ईशावास्योपनिषदि श्रीराघवेन्द्रयतिविरचितः खण्डार्थः
% श्रीराघवेन्द्रयतिविरचितः % श्रीमदीशावास्योपनिषत्खण्डार्थः
ॐ ॥ श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् ।
ईशावास्योपनिषदः करिष्याम्यर्थसङ्ग्रहम् ॥
अस्या उपनिषदः स्वायम्भुवो मनु ऋषिः । यज्ञनामा हरिर्देवता । अनुष्टुबादि
यथायोग्यं छन्दो ज्ञेयम् । “ अनेजद्” इत्यादिना तत्त्वं विवक्षुरुपदिष्टं
तत्त्वं अधिकारिण एव हि हृद्यवतिष्ठते, नान्यस्य, इति एतदुपनिषदधिकारसिद्ध्यर्थं
विच्छिन्नविषयतृष्णत्वं तावदाद्येन मन्त्रेण सयुक्तिकं विधत्ते -
%“ ईशा” इति ॥
ॐ ईशावास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
“ यत्किञ्च” जगदिदं तत्सर्वं प्रवृत्त्यर्थं आत्मनि “ ईशावास्यम्” ।
आवासमर्हति, इति आवास्यम् । ईशस्य आवास्यं “ ईशावास्यं”, lस्क़् ईशानुप्रविष्टम्rस्क़्
इत्यर्थः । “ तदेवानुप्राविशद्” इत्यादेः । lस्क़् अतोऽस्वतन्त्रम्rस्क़् इति भावः ।
किञ्च “ जगत्यां” प्रकृताविदं सर्वमाश्रितम् । सा च ईशायत्ताऽतोऽपि
अस्वतन्त्रम् । ईश एव स्वतन्त्रः । तेन कारणेन “ तेन” ईश्वरेण “ त्यक्तेन”
दत्तेन वित्तेन । lस्क़् यदृच्छालब्धेनrस्क़्, इति यावत् । “ भुञ्जीथाः” भोगं कुर्याः ।
“ कस्यस्वित्” कस्यापि राजादेः सकाशात् “ धनं” “ मा गृध”, नाऽकाङ्क्षेथाः ।
lस्क़् ईशादन्यस्यास्वातन्त्र्येण तस्य दाने सामर्थ्याभावाद्, ईशदत्तेनैव वर्तेतrस्क़्
- इति भावः ॥ १॥
lस्क़् तृष्णाविच्छेदवत्, स्वोचितकर्मानुष्ठानमपि ज्ञानार्थिनां आवश्यकम्rस्क़्,
इत्याह -
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
“ शतं समाः”, शतं वर्षाणि । “ कालाध्वनोरत्यन्तसंयोगे”
(अष्टा. २.३.५) इति द्वितीया । इह मानुषादिजन्मनि यावज् “ जिजीविषेत्”
जीवितुमिच्छेत् तावत् “ कर्माणि” “ कुर्वन्नेव” - lस्क़् आमरणं भगवत्पूजात्मकानि
असङ्कल्पितफलानि स्वोचितानि कर्माणि सर्वथा कुर्याद्rस्क़् इति यावत् ।
कुतः? एवं कर्माणि कुर्वति नरे मनुष्यमात्रेऽपि त्वयि कर्म पापं न लिप्यते ।
स्वोचितेन असङ्कल्पितफलेन कर्मणा भगवत्पूजां कुर्वन्तं अल्पाधिकारिणामपि न
प्रागुत्तराणि पापानि बाधन्ते । lस्क़् ततश्च ज्ञानाधिकारी स भवतिrस्क़् इति यावत् ।
इतःकर्मकरणात् lस्क़् अन्यथा अकरणे कर्म पापं न लिप्यतrस्क़् इति नास्ति ।
lस्क़् भगवत्पूजामकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने न अधिक्रियते ।
अतश्च कर्माणि कुर्याद्rस्क़् - इति ।
पुरुषार्थनये, “ नियमाच्च” (ब्र.सू. ३.४.७) इति सूत्रभाष्यादौ
“ नरे ज्ञानिन्यपि त्वयि कर्म न लिप्यत इति नास्ति” इति lस्क़् अपरोक्षज्ञानिनोऽपि
कर्माकरणे मुक्तौ आनन्दह्रासरूप पापकर्मलेपो अस्त्येवrस्क़्, इति ज्ञानिपरतया
