शिवगौरीसंवादे उपनिषल्लिङ्गकथनम्
ईश्वरः -
अहमीशश्च जीवोऽहमित्यहङ्कारमानिनौ ।
तावेव हरिब्रह्माणौ तलिङ्गादर्शकौ शिवे ॥ १॥
तन्मौलिमूलं च सुरौ सोऽहङ्कारः प्रकीर्तितः ।
अहं मानाभिपन्नानां नास्ति तत्पूजनं शिवे ॥ २॥
ईशोऽहं ब्रह्म परमं वाच्यवाचकवर्जितम् ।
ध्यायन् स्वात्मैक्यविज्ञानमहानन्दाम्बुमग्नधीः ॥ २२॥
सदाशिवोऽहमस्मीति तन्निर्नोदकपानकृत् ।
एवमात्ममहालिङ्गपूजा ते कथिता शिवे ॥ ३४॥
एवं पूजयतो नित्यं पूज्यपूजाविवर्जितः ।
पूजकः पूज्यतामेति सदालिङ्गमयोभवेत् ॥ ३५॥
न पूजानलिङ्गं न चोपासनादि न वेदान्तधारारसास्वादनं हि ।
न वेदप्रचारोत्थर्मैधकजालेस्शिवेमत्प्रसादैकलभ्यं किलेदम् ॥ ३६॥
न च प्राणकोशं न चानन्दकोशं न विज्ञानकोशं न चान्नादिकोशम् ।
न चाणुर्न दीर्घं न बद्धं न मुक्तं न च द्वैतमेकं त्वनीशं परं च ॥ ३७॥
(न चाणुर्न दीर्घं न बद्धं न मुक्तं न च द्वैतमेकं सदेशं महेशं) ॥ ३७॥
न च व्यापकं देशकालादिहीनमवस्थादिहीनं त्वलिङ्गं रसादि (गुणदि) ।
गुणातीतमेकं चिदानन्दरूपं घनं चाप्यखण्डं सदाखण्डितेषु ॥ ३८॥
मनोवागतीतं त्वनादिं च सूक्ष्मं सदा शुद्धबुद्धं त्वसङ्गं महाङ्गम् ।
सदा लिङ्गसङ्गं त्वलिङ्गं सुतुङ्गं नभस्स्वान्तरङ्गं जनानामसङ्गम् ॥ ३९॥
न पुण्यं न पापं न तज्जन्मनाशे न चिन्ता नचार्तिर्न तल्लोभमोहौ ।
न वा देशिको नैव शिष्यस्तदेवं न वेदान्तवादैर्दुरापं सदापम् ॥ ४०॥
सहस्रास्यहस्तं सहस्रोरुपादं तदेवाधुना पाणिपादास्यहीनम् ।
तथागन्धमेकं रसैश्चापि हीन मसंस्पर्शकं घ्राणजिह्वादिहीनम् ॥ ४१॥
तुरीयं त्वशीर्णं शरीरेषु नित्यं विभु सर्वदेहादिधर्मैर्विहीनम् ।
तथात्मानमिष्टं कनिष्टं च ज्येष्टं प्रियं वस्तुतस्सर्वभागेषु युक्तम् ॥ ४२॥
तदेवाखिलैर्भोगजालैर्विहीनं महानन्दसन्दोहधामैकसीम ।
तदेवास्मि लिङ्गं तदेवास्मि भूतं तदेतद्भविष्यं शिवे वर्तमानम् ॥ ४३॥
तदेवाखिलाधारपुच्छं प्रतिष्ठं तदेवाद्य ब्रह्म तदेव त्वमीशे ।
तदेवेशि तत्वं सदा तत्वमस्मीत्यहंब्रह्मचास्मीति वाक्यैर्दुरापम् ॥ ४४॥
तदेवायमात्मेति ब्रह्मेत्यहं वै सदा ब्रह्मभूतो भवेदेव ब्रह्म ।
तदूर्ध्वं ह्यधस्थात्तदेवेति देवि तदेवेशि पश्चात्पुरस्तात्तदेव ॥ ४५॥
तदेवाद्य लोकास्तथालोकलोक्या दिशो भूतवर्गं तथा वेदजालम् ।
सुराश्चासुरा भूसुराभामुरं तत्प्रविष्टं समस्तेषु निष्टं विशिष्टम् ॥ ४६॥
कनिष्टं विशिष्टैश्च शिष्टीर्दुरापं सदा लोकनेत्रे शिवौ चापिविष्टम् ।
