तान्त्रिकी सन्ध्या
श्रीगणेशाय नमः ॥ वैदिकीसन्ध्यां कृत्वा तान्त्रिकीमारभेत् । यथामूलेनाचम्य मूलेन शिखां बध्वा । गुर्वादिवन्दनपूर्वकं प्राणायाममत्रयं कृत्वा ऋष्यादिकरषडङ्गं कृत्वा सूर्यमण्डले यथोवत्तश्री लक्ष्मीनृसिंहमूर्ति ध्यात्वा ॥ स्वपुरतः पात्रान्तरे जलमापूर्य ॥ ब्रह्माण्डोदरतीथें तीर्थानि करैः स्पृष्ट्वाग्निनेरवे तेन स्तयेन सकले इह तीर्थे प्रयच्छ मे ॥ इति प्रार्थ्य ॥ गङ्गेचेतिमन्त्रेण क्रोमिति अङ्कुशमुद्रया सूर्यमण्डला तीर्थान्यावाह्य तज्जललवं इति अमृतबीजेन धेनुमुद्रयामृतीकृत्य मूलेनत्रिः अभिमन्त्र्य तत्प्रवक्ष्यमाणो श्री लक्ष्मीनृसिंह मूर्तिमावाह्य गन्धादिभिः सम्पूज्य पूर्ववदाचम्य श्रीलक्ष्मी नृसिंहप्रीत्यर्थं प्रातः सन्ध्यां करिष्ये ॥ इति सङ्कल्प्य तज्जलं वामहस्ते गृहीत्वा दक्षिणाङ्गुष्ठानामिकाभ्यां तेन मूलेन स्पृष्टा मूलं जप्त्वा दिशतादिग्भिः मातृकाभिः आत्मानं प्रोक्ष्य अवभूः । शतं पुनर्दक्षिणहस्ते गृहीत्वा ईड्यातः समाकृष्यत् । धौतपापसचयं कृष्णवर्णपिङ्गलया विरेच्य पुरः कल्पितवज्रशिलायां फडिति पूर्ववदास्फाल्य ॥ पुनः पूर्ववदाचम्य अञ्जलिना तज्जलमापूर्य सूर्याय अर्ध्यं दद्यात् ॥ यथा ॥ ह्रीं हंसः श्री सूर्य एवोर्ध्यः स्वाहेति त्रिः अर्ध्यं दत्वा ॥ मूलेनैव श्रीलक्ष्मीनृसिंहं तर्पयामीति त्रिः सन्तर्प्यः ॥ यथा ॥ श्री नृसिंहोऽहमस्मि परितः उदकं क्षिपेत् ॥ यथोक्तं श्री लक्ष्मीनृसिंहं ध्यात्वा यथाशक्त्या । गायत्री मूलं प्रजप्य वक्ष्यमाणमन्त्रेण जपत्रिवेद्यः ॥ श्री लक्ष्मीनृसिंह ध्यायन् प्रणमेत् ॥ गायत्री यथा ॥ वज्रनखायं विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ॥ इति मूलं प्रजप्य तद्दशांशं तर्पयेत् इति प्रातः सन्ध्याविधिः ॥ एवमेवाशिष्टं सन्ध्याद्वयं कार्यम् ॥ उ हौ तत् तत्कालसन्ध्यां करिष्ये इति सङ्कल्प्य अन्य सर्वं समानम् ॥ सन्ध्या त्रयावश्यकत्वात् ॥ गृहीतजलपात्रः स्तोत्रादिकं पठित्वा ॥ पूजास्थानं आगत्य प्रक्षालितपादश्चाचान्तः पूजागृहद्वारि स्थित्वा ॥ ॐ सूर्यः सोमो यमः कालोमहाभूतानि पञ्च च ॥ एते शुभाशुभस्येह कर्मणो नवसाक्षिण इति पठित्वा ॥
इति तान्त्रिकी सन्ध्या पाठः ॥
This is just a descriptive information
rather than a procedure to do sandhyA
vandanam .
Proofread by Manoj Kumar Barman