मन्त्रो व्याख्यातः ॥ २॥
एवं प्राप्ताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननाय विपरीतज्ञानिनो निन्दायां
आह -
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥
सुष्ठु रमणं सूर्यम् । सुपूर्वस्य रमतर्ड्यप्रत्ययः तद्विरुद्धं
असुर्यं महादुःखम् । असुर्यमेषु अस्तीत्यसुर्याः । अर्श आद्यच् प्रत्ययान्तोऽयम् ।
महादुःखवत्त्वाद् “ असुर्याः” । असुरप्राप्यत्वाद् वा “ असुर्याः” ।
“ अन्धेन तमसाः” अन्धयतीति व्युत्पत्त्या, निबिडान्धकारेण इत्यर्थः ।
lस्क़् आवृतास्ते प्रसिद्धा यःrस्क़् इति शेषः । लोकास्तान् “ प्रेत्य” मृत्वा
“ अभिगच्छन्ति” ।
lस्क़् ते क?rस्क़् इत्यत उक्तं, “ य” इति । “ आत्महनः” - lस्क़् यथावद्
आत्मानमज्ञात्वा वैपरीत्येन जानन्तो, ये केचन वर्तन्ते ते सर्वेऽपि
अभिगच्छन्तिrस्क़्, इति । “ नाम” - lस्क़् निश्चितमेतद्rस्क़्, इत्यर्थः ॥ ३॥
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥
इदानीं परमात्मतत्त्वमुपदिशति, “ अनेजद्” इत्यादिमन्त्रद्वयेन ।
तत्परमात्मस्वरूपं अनेजत् । “ एजृ कम्पने” । lस्क़् अकम्पमानं निर्भयत्वाद्rस्क़्,
इति भावः । “ एकं” प्रधानम् । “ मनसो''ऽपि “ जवीयः” वेगवत्तरम् ।
“ एनत्” परब्रह्मस्वरूपं “ देवाः” न “ आप्नुवत्” साकल्येन न व्यजानन् ।
lस्क़् ब्रह्म तु “ पूर्वं” अनादिकालं स्वभावतंrस्क़्, इति यावत् । “ अर्षत्”,
“ ऋष ज्ञाने” सर्वं व्यजानत् । आडागमाभावच्छान्दसः (आडागमाभावश्छन्दसः) ।
“ तद्” ब्रह्म “ तिष्ठत्” विद्यमानमेव (विद्यमानेव) सद् “ धावतो”,
वेगेन गच्छतो “ ऽन्यान्” जनान् “ अत्येति” अतिक्रम्य वर्तते ।
lस्क़् अचिन्त्यशक्तित्वात्, सर्वगतत्वाच्चrस्क़्, इति भावः । “ तस्मिन्” हरौ
“ मातरिश्वा” मुख्यवायुः आसमन्तात् पालयन्तीति व्युत्पत्त्या अपः कर्माणि ।
lस्क़् स्वप्रेरणया प्राणिभिः क्रियमाणानि पुण्यकर्माणि “ दधाति” समर्पयतिrस्क़्
- इति ॥ ४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ५॥
“ तद्''इति पञ्चम्यर्थे अव्ययम् । lस्क़् जगद्rस्क़् इति शेषः ।
तत्तस्मात् प्रकृताद् हरेः जगद् “ एजति” बिभेति - तत् ब्रह्म “ नैजति”
न बिभेति, स्वतन्त्रत्वाद्, इति भावः । तदु तदेव ब्रह्म दूरे । lस्क़् तदु तदेवान्तिके
समीपे च, सर्वगतत्वाद्rस्क़्, इति भावः । तत् ब्रह्म अस्य प्रमितस्य सर्वस्यान्तः ।
lस्क़् तदु तदेव सर्वस्य बाह्यतः, बहिरपि सर्वव्यापित्वाद्rस्क़्, इति भावः ॥ ५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
“ तद्दूर” इत्यादौ हरेः सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् ।
तज्ज्ञानस्य फलमाह - “ यस्तु” इति । “ सर्वाणि भूतानि” चिदचिदात्मकं