तदीयप्रसादेन वायुर्द्धरित्री तथा सूर्यचन्द्रादयो वह्नयश्च ॥ ४७॥
विभात्यस्य भासैव लोकं त्वशेषं यदज्ञानतो नित्यमेतज्जडं च ।
यदुद्बोधनेनापि सर्वं विभाति यदालोकने सर्वमेतद्धिपश्येत् ॥ ४८॥
दृगेतदृशौ नैव रूपं तदेतन्न दृश्यं तथादर्शनं चापि गौरि ।
न तद्ज्ञानमज्ञानमेतद्विचित्रं न सूक्ष्मं न च स्थूलमण्वादिहीनम् ॥ ४९॥
न तत्किञ्च केनापि पश्यञ्च जिघ्रं न च स्पर्शगन्धादिशब्दादिहीनम् ।
तदेतत्सुराणां हृदिस्थं गुहास्थं न हि प्राणवाचां मनस्तोऽपि दूरम् ॥ ५०॥
न च स्त्री न पुंश्च न हि क्लीबमेतद्यदा केन कार्येण युक्तं हि तद्धि ।
न बालं युवा वै न वृद्धं न दीर्घं न च ह्रस्वदीर्घं न कृष्णं न पीतम् ॥ ५१॥
न वै वर्तुलं नैव तद्वै चतुष्कं नचोर्ध्वं न चाधो न तद्विस्तरं हि ।
तदेवाद्यखण्डं न खण्डादिहीनं समस्ताण्डगं विस्तृतं चाण्डतोऽपि ॥ ५२॥
न शुष्कं न चार्द्रं धनं वापि देवि न किञ्चित्तदेवेह पश्यामि लिङ्गम् ।
यतो ब्रह्मविष्ण्विन्द्ररुद्राः प्रजाता यतो वा महाभूतसङ्घानि देवि ॥ ५३॥
अनेनैव जीवन्ति नित्यं सदास्ते जगज्जालमेतन्महालोकवर्गैः ।
तथान्ते लयं याति लिङ्ग त्वलिङ्गे तदेतद्विजिज्ञासस्व ब्रह्मत्वमेव ॥ ५४॥
येनैव सर्वेन्द्रियकल्पना तता रूपञ्च चक्षुः परिपश्यते तत् ।
तदेव लिङ्गं विमलं प्रपश्य नानैव नास्ति परिदृश्यते तत् ॥ ५५॥
यदैव वाक्सर्वरसांश्च वेत्ति रसातिगं तत्परिपश्यलिङ्गम् ।
तदेव तच्छ्रोत्रवरं च दिव्यं श्राव्यं शृणोतीदमेवाद्य लिङ्गम् ॥ ५६॥
यदेव चाघ्राति सुगन्धमेतत्तदेव लिङ्गं परिपश्य देवि ।
यत्रैव त्वक्स्पर्शमथैव वेत्ति तदेव लिङ्गं मम देवि पश्य ॥ ५७॥
यदेव (यनैव) च प्राणिति प्राणिवर्गं बुद्ध्यादि यद्बोधयतेऽद्य लिङ्गम् ।
पाण्यङ्घ्रिपायुप्रजनादिकेषु विसर्गजानन्दचलं च धर्मम् ॥ ५८॥
तल्लिङ्गमेतद्धि विजानते जना मनो मनो यच्च तदेव लिङ्गम् ।
यथैव नद्यस्सरमाणास्समुद्रं वेलातिगा नामरूपे विहाय ॥ ५९॥
तल्लिङ्गसन्दर्शनतो नरो भवेन्नामातिगो रूपगुणातिगश्च ।
तदेव लिङ्गं ध्वनिबिन्दुवर्णं मात्राकलातीतगुणातिगञ्च ॥ ६०॥
ओमोमिति प्राणवर्गे च वेदे वेदान्तसङ्गे च वदत्यभीक्ष्णम् ।
ईशानवास्यं हि तदेव लिङ्गं पूर्णात्तथा पूर्णतरं सुपूर्णम् ॥ ६१॥
यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासत्सदतीतलिङ्गम् ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ६२॥
भावग्राह्यगनीडं तद्भावाभावकरं हि तत् ।
