श्रीहरिध्यानस्तोत्रं१
(शार्दूलविक्रीडितम्)
आदौ प्रेमवती-वृषाङ्गजननं सन्नैक-तीर्थाटनं
दुष्कर्मोपशमं च साधुशरणं सद्धर्म-संस्थापनम् ।
हिंसावर्जित-भूरियज्ञकरणं मूर्तिप्रतिष्ठापनं
आर्यस्थापनमक्षराख्य-गमनं सत्सङ्गिसज्जीवनम् ॥
स्नातं चन्दनचर्चितं निजजनैः पुष्पस्रजालङ्कृतं
प्रातः सूर्यमयूख-सेवितमुखं श्रीचन्द्रशालोपरि ।
धृत्वा रोटकमेकपाणितलके भङ्क्त्वान्यहस्तेन तं
भुञ्जानं प्रविलोक्य सेवकगणान् वन्दे सदा स्वामिनम् ॥
(पुष्पिताग्रा वृत्तम्)
अथ मनसि शनैः स्थिरत्वमाप्ते
भगवति मानुषमूर्ति-वासुदेवे ।
निजहृदि पृथगेक-मेकमङ्गं
चरणतलादि विचिन्त्यमस्य पुंसाम् ॥ १॥
निजहृदि द्रशि गोचरे तदीये
ह्यवयव एकएकके पृथक् च ।
चपलमपि मनः स्थिरं विधेयं
व्रजति लयं खलु तेन तन्मलौघः ॥ २॥
ध्वजकमल-यवाङ्कुशोर्ध्व-रेखा
प्रमुख-सुलक्षणलक्षिते च रम्ये ।
अतिशय-मृदुले च यावकाभे
चरणतले मनसास्य चिन्तनीये ॥ ३॥
अरुणनख-शशाङ्कराजि-कान्त्या
हृतनिजचिन्तक-हृत्तमोङ्घ्रियुग्मम् ।
क्रमलघुसम-कोमलाङ्गुलीभिर्
हृतनवपल्लवकान्ति चास्य चिन्त्यम् ॥ ४॥
निजजन-मनसः प्रहर्षणार्थं
परिधृतनूपुर-शिञ्जितातिरम्यम् ।
स्वगतनिजजनाक्षि-वृत्तिचोरं
चरणयुगं हृदि चिन्तनीयमस्य ॥ ५॥
किसलय-मृदुले सुवृत्तजङ्घे
क्रमपृथुलेथ सुवर्तुलौ च जानू ।
करिकर सद्रशं समं च पीनं
निजहृदि सक्थियुगं च चिन्त्यमस्य ॥ ६॥
मृदुघन-सितसूक्ष्म-दीर्घवासः
परिदधदुत्तम-हैमकाञ्चिनद्धम् ।
पृथुल-कटियुगं च चिन्तनीयं
निजहृदये चिरमस्य भक्तभर्तुः ॥ ७॥
उदरमपि लसद्-वलित्रयान्तर्
गतशुभ-सभ्रम-निम्ननाभि-कूपम् ।
हृदयमुरु-सुगन्धि-पुष्पहारं
समविततं हृदि चिन्त्यमस्य तुङ्गम् ॥ ८॥
कनक-कटक-श्रृङ्खलोर्मिकाभिर्
लसदरुणां जनिभं करद्वयं च ।
द्रढतर-मतिरम्य-बाहुयुग्मं
निजहृदयेस्य विचिन्त्यमङ्गदाढ्यम् ॥ ९॥
विविधमणि-विशुद्ध-हेमसूत्र-
ग्रथितसुमौक्तिक-हारहारिकण्ठः ।
विगत-शशकलङ्क आस्यचन्द्रः
स्थिरमनसास्यचिरञ्चचिन्तनीयम् ॥ १०॥
मितहसित-विसर्पिदन्तकान्ति-
प्रथनसमुज्ज्वल-गण्डयुग्ममस्य ।
नवनलिन-दलायतं विचिन्त्यं
निजहृदि चञ्चल-लोचनद्वयं च ॥ ११॥
श्रवण-युगलमस्य कुण्डलश्री-
र्बहुविधपुष्पमयावतं स रम्यम् ।
तरदलघु विशालभाल-राजत्-
सतिलक-कुङ्कुमचन्द्रकश्च चिन्त्यः ॥ १२॥
असित-तिलकलक्ष्म दक्षगण्डे
तिलकुसुमोत्तम-नासिकान्तिकेस्ति ।
विलसदसित-बिन्दुरस्य वामे
श्रवणपुटे भवतीति चिन्तनीयः ॥ १३॥
विविधकुसुम-शेखरालिराजत्-
पटमुकुटं च शिरोस्य चिन्तयित्वा ।
वदनकमलमेव चिन्तकेन
स्मितमधुरं चिरकालमस्य चिन्त्यम् ॥ १४॥
इति श्रीशतानन्दमुनिविरचितं श्रीहरिध्यानस्तोत्रं सम्पूर्णम् ।