सर्वं जगत् । “ आत्मन्येव” परमात्माश्रयत्वेन एव अस्तीति “ यस्तु” “ अनु”
निस्सन्देहं “ पश्यति” जानाति । यद्वा आश्रितत्वक्रमानुरोधेनेति “ अनु''शब्दार्थः ।
“ सर्वभूतेषु च आत्मानं” - lस्क़् सर्वभूतेषु नियन्तृतया स्थितं हरिं यो
अनुपश्यतिrस्क़्, इत्यन्वयः । ततः परमात्मस्वरूपज्ञानित्वात् हेतोर् “ न
विजुगुप्सते” । lस्क़् स्वात्मानं गोप्तुं नेच्छति, भयाभावाद्rस्क़्, इति भावः ॥ ६॥
एतमेवार्थं विवृणोति -
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
lस्क़् यस्मिन्नात्मनि सर्वाणि भूतानि तिष्ठन्ति” इति शेषः । स
“ आत्मैव” तत्र सर्वभूतेषु “ अभूत्”, lस्क़् अनादितो वर्ततrस्क़् इत्यर्थः ।
lस्क़् एवम्rस्क़् इति शेषः । एवं “ विजानतः” सर्वाधारतया सर्वेषु
भूतेषु आत्मानं विशेषेण जानतः सर्वत्र स्थितस्य हरेः “ एकत्वं”
च “ अनुपश्यतः” जानतः, को मोहः कः शोकः? - न कोऽपि, इत्यर्थः ॥ ७॥
lस्क़् भगवज्ज्ञानमात्रेण कुतो मोहाद्यभाव?rस्क़् इत्यत आह -
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरꣳ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः
समाभ्यः ॥ ८॥
lस्क़् स ज्ञानी पर्यगात् प्राप्तोऽभूत् ब्रह्माrस्क़् इति शेषः । lस्क़् तावता कथं
शोकाद्यभाव?rस्क़् इत्यतः तद्विशिनष्टि, “ शुक्रम्” इत्यादिना । lस्क़् शुचं शोकं
रहति त्यजतिrस्क़्, इति शुक्रं शोकरहितम् । “ अकायं” लिङ्गदेहरहितम् ।
“ अव्रणं”, “ व्रण सञ्चूर्णन” इत्यतः स्तोको व्रणः । कालेन अस्तोकत्वादव्रणं
नित्यम् । गुणैरस्तोकत्वाद् “ अव्रणम्” - पूर्णमित्यर्थः । “ अस्नाविरम्”
स्नावोपलक्षितसप्तधातुमयस्थूलदेहरहितम् । “ शुद्धं” पावित्र्यहेतुं, शुद्धत्वादेव
“ अपापविद्धम्” । तत एव हेतोः पापमूलस्थूलसूक्ष्मशरीरहीनम् । तत एव
lस्क़् देहनिमित्तशोकादिशून्यम्rस्क़्, इति “ शुक्रम्” इत्युच्यते । एवम्भूतं हरिं
“ पर्यगाद्” यतोऽतः कारणाच्छोकाद्यभावः । lस्क़् एवम्भूतहरिसारूप्यलक्षणां
तद्गतिं गतस्य शोकाद्यभावो युक्तrस्क़्, इति भावः ।
lस्क़् ननु एवमशरीरश्चेत्, जगत्स्रष्टा नेति प्राप्तम् । लोके सदेहस्यैव
स्रष्टृतादर्शनाद्rस्क़् इत्याशङ्कां निराह - “ कविर्” इति । कविः सर्वज्ञः ।
“ मनीषी” प्रकृत्यादिसर्वमनसां ईशितृत्वाद् मनीषी । एतेन
lस्क़् ज्ञानाविनाभूतदेहवान्rस्क़् इति लभ्यते । स च अप्राकृत एव, इति प्रागुक्तः ।
तन्निमित्तशोकाद्यभावो युक्तः । प्राकृतस्यैव तद्धेतुत्वात् । lस्क़् परिभवति सर्वं
वशीकरोतिrस्क़् इति “ परिभूः” । lस्क़् सर्वतो वरrस्क़् इत्यर्थः । lस्क़् स्वयमेव
परमनपेक्ष्य भवतिrस्क़् इति “ स्वयम्भूः” । सदाऽनन्याश्रयः “ शाश्वतीभ्यः समाभ्य”
