उत्तिष्ठत जाग्रत
``मिथ्या माया भ्रमो जीवनं''
मा गासीरिति दीनं गानम् ।
मृतायतेऽसौ यस्तन्द्रयते
वस्तुरूपमपि बहु वञ्चयते ॥ १॥
सदेव सौम्याऽऽवेहि जीवनं
तथास्य मरणं नान्त्यं शरणम् ।
``मृदेव जीवो मृदं प्रयाति''
आत्मानं तन् नाभिप्रैति ॥ २॥
कर्म स्वं स्वं समाचरेम
दिवसे दिवसे पुरः सरेम ।
इतीह सृष्टाः सुखं न भोक्तुं
जगदसारतां न वा शोचितुम् ॥ ३॥
इयं यामिनी क्षणस्थायिनी
यत्र नाटकं दीर्घदशाङ्कम् ।
हृदि यः स्पन्दो यदप्यमन्दः
स महायात्रापटहो मन्द्रः ॥ ४॥
जगन्नाम्नि विस्तृतरणाजिरे
घोरेऽस्मिन् संसारसङ्गरे ।
जय तरसाऽरीन् भव वीरस्तं
परोत्सार्यमेषो मा भूस्त्वम् ॥ ५॥
अनागते वा समतीते वा
मा भज काले मुदं शुचं वा ।
वर्तमानमात्रमाद्रियस्व
श्रीशसाक्षिकं कर्म कुरुष्व ॥ ६॥
जीवितक्रमा महाजनानां
कुर्वन्त्येवं सदा स्मारणम् ।
शक्यं जीवितमुच्चैः कर्तुं
पदचिह्नानि च परिरक्षयितुम् ॥ ७॥
कालवालुकातले विशाले
विलोक्य यानि च भविष्यकाले ।
भवाब्धिपथिको भग्ननौरपि
धृतिं धारयेदसहायोऽपि ॥ ८॥
उत्थानरतो भव तस्मात् त्वं
भावि भवत्विति निर्भीकत्वम् ।
भजस्व, शीलय तथाऽखण्डितां
कर्मशीलतां, फले धीरताम् ॥ ९॥
रचयिता - श्री ग. बा. पळसुले
सन्दर्भः (कठोपनिषत् अध्याय १ वल्ली ३ श्लोकः १४)
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गम्पथस्तत्कवयो वदन्ति ॥
Arise, awake, find out the great ones and
learn of them; for sharp as a razor's edge,
hard to traverse, difficult of going
is that path, say the sages.
उठो, जागो, वरिष्ठ पुरुषों को पाकर उनसे बोध प्राप्त करो ।
छुरी की तीक्ष्णा धार पर चलकर उसे पार करने के समान
दुर्गम है यह पथ-ऐसा ऋषिगण कहते हैं ।
Encoded and proofread by Sudeep Dalbanjan