कलासर्गगतं लिङ्गं ये विदुस्ते जहुस्तनुम् ॥ ६३॥
स्वभावमेके वदन्तीशलिङ्गं कालं तथान्ये परिमुह्यमानाः ।
लिङ्गस्यैतन्महिमानमिति वीतशोको ज्ञात्वा लिङ्गं शान्तिमत्यन्तमेति ॥ ६४॥
यस्मिन्लिङ्गे अधिविश्वे निषेदुर्यस्मिन्निदं सञ्चविचैति विश्वम् ।
यस्माद्बभूव भुवनस्यास्य गोपाः प्रज्ञापतिर्भूतवर्गैककर्ता ॥ ६५॥
यलिङ्गमेतद्भवनं विचक्रमे तस्यांशतः पादमिदं हि विश्वम् ।
अणोरणीयान्महतो महीयांस्तदेव लिङ्गं निहितं गुहायाम् ॥ ६६॥
न प्रज्ञैव च तल्लिङ्गं नाप्रज्ञं चैतदीश्वरि ।
अदृश्यं चैव तल्लिङ्गमग्राह्यं तत्सदैव हि ॥ ७८॥
एकात्मप्रत्ययं लिङ्गं प्रपञ्चोपशमं हि तत् ।
तल्लिङ्गज्ञा इमे लोकास्तल्लिङ्गे लीयतेऽखिलम् ॥ ७९॥
तल्लिङ्गे लयनाद्देवि तज्जलानीति ते जगुः ।
तद्वेदादौ स्वरं लिङ्गं वेदान्ते च प्रतिष्ठितम् ॥ ८०॥
तल्लिङ्गप्रकृतौलीनाब्रह्मविष्णुमहेश्वराः ।
तद्ब्रह्मतच्छिवस्साक्षात्तद्विष्णुस्तद्विराट् स्वराट् ॥ ८१॥
सम्राड्विश्वेशि तल्लिङ्गं तद्दृश्यं सूक्ष्मदर्शिभिः ।
हृदा पश्यन्ति तल्लिङ्गं मनसैव मनीषिणः ॥ ८२॥
श्रवणायापि तल्लिङ्गं न लब्धं बहुभिरिश्शिवे ।
शृण्वन्तोऽपि शिवे लिङ्गं न विदुर्बहवोऽपि ये ॥ ८३॥
आश्चर्यवत्पश्यति कश्चिदेतदाश्चर्यवच्छृणुते तच्चलिङ्गम् ।
आश्चर्यवद्बोधते यं तथान्ये ह्याश्चर्यवत्पश्यति तच्चलिङ्गम् ॥ ८४॥
न प्राणेन नापानेन लिङ्गहीनो न जीवति ॥ ८५॥
अजामेकां लोहितशुक्लृकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् ।
अजो लिङ्गी जुषमाणोऽनुशेते जहात्येनां लिङ्गसंस्थस्स आत्मा ॥ ८६॥
तल्लिङ्गमारे द्रष्टव्यं श्रोतव्यं वेदपर्वतैः ।
पुरीशयं च तल्लिङ्गं सर्वभूतेषु संस्थितम् ॥ ८७॥
कोह्येवान्याञ्चकःप्राण्याल्लिङ्गहीनोमहेश्वरि ।
रसोह्येषमहालिङ्गरस एषोऽम्बिकेसदा ॥ ८८॥
एतद्धि परमानन्दं लिङ्गमेतत्स्वयं प्रभम् ॥ ८९॥
यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति किश्चित् ।
वृक्ष इव स्तब्धन्दिवि तिष्ठति लिङ्गमेकं तेनेदं पूर्णं लिङ्गभासैकसर्वम् ॥ ९०॥
लिङ्गाद्वाचो निवर्तन्ते ह्यप्राप्य मनसा सह ।
तदत्यतिष्ठद्देवेशि ब्रह्माण्डोर्ध्वाङ्गुलं ततम् ॥ ९१॥
तस्मिन्भाति स्वयं लिङ्गं चन्द्रसूर्याग्नयो न हि ।
भाति तत्तेजसा व्याप्तं जगदेतच्चराचरम् ॥ ९२॥
यथा क्षेत्रज्ञविहितं हि भूमौ गुहाहितं तच्च लिङ्गं महान्तम् ।
हिरण्यं न विन्दन्ति चोर्ध्वं चरन्तस्तथेदं प्रपश्याम्बिके लिङ्गमेतत् ॥ ९३॥
