादिहीनं त्वलिङ्गं रसादि (गुणदि) । गुणातीतमेकं चिदानन्दरूपं घनं चाप्यखण्डं सदाखण्डितेषु ॥ ३८॥ मनोवागतीतं त्वनादिं च सूक्ष्मं सदा शुद्धबुद्धं त्वसङ्गं महाङ्गम् । सदा लिङ्गसङ्गं त्वलिङ्गं सुतुङ्गं नभस्स्वान्तरङ्गं जनानामसङ्गम् ॥ ३९॥ न पुण्यं न पापं न तज्जन्मनाशे न चिन्ता नचार्तिर्न तल्लोभमोहौ । न वा देशिको नैव शिष्यस्तदेवं न वेदान्तवादैर्दुरापं सदापम् ॥ ४०॥ सहस्रास्यहस्तं सहस्रोरुपादं तदेवाधुना पाणिपादास्यहीनम् । तथागन्धमेकं रसैश्चापि हीन मसंस्पर्शकं घ्राणजिह्वादिहीनम् ॥ ४१॥ तुरीयं त्वशीर्णं शरीरेषु नित्यं विभु सर्वदेहादिधर्मैर्विहीनम् । तथात्मानमिष्टं कनिष्टं च ज्येष्टं प्रियं वस्तुतस्सर्वभागेषु युक्तम् ॥ ४२॥ तदेवाखिलैर्भोगजालैर्विहीनं महानन्दसन्दोहधामैकसीम । तदेवास्मि लिङ्गं तदेवास्मि भूतं तदेतद्भविष्यं शिवे वर्तमानम् ॥ ४३॥ तदेवाखिलाधारपुच्छं प्रतिष्ठं तदेवाद्य ब्रह्म तदेव त्वमीशे । तदेवेशि तत्वं सदा तत्वमस्मीत्यहंब्रह्मचास्मीति वाक्यैर्दुरापम् ॥ ४४॥ तदेवायमात्मेति ब्रह्मेत्यहं वै सदा ब्रह्मभूतो भवेदेव ब्रह्म । तदूर्ध्वं ह्यधस्थात्तदेवेति देवि तदेवेशि पश्चात्पुरस्तात्तदेव ॥ ४५॥ तदेवाद्य लोकास्तथालोकलोक्या दिशो भूतवर्गं तथा वेदजालम् । सुराश्चासुरा भूसुराभामुरं तत्प्रविष्टं समस्तेषु निष्टं विशिष्टम् ॥ ४६॥ कनिष्टं विशिष्टैश्च शिष्टीर्दुरापं सदा लोकनेत्रे शिवौ चापिविष्टम् । तदीयप्रसादेन वायुर्द्धरित्री तथा सूर्यचन्द्रादयो वह्नयश्च ॥ ४७॥ विभात्यस्य भासैव लोकं त्वशेषं यदज्ञानतो नित्यमेतज्जडं च । यदुद्बोधनेनापि सर्वं विभाति यदालोकने सर्वमेतद्धिपश्येत् ॥ ४८॥ दृगेतदृशौ नैव रूपं तदेतन्न दृश्यं तथादर्शनं चापि गौरि । न तद्ज्ञानमज्ञानमेतद्विचित्रं न सूक्ष्मं न च स्थूलमण्वादिहीनम् ॥ ४९॥ न तत्किञ्च केनापि पश्यञ्च जिघ्रं न च स्पर्शगन्धादिशब्दादिहीनम् । तदेतत्सुराणां हृदिस्थं गुहास्थं न हि प्राणवाचां मनस्तोऽपि दूरम् ॥ ५०॥ न च स्त्री न पुंश्च न हि क्लीबमेतद्यदा केन कार्येण युक्तं हि तद्धि । न बालं युवा वै न वृद्धं न दीर्घं न च ह्रस्वदीर्घं न कृष्णं न पीतम् ॥ ५१॥ न वै वर्तुलं नैव तद्वै चतुष्कं नचोर्ध्वं न चाधो न तद्विस्तरं हि । तदेवाद्यखण्डं न खण्डादिहीनं समस्ताण्डगं विस्तृतं चाण्डतोऽपि ॥ ५२॥ न शुष्कं न चार्द्रं धनं वापि देवि न किञ्चित्तदेवेह पश्यामि लिङ्गम् । यतो ब्रह्मविष्ण्विन्द्ररुद्राः प्रजाता यतो वा महाभूतसङ्घानि देवि ॥ ५३॥ अनेनैव जीवन्ति नित्यं सदास्ते जगज्जालमेतन्महालोकवर्गैः । तथान्ते लयं याति लिङ्ग त्वलिङ्गे तदेतद्विजिज्ञासस्व ब्रह्मत्वमेव ॥ ५४॥ येनैव सर्वेन्द्रियकल्पना तता रूपञ्च चक्षुः परिपश्यते तत् । तदेव लिङ्गं विमलं प्रपश्य नानैव नास्ति परिदृश्यते तत् ॥ ५५॥ यदैव वाक्सर्वरसांश्च वेत्ति रसातिगं तत्परिपश्यलिङ्गम् । तदेव तच्छ्रोत्रवरं च दिव्यं श्राव्यं श‍ृणोतीदमेवाद्य लिङ्गम् ॥ ५६॥ यदेव चाघ्राति सुगन्धमेतत्तदेव लिङ्गं परिपश्य देवि । यत्रैव त्वक्स्पर्शमथैव वेत्ति तदेव लिङ्गं मम देवि पश्य ॥ ५७॥ यदेव (यनैव) च प्राणिति प्राणिवर्गं बुद्ध्यादि यद्बोधयतेऽद्य लिङ्गम् । पाण्यङ्घ्रिपायुप्रजनादिकेषु विसर्गजानन्दचलं च धर्मम् ॥ ५८॥ तल्लिङ्गमेतद्धि विजानते जना मनो मनो यच्च तदेव लिङ्गम् । यथैव नद्यस्सरमाणास्समुद्रं वेलातिगा नामरूपे विहाय ॥ ५९॥ तल्लिङ्गसन्दर्शनतो नरो भवेन्नामातिगो रूपगुणातिगश्च । तदेव लिङ्गं ध्वनिबिन्दुवर्णं मात्राकलातीतगुणातिगञ्च ॥ ६०॥ ओमोमिति प्राणवर्गे च वेदे वेदान्तसङ्गे च वदत्यभीक्ष्णम् । ईशानवास्यं हि तदेव लिङ्गं पूर्णात्तथा पूर्णतरं सुपूर्णम् ॥ ६१॥ यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासत्सदतीतलिङ्गम् । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ६२॥ भावग्राह्यगनीडं तद्भावाभावकरं हि तत् । कलासर्गगतं लिङ्गं ये विदुस्ते जहुस्तनुम् ॥ ६३॥ स्वभावमेके वदन्तीशलिङ्गं कालं तथान्ये परिमुह्यमानाः । लिङ्गस्यैतन्महिमानमिति वीतशोको ज्ञात्वा लिङ्गं शान्तिमत्यन्तमेति ॥ ६४॥ यस्मिन्लिङ्गे अधिविश्वे निषेदुर्यस्मिन्निदं सञ्चविचैति विश्वम् । यस्माद्बभूव भुवनस्यास्य गोपाः प्रज्ञापतिर्भूतवर्गैककर्ता ॥ ६५॥ यलिङ्गमेतद्भवनं विचक्रमे तस्यांशतः पादमिदं हि विश्वम् । अणोरणीयान्महतो महीयांस्तदेव लिङ्गं निहितं गुहायाम् ॥ ६६॥ न प्रज्ञैव च तल्लिङ्गं नाप्रज्ञं चैतदीश्वरि । अदृश्यं चैव तल्लिङ्गमग्राह्यं तत्सदैव हि ॥ ७८॥ एकात्मप्रत्ययं लिङ्गं प्रपञ्चोपशमं हि तत् । तल्लिङ्गज्ञा इमे लोकास्तल्लिङ्गे लीयतेऽखिलम् ॥ ७९॥ तल्लिङ्गे लयनाद्देवि तज्जलानीति ते जगुः । तद्वेदादौ स्वरं लिङ्गं वेदान्ते च प्रतिष्ठितम् ॥ ८०॥ तल्लिङ्गप्रकृतौलीनाब्रह्मविष्णुमहेश्वराः । तद्ब्रह्मतच्छिवस्साक्षात्तद्विष्णुस्तद्विराट् स्वराट् ॥ ८१॥ सम्राड्विश्वेशि तल्लिङ्गं तद्दृश्यं सूक्ष्मदर्शिभिः । हृदा पश्यन्ति तल्लिङ्गं मनसैव मनीषिणः ॥ ८२॥ श्रवणायापि तल्लिङ्गं न लब्धं बहुभिरिश्शिवे । श‍ृण्वन्तोऽपि शिवे लिङ्गं न विदुर्बहवोऽपि ये ॥ ८३॥ आश्चर्यवत्पश्यति कश्चिदेतदाश्चर्यवच्छृणुते तच्चलिङ्गम् । आश्चर्यवद्बोधते यं तथान्ये ह्याश्चर्यवत्पश्यति तच्चलिङ्गम् ॥ ८४॥ न प्राणेन नापानेन लिङ्गहीनो न जीवति ॥ ८५॥ अजामेकां लोहितशुक्लृकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो लिङ्गी जुषमाणोऽनुशेते जहात्येनां लिङ्गसंस्थस्स आत्मा ॥ ८६॥ तल्लिङ्गमारे द्रष्टव्यं श्रोतव्यं वेदपर्वतैः । पुरीशयं च तल्लिङ्गं सर्वभूतेषु संस्थितम् ॥ ८७॥ कोह्येवान्याञ्चकःप्राण्याल्लिङ्गहीनोमहेश्वरि । रसोह्येषमहालिङ्गरस एषोऽम्बिकेसदा ॥ ८८॥ एतद्धि परमानन्दं लिङ्गमेतत्स्वयं प्रभम् ॥ ८९॥ यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति किश्चित् । वृक्ष इव स्तब्धन्दिवि तिष्ठति लिङ्गमेकं तेनेदं पूर्णं लिङ्गभासैकसर्वम् ॥ ९०॥ लिङ्गाद्वाचो निवर्तन्ते ह्यप्राप्य मनसा सह । तदत्यतिष्ठद्देवेशि ब्रह्माण्डोर्ध्वाङ्गुलं ततम् ॥ ९१॥ तस्मिन्भाति स्वयं लिङ्गं चन्द्रसूर्याग्नयो न हि । भाति तत्तेजसा व्याप्तं जगदेतच्चराचरम् ॥ ९२॥ यथा क्षेत्रज्ञविहितं हि भूमौ गुहाहितं तच्च लिङ्गं महान्तम् । हिरण्यं न विन्दन्ति चोर्ध्वं चरन्तस्तथेदं प्रपश्याम्बिके लिङ्गमेतत् ॥ ९३॥ जाग्रत्स्वप्नसुषुप्तीषु यल्लिङ्गं मनसा ततम् । तदेतदहमिति ज्ञात्वा लिङ्गी लिङ्गातिगो भवेत ॥ ९४॥ यथोर्णनाभिस्सृजते तन्तुजालं गृह्णाति वक्त्रेण तथात्ति सर्वम् । तथा जगज्जालमिदं हि लिङ्गतो भवत्यतोऽन्ते विलयं प्रयाति ॥ ९५॥ ब्रह्मैव तल्लिङ्गमिदं सनातनं स्वविद्यया संसरते च मुच्यते । तदेतल्लिङ्गं तपसा वेदितव्यं नान्यैर्धर्मैस्तच्च लिङ्गं त्वलिङ्गम् ॥ ९६॥ तदेव लिङ्गं त्वविमुक्ते निविष्टं भूतातिगं विश्वनाथाभिधं च । वाराणस्यां भ्रूयुगे सन्निविष्टं योगैः पश्यन्ति तत्र ते चोत्क्रमन्ति ॥ ९७॥ तत्रैव तेषां तारकं चोपदेशमोङ्काराद्यं प्रणवं ब्रह्ममन्त्रम् । न तस्य प्राणोऽनुत्क्रमतीव देवि तल्लिङ्गसङ्गं भवतीत्यलिङ्गम् ॥ ९८॥ दहराद्विस्तरं तच्च सूर्यमण्डलमण्डितम् । चन्द्रकोटिसहस्राभं तदृश्यं सर्वधा शिवे ॥ १०४॥ योगेनात्मानुसन्धानैर्वीतमोहभयैस्सदा ॥ १०५॥ वेदान्तविज्ञानसुनिश्चितार्थैस्सन्यासयोगैर्यतिभिश्शुद्धबुद्धैः । तेषामेवैतद्विरजं लिङ्गधाम प्राप्यप्राप्तेश्चाविदूरं शिवेऽद्य ॥ १०६॥ नैषा तर्केण मतिरापनेया क्षुरोपमं लिङ्गमेतद्धि सत्यम् । ऋचो अक्षरे परमे तत्प्रविष्टं सर्गादिहीनं महालिङ्गमेतत् ॥ १०७॥ सुराद्यैर्दुरापं तथायोगिभिः कर्मभिश्चाप्यवश्यम् । तल्लिङ्गत्यागेन सर्वधा वीतमोहो भवत्यवश्यं श्रुतिगुह्यमेतत् ॥ १०८॥ यो नाविरतो दुश्चरतितान्नाशान्तो नासमाहितः । तस्यैतद्दुर्लभं लिङ्गमासक्तस्यैव सर्वगम् ॥ १०९॥ येषां न जिह्ममनृतं सदैव तेषां लिङ्गं हृदि भात्येव शान्तम् । अतो लिङ्गं पूजयेदात्मकामो न कामकामी लिङ्गपूजाधिकारी ॥ ११०॥ एतदर्थं गूढतमं महेशि नान्ये विन्दन्ति ज्ञाननिष्ठा हि भूयः । न वा देशिको नैव शिष्यः कदाचिन्न पूजा न पूज्यो न वा पूजकत्वम् ॥ १११॥ स्वदोषात्प्रदोषोऽपि नास्त्येव लिङ्गे जगन्नैव शेषं विशेषाद्भवानि । महाशेषभूषाविशेषोऽपिनात्र सदोषाकरापारमौलिर्न चैव ॥ ११२॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवगौरीसंवादे उपनिषल्लिङ्गकथनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५९ - शिवगौरीसंवादे उपनिषल्लिङ्गकथनम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 59 - shivagaurIsaMvAde upaniShallingakathanam . vAvRRittashlokAH .. Notes: Śiva शिव reveals to Devī देवी, the mysteries and subtleties of worship of Śivaliṅga शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Shivagaurisamvade Upanishadlingakathanam
% File name             : upaniShallingakathanam.itx
% itxtitle              : upaniShalliNgakathanam (shivarahasyAntargatam)
% engtitle              : upaniShadlingakathanam
% Category              : shiva, shivarahasya, upanishhat, upaniShat
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 59 - shivagaurIsaMvAde upaniShalliNgakathanam | vAvRittashlokAH ||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org