इति पञ्चमी सप्तम्यर्थे । अनाद्यनन्तसंवत्सरेषु “ याथातथ्यतो” याथार्थ्येन
वर्तमानानर्थान् “ व्यदधान्” निर्मिमे । याथातथ्यत इत्युक्त्या lस्क़् ब्रह्मविवर्तत्वादर्थानां
न तत्सृष्टौ देहाद्यपेक्षाrस्क़् इति चोद्यं निरस्तम् । “ शाश्वतीभ्यः समाभ्य”
इत्युक्त्या lस्क़् सदा देहहीनस्यापि सृष्टिसमये देहोपादानेनास्तु सृष्टिःrस्क़् इति चोद्यं
निरस्तं ध्येयम् । lस्क़् सृष्ट्यादिप्रवाहस्य अनाद्यनन्तकालीनत्वाद्rस्क़् इति ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥
“ विजानतो''“ ऽनुपश्यत” इत्यत्र lस्क़् यथावत्परमात्मज्ञानं
मुक्तिहेतुःrस्क़् इत्युक्तम् । lस्क़् तज्ज्ञानं मिथ्याज्ञाननिन्दासमुच्चितमेव
मुक्तिहेतुः, न केवलम्rस्क़्, इत्याह - “ अन्धं तम” इत्यादिमन्त्रत्रयेण ।
तत्र तावद्यथावज्ज्ञानस्येव अन्यथाज्ञाननिन्दनस्य आवश्यकत्वोपपादनाय
अन्यथाज्ञानस्य प्रागुक्तमसुर्यलोकसाधनत्वमनूद्य अन्यथाज्ञानानिन्दनस्य
ततोऽधिकानर्थहेतुत्वमाद्येन मन्त्रेणोच्यते । अत्र “ अविद्या''शब्देन
विद्याविरोधिमिथ्याज्ञानवाचिना तद्विषयो अन्यथाप्रकारो ग्राह्यः । तथा च
अविद्यां यथावदाकारादन्यथाकारं “ उपासते” ध्यायन्ति ये, ते “ अन्धं तमः
प्रविशन्ति” - इत्युक्तानुवादः । “ ये” “ विद्यायां” “ उ” तत्त्वज्ञान
एव “ रताः” मिथ्याज्ञाननिन्दका इत्येवकारार्थः । ते ततो मिथ्याज्ञानिप्राप्य
तमसो “ भूय” अधिकं तमः । “ इव''शब्दस्य “ व्यक्तम्” इत्यर्थः ।
lस्क़् असंशयम्rस्क़् इति यावत् । “ प्रविशन्ति” इत्यन्वयः ॥ ९॥
lस्क़् न केवलं विपक्षे अनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्ज्ञाननिन्दनयोः
कार्यत्वं, किन्तु मोक्षफलस्यांशतः उभयसाध्यत्वादपि द्वयोः कार्यत्वम्rस्क़्,
इत्याहुः -
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
“ विद्यया” तत्त्वज्ञानेन “ अन्यदेव” मोक्षैकदेशरूपं फलं प्राप्यमाहुः
वृद्धाः । “ अविद्यया” - lस्क़् अन्यथाज्ञाननिन्दया चrस्क़्, इति यावत् ।
“ अन्यदेव” मोक्षैकदेशलक्षणं फलं प्राप्यमाहुः वृद्धाः । “ इति”
इत्येवं वृद्धवचनसम्मतियुक्तं वचनं धीराणां धीमतां (श्रीमतां) सकाशात्
“ शुश्रुम” श्रुतवन्तः स्म । “ ये” “ धीरा” “ नो''ऽस्माकं मोक्षसाधनं
“ विचचक्षिरे” व्याचचक्षिरे । lस्क़् अतो द्वयमपि आवश्यकम्rस्क़् इति भावः ॥ १०॥
एतन्मन्त्रार्थमेव व्यक्तमाह -
विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
“ विद्याम्” विष्णुयाथात्म्यज्ञानम् । “ अविद्याम्” मिथ्याज्ञाननिन्दनम् ।
“ च''शब्दावितरेतरयोगे । lस्क़् सह एकपुरुषार्थहेतुत्वेन तदुभयं
यो वेद, सrस्क़् इति शेषः । “ अविद्यया” अन्यथाज्ञाननिन्दया “ मृत्युं”
