आत्मदेहरक्षणप्रयोगः
श्रीगणेशाय नमः ।
अथ आत्मदेहरक्षणार्थ प्रयोगः ।
ॐ नमो भगवते महानृसिंहाय सिंहाय सिंहमुखाय विकटाय वज्रदन्तनखाय मां रक्ष रक्ष ममशरीरं नखशिखापर्यन्तं रक्ष रक्षां कुरु कुरु मदीयं शरीरं वज्राङगम् ।
कुरु कुरु परयन्त्रपरमन्त्रपरतन्त्राणां क्षिणु क्षिणु खड्गादिधनुर्बाणाग्निबाणभुशुण्डि आदि शस्त्राणां इन्द्रवज्रादि ब्रह्मास्त्राणां स्तम्भय स्तम्भय ।
जलाग्निमध्ये रक्ष गृहमध्ये ग्राममध्ये नगरमध्ये वनमध्ये रणमध्ये स्मशानमध्ये रक्ष रक्ष ।
राजद्वारे राजसभामध्ये रक्ष रक्षां कुरु ।
कुरु भूतप्रेत पिशाचदेवदानवयक्षकिन्नरराक्षसब्रह्मराक्षसडाकिनीशाकिनीमौजियादि अविधं प्रेतानां भस्मं कुरु कुरु ।
भोः अत्रत्यं गिरौ सिंहीसिंहमुखीज्वलज्वाला जिव्हे करालवदने मां रक्ष रक्ष ।
मम शरीरं वज्रमयं कुरु कुरु दशदिशां बन्ध बन्ध वज्रकोटं कुरु कुरु ।
आत्मचक्रं भ्रमावर्तं सर्वत्रं रक्ष रक्ष सर्वभयं नाशय नाशय ।
व्याघ्रसर्पवराहचोरादीन् बन्धय बन्धय ।
पिशाचश्वानदूतान् कीलय कीलय हुं हुं हुं फट् ।
इति प्रयोगः ।
इति आत्मदेहरक्षणप्रयोगः सम्पूर्णः ।
Proofread by Manoj Kumar Barman