वामनभगवत्प्रोक्तं स्वस्थानवर्णनम्
श्रीभगवानुवाच ।
आद्यं मात्स्यं महद्रूपं संस्थितं मानसे ह्रदे ।
सर्वपापक्षयकरं कीर्तनस्पर्शनादिभिः ॥ १॥
कौर्ममन्यत्सन्निधानं कौशिक्यां पापनाशनम् ।
हयशीर्षं च कृष्णांशे गोविन्दं हस्तिनापुरे ॥ २॥
त्रिविक्रमं च कालिन्द्यां लिङ्गभेदे भवं विभुम् ।
केदारे माधवं शौरिं कुब्जाम्रे हृष्टमूर्धजम् ॥ ३॥
नारायणं बदर्यां च वाराहे गरुडासनम् ।
जयेशं भद्रकर्णे च विपाशायां द्विजप्रियम् ॥ ४॥
रूपधारमिरावत्यां कुरुक्षेत्रे कुरुध्वजम् ।
कृतशौचे नृसिंहं च गोकर्णे विश्वकर्मिणम् ॥ ५॥
प्राचीने कामपालं च पुण्डरीकं महाम्भसि ।
विशाखयूपे ह्यजितं हंसं हंसपदे तथा ॥ ६॥
पयोष्णायामखण्डं च वितस्तायां कुमारिलम् ।
मणिमत्पर्वते शम्भुं ब्रह्मण्ये च प्रजापतिम् ॥ ७॥
मधुनद्यां चक्रधरं शूलबाहुं हिमालये ।
विद्धि विष्णुं मुनिश्रेष्ट स्थितमोषधिसानुनि ॥ ८॥
भृगुतुङ्गे सुवर्णाक्षं नैमिषे पीतवाससम् ।
गयायां गोपतिं देवं गदापाणिनमीश्वरम् ॥ ९॥
त्रैलोक्यनाथं वरदं गोप्रतारे कुशेशयम् ।
अर्द्धनारीश्वरं पुण्ये माहेन्द्रे दक्षिणे गिरौ ॥ १०॥
गोपालमुत्तरे नित्यं महेन्द्रे सोमपीथिनम् ।
वैकुण्ठमपि सह्याद्रौ पारियात्रेऽपराजितम् ॥ ११॥
कशेरुदेशे देवेशं विश्वरूपं तपोधनम् ।
मलयाद्रौ च सौगन्धिं विन्ध्यपादे सदाशिवम् ॥ १२॥
अवन्तिविषये विष्णुं निषधेष्वमरेश्वरम् ।
पाञ्चालिकं च ब्रह्मर्षे पाञ्चालेषु व्यवस्थितम् ॥ १३॥
महोदये हयग्रीवं प्रयागे योगशायिनम् ।
स्वयम्भुवं मधुवते अयोगन्धिं च पुष्करे ॥ १४॥
तथैव विप्रप्रवर वाराणस्यां च केशवम् ।
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ॥ १५॥
पद्मायां पद्मकिरणं समुद्रे वडवासुखम् ।
कुमारधारे बाह्लीशं कार्तिकेयं च बर्हिणम् ॥ १६॥
अजेशे शम्भुमनघं स्थाणुं च कुरुजाङ्गले ।
वनमालिनमाहुर्मां किष्किन्धावासिनो जनाः ॥ १७॥
वीरं कुवलायारूढं शङ्खचक्रगदाधरम् ।
श्रीवत्साङ्कमुदाराङ्गं नर्मदायां श्रियः पतिम् ॥ १८॥
माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम् ।
अर्बुदे च त्रिसौपर्णं क्ष्माधरं सूकराचले ॥ १९॥
त्रिणाचिकेतं ब्रह्मर्षे प्रभासे च कपर्दिनम् ।
तथैवात्रापि विख्यातं तृतीयं शशिशेखरम् ॥ २०॥
उदये शशिनं सूर्यं ध्रुवं च त्रितयं स्थितम् ।
हेमकूटे हिरण्याक्षं स्कन्दं शरवणे मुने ॥ २१॥
महालये स्मृतं रुद्रमुत्तरेषु कुरुष्वथ ।
पद्मनाभं मुनिश्रेष्ठ सर्वसौख्यप्रदायकम् ॥ २२॥
सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम् ।
तत्रैव च महाहंसं प्रयागेऽपि वटेश्वरम् ॥ २३॥
शोणे च रुक्मकवचं कुण्डिने घ्राणतर्पणम् ।
भिल्लीवने महायोगं माद्रेषु पुरुषोत्तमम् ॥ २३॥
प्लक्षावतरणे विश्वं श्रीनिवासं द्विजोत्तम ।
शूर्पारके चतुर्बाहुं मगधायां सुधापतिम् ॥ २५॥
गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे ।