दुःखाज्ञानाद्यनिष्टं “ तीर्त्वा”, “ विद्यया” विष्णुयाथात्म्यज्ञानेन
“ अमृतं” आनन्दानुभवलक्षणं मोक्षैकदेशं, “ अश्नुते” प्राप्नोति ।
lस्क़् अनिष्टनिवृत्तेर्मिथ्याज्ञाननिन्दनसामर्थ्यलभ्यत्वात् आनन्दानुभवस्य
च तत्त्वज्ञानसामर्थ्यलभ्यत्वात् दलद्वययुक्तमोक्षप्राप्तये, द्वयमपि आवश्यकमेवrस्क़्,
इत्युक्तं भवति ॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२॥
lस्क़् मिथ्याज्ञानमनर्थहेतुः तत्त्वज्ञानमेव मुक्तिहेतुःrस्क़्, इति प्रागुक्तस्य
विवरणं “ अन्धं तमः” इत्युत्तरमन्त्रत्रयेण क्रियते । तत्राद्यस्य
अयमर्थः । “ असम्भूतिं” जगत्सृष्टेरकर्तारं lस्क़् सृष्टिकर्ता नrस्क़् इत्युपासते,
इत्यर्थः । “ सम्भूत्याम्” - “ उ''शब्द एवार्थो अनेनान्वेति । “ सम्भूत्याम्”
“ उ” सृष्टिकर्तृत्व एव रताः । lस्क़् भगवान् सृष्टिकर्तैव, न संहारकर्ताrस्क़्,
इत्युपासत इत्यर्थः । प्राग्वदेव अवशिष्टस्यार्थो ध्येयः (ज्ञेयः) ॥ १२॥
lस्क़् न केवलं विपक्षे अनर्थसत्त्वादेव सृष्टिसंहारयोः कर्तृत्वं हरेर्ज्ञेयं,
किन्तु दलद्वययुक्तमोक्षोपयोगित्वादपिrस्क़्, इत्याह -
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
“ सम्भवात्” हरेः सृष्टिकर्तृत्वज्ञानात्, “ असम्भवात्”
संहारकर्तृत्वज्ञानत्, इत्यर्थः । शिष्टं प्राग्वत् ज्ञेयम् ॥ १३॥
एतन्मन्त्रार्थमेव व्यक्तमाह -
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥ १॥
“ सम्भूतिम्” सृष्टिकर्तृत्वं, “ विनाशं” जगत्संहारकर्तृत्वं,
शिष्टं प्राग्वत् । lस्क़् सृष्टि उपलक्षितानन्तगुणात्मकत्वज्ञानादानन्दानुभवः
विनाशकर्तृत्वज्ञानात् अखिलक्लेशनिवृत्तिरिति उभयरूपमोक्षाय
उभयज्ञानमावश्यकम्rस्क़्, इति भावः ॥ १४॥ १॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
एवमाद्यमन्त्रद्वयेनोक्तदिशा प्राप्ताधिकारं शिष्यं प्रति “ अनेजदेकम्”
इत्यादिना भगवत्स्वरूपं निरूप्य, “ यस्तु सर्वाणि” इत्यादिसार्धमन्त्रद्वयेन
तत्साक्षात्कारो मोक्षहेतुरित्युक्तम् । lस्क़् स च साक्षात्कारो न श्रवणादिमात्रेण,
किन्तु ईश्वरप्रसादेन भवतीत्यतो अनुष्ठितश्रवणादिकेनापि तत्साक्षात्कारार्थं
भगवत्प्रार्थनं कार्यम्rस्क़्, इति भावेन प्रार्थनाप्रकारमाह - “ हिरण्मयेन”
इत्यादिना “ स्मर” इत्यन्तेन ग्रन्थेन ।
हिरण्मयमिव “ हिरण्मयम्” ज्योतिर्मयम् । lस्क़् पिबति रसान् त्रायते जगद्rस्क़्
इति च “ पात्रम्” । तेन “ हिरण्मयेन पात्रेण” सूर्यमण्डलेन “ सत्यस्य”
सद्गुणपूर्णस्य सूर्यमण्डलस्थस्य तव “ मुखम्” । उपलक्षणं चैतत् । वपुः
सर्वदा “ अपिहितं” अस्ति । हे “ पूषन्” पूर्ण, “ पुष पुष्टौ” इति धातोः ।
तद्वपुः “ त्वं” “ सत्यधर्माय” lस्क़् सत्यं भगवन्तं हृदये धारयतिrस्क़् इति
