अष्टाङ्गयोगकथनम्

अष्टाङ्गयोगकथनम्

सूत उवाच । वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम् । सर्वपापप्रशमनं भक्त्यानुपठितं श‍ृणु ॥ १, २२६.१॥ ममेति मूलं दुःखस्य न ममेति निवर्तनम् । दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥ १, २२६.२॥ अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान् । गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः ॥ १, २२६.३॥ धनधान्ये महापात्रे पापमूलोऽतिदुर्गमः । विधिवत्सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥ १, २२६.४॥ छिन्नो विद्याकुठारेण ते गता लयमीश्वरे । प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ॥ १, २२६.५॥ प्राप्नुवन्ति पराः प्राज्ञाः सुखनिर्वृतिमेव च । मूर्तेन्द्रियलयं नूनं न त्वं राजन्न चाप्यहम् ॥ १, २२६.६॥ न तन्मात्रादिकं वाचा नैवान्तःकरणं तथा । कं वा पश्यसि राजेन्द्र प्रधानमिदमावयोः ॥ १, २२६.७॥ मृतः परेऽह्नि क्षेत्रज्ञः सञ्जातोऽयं गुणात्मकः । एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ॥ १, २२६.८॥ ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः । सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं प्राकृतैर्गुणैः ॥ १, २२६.९॥ तद्गृहं यत्र वसति तद्भोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानाज्ञाने न चान्यथा ॥ १, २२६.१०॥ उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव । कर्तव्यानाञ्च नित्यानां क्षयन्त्वकरणात्तथा ॥ १, २२६.११॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥ १, २२६.१२॥ सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः । आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १, २२६.१३॥ प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः । लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥ १, २२६.१४॥ त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः । जपध्यानयुतो गर्भो विपरीतस्त्वभक्षकः ॥ १, २२६.१५॥ प्रथमेन जयेत्स्वप्नं मध्यमेन च वेपथुम् । विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥ १, २२६.१६॥ आसनस्थन्तु युञ्जीत कृत्वा च प्रणवं हृदि । पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नेकाग्रमानसः ॥ १, २२६.१७॥ रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥ १, २२६.१८॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ १, २२६.१९॥ प्राणायामा दशाष्टौ च धारणा सा विधीयते । द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥ १, २२६.२०॥ प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥ १, २२६.२१॥ किञ्चित्तस्मात्परस्मिंश्च धारणा दशधा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षररूपताम् ॥ १, २२६.२२॥ यथाग्निरग्नौ सङ्क्षिप्तस्तथाऽऽत्मा परमात्मनि । ब्रह्मरूपं महापुण्यमोमित्येकाक्षरं जपेत् ॥ १, २२६.२३॥ अकारश्च तथोकारो मकारश्चाक्षरत्रयम् । एतास्तिस्त्रस्ततो मात्राः सत्त्वराजसतामसाः ॥ १, २२६.२४॥ निर्गुणा योगिगम्याद्यादर्धमात्रा परा स्थिता । गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया । इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥ १, २२६.२५॥ अहं ब्रह्म परं ज्योतिः स्थूलदेहविवर्जितम् । अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥ १, २२६.२६॥ अहं ब्रह्म परं ज्योतिः पृथिव्या मलवर्जितम् । अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितम् ॥ १, २२६.२७॥ अहं ब्रह्म परं ज्योतिः सूक्ष्मदेहविवर्जितम् । अहं ब्रह्मपरं ज्योतिः स्थानास्थानविवर्जितम् ॥ १, २२६.२८॥ अहं ब्रह्म परं ज्योतिर्गन्धमात्रविवर्जितम् । अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्परिवर्जितम् ॥ १, २२६.२९॥ अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम् । अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ॥ १, २२६.३०॥ अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम् । अहं ब्रह्म परं ज्योतिरज्ञानपरिवर्जितम् ॥ १, २२६.३१॥ अहं ब्रह्म परं ज्योतिस्तुरीयं परमं पदम् । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ १, २२६.३२॥ नित्यशुद्धबुद्धयुक्तमहमानन्दमद्वयम् । अहं ब्रह्म परं ज्योतिर्ज्ञानरूपो विमुक्तये ॥ १, २२६.३३॥ सूत उवाच । इत्यष्टाङ्गो मया योग उक्तः शौनक मुक्तिदः । नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः ॥ १, २२६.३४॥ उत्पद्यन्ते हि संसारे नैकं यात्वा परात्मनाम् । विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ॥ १, २२६.३५॥ ततो न म्रियते दुःखी न रोगी न च वन्धवान् । न पापैर्युज्यते योगी नरके न विपच्यते ॥ १, २२६.३६॥ गर्भवासे स नो दुःखी स स्यान्नारायणोऽव्ययः । भक्त्या त्वनन्यया लभ्यो भगवान्भुक्तिमुक्तिदः ॥ १, २२६.३७॥ ध्यानेन पूजया जप्यैः सम्यक्स्तोत्रैर्यतव्रतैः । यज्ञैर्दानैश्चित्तशुद्धिस्तया ज्ञानञ्च लभ्यते ॥ १, २२६.३८॥ प्रणवादिकमन्त्रैश्च जप्यैर्मुक्तिं गता द्विजाः । इन्द्रोऽपि परमं स्थानं गन्धर्वाप्सरसो वराः ॥ १, २२६.३९॥ प्राप्ता देवाश्च देवत्वं मुनित्वं मुनयो गताः । गन्धर्वत्वञ्च गन्धर्वा राजत्वञ्च नृपादयः ॥ १, २२६.४०॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽष्टाङ्गयोगकथनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः । गरुडपुराण । पूर्वखण्ड । अध्याय २२६/५-३६॥ garuDapurANa . pUrvakhaNDa . adhyAya 226/5-36.. Proofread by PSA Easwaran
% Text title            : Ashtangayogakathanam
% File name             : aShTAngayogakathanam.itx
% itxtitle              : aShTANgayogakathanam (garuDapurANAntargatam)
% engtitle              : aShTAngayogakathanam
% Category              : yoga, garuDapurANa
% Location              : doc_yoga
% Sublocation           : yoga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : garuDapurANa | pUrvakhaNDa |adhyAya 226/5-36||
% Indexextra            : (Scans 1, 2, 3, 4, English)
% Latest update         : October 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org