वनस्पतिं समाख्यातं दण्डकारण्यवासिनम् ॥ २६॥
कालिञ्जरे नीलकण्ठं सरय्वां शम्भुमुत्तमम् ।
हंसयुक्तं महाकोश्यां सर्वपापप्रणाशनम् ॥ २७॥
गोकर्णे दक्षिणे शर्वं वासुदेवं प्रजामुखे ।
विन्घ्यश्रृङ्गे महाशौरिं कन्थायां मधुसूदनम् ॥ २८॥
त्रिकूटशिखरे ब्रह्मन् चक्रपाणिनमीश्वरम् ।
लौहदण्डे हृषीकेशं कोसलायां मनोहरम् ॥ २९॥
महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम् ।
भूधरं देवकानद्यां विदेहायां कुशप्रियम् ॥ ३०॥
गोमत्यां छादितगदं शङ्खोद्धारे च शङ्खिनम् ।
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥ ३१॥
रुद्राख्यं च हिरण्वत्यां वीरभद्रं त्रिविष्टपे ।
शङ्कुकर्णं च भीमायां भीमं शालवने विदुः ॥ ३२॥
विश्वामित्रं च गदितं कैलासे वृषभध्वजम् ।
महेशं महिलाशैले कामरूपे शशिप्रभम् ॥ ३३॥
बलभ्यामपि गोमित्रं कटाहे पङ्कजप्रियम् ।
उपेन्द्रं सिंहलद्वीपे शक्राह्वे कुन्दमालिनम् ॥ ३३॥
रसातले च विख्यातं सहस्रशिरसं मुने ।
कालाग्निरुद्रं तत्रैव तथाऽन्यं कृत्तिवाससम् ॥ ३५॥
सुतले कूर्ममचलं वितले पङ्कजासनम् ।
महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥ ३६॥
तले सहस्रचरणं सहस्रभुजमीश्वरम् ।
सहस्राक्षं परिख्यातं मुसलाकृष्टदानवम् ॥ ३७॥
पाताले योगिनामीशं स्थितञ्च हरिशङ्करम् ।
धरातले कोकनदं मेदिन्यां चक्रपाणिनम् ॥ ३८॥
भुवर्लोके च गरुडं स्वर्लोके विष्णुमव्ययम् ।
महर्ल्लोके तथाऽगस्त्यं कपिलं च जने स्थितम् ॥ ३९॥
तपोलोकेऽखिलं ब्रह्मन् वाङ्मयं सत्यसंयुतम् ।
ब्रह्माणं ब्रह्मलोके च सप्तमे वै प्रतिष्ठितम् ॥ ४०॥
सनातनं तथा शैवे परं ब्रह्म च वैष्णवे ।
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥ ४१॥
जम्बूद्वीपे चतुर्बाहुं कुशद्वीपे कुशेशयम् ।
प्लक्षद्विपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥ ४२॥
पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् ।
सहस्रांशुः स्थितः शाके धर्मराट् पुष्करे स्थितः ॥ ४३॥
तथा पृथिव्यां ब्रह्मर्षे शालग्रामे स्थितोऽस्मयहम् ।
सजलस्थलपर्यन्तं चरेषु स्तावरेषु च ॥ ४४॥
एतानि पुण्यानि ममालयानि ब्रह्मन् पुराणानि सनातनानि ।
धर्मप्रदानीह महौजसानि सङ्कीर्तनीयान्यघनाशनानि ॥ ४५॥
सङ्कीर्तनात् स्मरणाद्दर्शनाच्च संस्पर्शनादेव च देवतायाः ।
धर्मार्थकामाद्यपवर्गमेव लभन्ति देवा मनुजाः ससाध्याः ॥ ४६॥
एतानि तुभ्यं विनिवेदितानि ममालयानीह तपोमयानि ।
उत्तिष्ठ गच्छामि महासुरस्य यज्ञं सुराणां हि हिताय विप्र ॥ ४७॥
पुलस्त्य उवाच ।
इत्येवमुक्त्वा वचनं महर्षे विष्णुर्भरद्वाजमृषिं महात्मा ।
विलासलीलागमनो गिरीन्द्रात् स चाभ्यगच्छत् कुरुजाङ्गलं हि ॥ ४८॥
इति श्रीवामनपुराणे नवतितमाऽध्यायान्तर्गतं भरद्वाजऋषये
वामनभगवत्प्रोक्तं स्वस्थानवर्णनं समाप्तम् ।
वामनपुराण । अध्याय ९०/१-४६॥
vAmanapurANa . adhyAya 90/1-46..
Proofread by PSA Easwaran