व्युत्पत्त्या त्वद्ध्यानादिमते भक्ताय मह्यं “ दृष्टये” मम त्वद्दर्शनार्थं
“ अपावृणु”, अपगतावरणं कुरु ॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् ।
समूह तेजः यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६॥
हे “ पूषन्”, पूर्ण, “ एकर्षे” सर्वविषयकत्वादिना प्रधानज्ञानवत्त्वहेतुना
“ एकर्षि''शब्दवाच्यः सन् एकर्ष्याख्यमुनिस्थ । “ यम” सर्वनियामकतया
“ यम''शब्दवाच्यः सन् यमान्तर्गत । सूरिभिः प्राप्यत्वहेतुना, “ सूर्य''शब्दवाच्यः
सन् सूर्यान्तर्गत । “ प्राजापत्य” प्रजापतेः हिरण्यगर्भस्य विशेषेण प्राप्यतया
“ प्राजापत्य''शब्दवाच्य । “ रश्मीन्” मदीयं स्वरूपज्ञानं “ व्यूह” विस्तारय ।
“ तेजो” बाह्यज्ञानं च “ समूह” विस्तारय - इत्यर्थः । “ तेज” इति
स्वरूपज्ञानम् । “ रश्मीन्” इति बाह्यज्ञानं वा ।
तथा च “ यत्ते रूपं कल्याणतमं” तद्रूपं ते प्रसादादहं “ पश्यामि”, इति
आदित्यरश्म्यादीनां अपगमनादिना तदन्तर्गतप्रतीत्यसम्भवात् आदित्यरश्म्यादिविषयं
व्याख्यानमयुक्तम् ॥ १६॥
lस्क़् सर्वजीवोत्तममुख्यवायुरूपप्रतीकस्थित्यादिज्ञानं आवश्यकम्rस्क़्, इति
भावेन तत् स्थित्यादिकमाह -
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७॥
“ योऽसौ” - lस्क़् प्रसिद्धोऽसौ मुख्यप्राणे स्थितrस्क़् इति शेषः ।
lस्क़् सोऽहेयत्वात् “ अहम्''इत्युक्तः सदाऽस्तित्वेन मेयत्वहेतुना
“ अस्मि''इति तिङ्प्रतिरूपकाव्ययपदवाच्यः तं पश्यामिrस्क़् - इत्यर्थः ।
यद्वा “ असावसौ” इति द्वयमपि प्रथमान्तमेव । वीप्सायां द्विरुक्तिः । पूर्वं
पूषादिशब्दैरुपलक्षणतया प्राणाद्यनेकप्रतीकस्थत्वं विष्णोरुक्तम् । तत्र
भेदशङ्कायां “ योऽसौ” इति वाक्यमुच्यते । “ योऽसावसौ पुरुषः”
प्राणाद्यनेक(पूषाद्यनेक)प्रतीकेषु स्थितः “ सोऽहमस्मि” - मदन्तर्यामितया
अस्ति, इत्यर्थः । lस्क़् सर्वप्रतीकेषु मयि च स्थित एक एवrस्क़्, इति फलितोऽर्थः ।
“ अहं''पदस्य प्रत्यगात्मं जीवान्तर्यामिणि मुख्यतया तत्समभिव्याहाराद्
“ अस्मि” इति उत्तमपुरुषप्रयोगोऽपि साधुरेव, इति ज्ञेयम् ॥ १७॥
lस्क़् ननु परमेश्वरस्य यत्कल्याणरूपत्वमुक्तं यच्च “ सोऽहमस्मि” इति
जीवान्तर्गतस्य नित्यास्तित्वमुक्तं, तन्न युक्तम् । देहनाशस्य प्रत्यक्षादिसिद्धतया,
तदन्तर्गतस्य जीवस्येव मरणाद्यवश्यम्भावाद्rस्क़्, इत्याशङ्कां कैमुत्येन निराह -
वायुरनिलममृतमथेदं भस्मांतꣳ शरीरम् ॥ १८॥
यद्यपि “ इदं” “ शरीरं” “ भस्मान्तं”, तथापि तदन्तर्गतस्य हरेः न
मरणादिदोषप्रसक्तिः । कुतः? “ अनिलम्” - lस्क़् अः ब्रह्मैव निलं
निलयनं आश्रयो यस्य सोऽनिलःrस्क़् । lस्क़् परमेश्वराश्रितो वायुरपि