जाग्रत्स्वप्नसुषुप्तीषु यल्लिङ्गं मनसा ततम् ।
तदेतदहमिति ज्ञात्वा लिङ्गी लिङ्गातिगो भवेत ॥ ९४॥
यथोर्णनाभिस्सृजते तन्तुजालं गृह्णाति वक्त्रेण तथात्ति सर्वम् ।
तथा जगज्जालमिदं हि लिङ्गतो भवत्यतोऽन्ते विलयं प्रयाति ॥ ९५॥
ब्रह्मैव तल्लिङ्गमिदं सनातनं स्वविद्यया संसरते च मुच्यते ।
तदेतल्लिङ्गं तपसा वेदितव्यं नान्यैर्धर्मैस्तच्च लिङ्गं त्वलिङ्गम् ॥ ९६॥
तदेव लिङ्गं त्वविमुक्ते निविष्टं भूतातिगं विश्वनाथाभिधं च ।
वाराणस्यां भ्रूयुगे सन्निविष्टं योगैः पश्यन्ति तत्र ते चोत्क्रमन्ति ॥ ९७॥
तत्रैव तेषां तारकं चोपदेशमोङ्काराद्यं प्रणवं ब्रह्ममन्त्रम् ।
न तस्य प्राणोऽनुत्क्रमतीव देवि तल्लिङ्गसङ्गं भवतीत्यलिङ्गम् ॥ ९८॥
दहराद्विस्तरं तच्च सूर्यमण्डलमण्डितम् ।
चन्द्रकोटिसहस्राभं तदृश्यं सर्वधा शिवे ॥ १०४॥
योगेनात्मानुसन्धानैर्वीतमोहभयैस्सदा ॥ १०५॥
वेदान्तविज्ञानसुनिश्चितार्थैस्सन्यासयोगैर्यतिभिश्शुद्धबुद्धैः ।
तेषामेवैतद्विरजं लिङ्गधाम प्राप्यप्राप्तेश्चाविदूरं शिवेऽद्य ॥ १०६॥
नैषा तर्केण मतिरापनेया क्षुरोपमं लिङ्गमेतद्धि सत्यम् ।
ऋचो अक्षरे परमे तत्प्रविष्टं सर्गादिहीनं महालिङ्गमेतत् ॥ १०७॥
सुराद्यैर्दुरापं तथायोगिभिः कर्मभिश्चाप्यवश्यम् ।
तल्लिङ्गत्यागेन सर्वधा वीतमोहो भवत्यवश्यं श्रुतिगुह्यमेतत् ॥ १०८॥
यो नाविरतो दुश्चरतितान्नाशान्तो नासमाहितः ।
तस्यैतद्दुर्लभं लिङ्गमासक्तस्यैव सर्वगम् ॥ १०९॥
येषां न जिह्ममनृतं सदैव तेषां लिङ्गं हृदि भात्येव शान्तम् ।
अतो लिङ्गं पूजयेदात्मकामो न कामकामी लिङ्गपूजाधिकारी ॥ ११०॥
एतदर्थं गूढतमं महेशि नान्ये विन्दन्ति ज्ञाननिष्ठा हि भूयः ।
न वा देशिको नैव शिष्यः कदाचिन्न पूजा न पूज्यो न वा पूजकत्वम् ॥ १११॥
स्वदोषात्प्रदोषोऽपि नास्त्येव लिङ्गे जगन्नैव शेषं विशेषाद्भवानि ।
महाशेषभूषाविशेषोऽपिनात्र सदोषाकरापारमौलिर्न चैव ॥ ११२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवगौरीसंवादे उपनिषल्लिङ्गकथनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५९ - शिवगौरीसंवादे उपनिषल्लिङ्गकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 59 - shivagaurIsaMvAde upaniShallingakathanam . vAvRRittashlokAH ..
Notes:
Śiva शिव reveals to Devī देवी, the mysteries and subtleties of worship of Śivaliṅga शिवलिङ्ग.
Encoded and proofread by Ruma Dewan