यदाऽमृतः नित्यः, अथ तदा परमेश्वरोऽमृत इति किमु वक्तव्यम्?rस्क़्
- इत्यर्थः । “ अनिल''“ अमृत''पदयोः लिङ्गव्यत्ययो ज्ञेयः ।
वायोरमृतत्वं नित्यज्ञानत्वेन ज्ञेयम्, “ अतिरोहितविज्ञानाद् वायुरपि
अमृतः स्मृतः” इत्युक्तेः । “ एतेन मातरिश्वा व्याख्यातः”
(ब्र.सू. २.३.८) इत्यत्र भाष्यादौ तथा निर्णयाच्च - इति ॥ १८॥
अथ प्रणवप्रतीकं प्रार्थयते -
ॐ क्रतो स्मर कृतꣳ स्मर ।
ॐ क्रतो स्मर कृतꣳ स्मर ॥ १९॥
ओतत्वादिगुणयुक्ततया “ ॐ''इत्युच्यमान “ क्रतो” ज्ञानरूपहरे ।
lस्क़् माम्rस्क़् इति शेषः । “ स्मर” अनुगृहाण । “ कृतं” मदीयं
ध्यानादिकं कर्म “ स्मर” । lस्क़् ध्यानादिना मया कृतेन मयि अनुग्रहोन्मुखो
भवrस्क़्, इत्यर्थः । नित्यज्ञप्तिस्वरूपस्य संस्कारजन्यस्मरणायोगात् । अभ्यासः
तात्पर्यार्थः ॥ १९॥
lस्क़् कृतश्रवणादिना पुरुषेण साक्षात्कारार्थं हरेः प्रार्थनं कार्यम्rस्क़्,
इत्यतः तत्प्रकारं “ हिरण्मयेन” इत्यादिनोक्त्वा अधुना lस्क़् प्राप्तसाक्षात्त्कारेणापि
पुंसा मोक्षार्थं भगवदुपासनं कार्यम्rस्क़् इति भावेन अग्निप्रतीकस्थ
भगवत्प्रार्थनाप्रकारमाह -
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ २०॥ २॥
lस्क़् अङ्गं देहं गुणभूतं जगद्वा नयति प्रेरयतिrस्क़् इति व्युत्पत्त्या
“ अग्नि''पदमुख्यार्थः सन् अग्नौ विद्यमानहरे । “ अस्मान्”
“ सुपथा” पुनरावृत्तिहीनार्चिरादिमार्गेण “ राये” मोक्षाख्यवित्ताय “ नय” ।
कुतः? lस्क़् हे देव अस्मदनुष्ठितानि विश्वानि सम्पूर्णानि मोक्षाय पर्याप्तानिrस्क़् इति यावत् ।
“ वयुनानि” ज्ञानानि भवान् “ विद्वान्” वेद । lस्क़् प्रारब्धकर्मयुक्तस्य कथं मोक्ष?rस्क़्,
इत्यत उक्तं, “ युयोधि” इति । “ अस्मान्” इत्यत्रापि अनुषज्यते । “ अस्मान्”
“ जुहुराणं” अल्पान् कुर्वत्संसारे परिवर्तयदिति यावत् । lस्क़् एनः पापं
अनिष्टं कर्मrस्क़् इति यावत् । “ अस्मत्” अस्मत्तः “ युयोधि” वियोजय ।
“ युयु वियोगे” इति धातोर्लुग्विकरणम् । वयं तु “ ते” तुभ्यं “ भूयिष्ठां”
भक्तिज्ञानोपेतां “ नम उक्तिं” नम इत्युक्तिं “ विधेम” कुर्मः । lस्क़् न तु तत्
प्रतिकर्तुं शक्नुमrस्क़् - इति ॥ २०॥ २॥
समस्तगुणपूर्णाय दोषदूराय विष्णवे ।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥
ईषावास्योपनिषदो भाष्याद्युक्तार्थसङ्ग्रहः ।
राघवेन्द्रेण यतिना कृतोऽयं शिष्ययाञ्चया ॥
इति श्रीराघवेन्द्रयतिविरचितः श्रीमदीशावास्योपनिषत्खण्डार्थः समाप्तः
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु॥
Encoded by Shrisha Rao (shrao at dvaita.org). See details on http://www.dvaita.net
Proofread by Meera Tadipatri (mtadipatri at dvaita.net)