उपदेशपञ्चदशी
अहो लोका यूयं किमिह वितथे विश्वविषये
वृथा सत्त्वं मत्त्वा सततमनुरक्ता हतधियः ।
पिता माता भ्राता तनयतनयाद्याः परिजनाः
क्व याता विश्लेषोऽपि न मनसि येषामनुमितः ॥ १॥
यदुत्पन्नं वित्तं कृतविविधयत्नैरविहितैः
समुत्सृज्य प्राणानपि वदत तद्वः किमभवत् ।
शरीरं स्वाद्वन्नैर्यदिह परिपुष्टं प्रतिदिनं
तदेतत्सम्भाव्यं कृमिशमलभस्माख्यमधुना ॥ २॥
गता बालावस्था गतमपि च तारुण्यमचिरात्
समायातं हन्त स्थविरवय आगन्तुकमृति ।
तथाप्यन्तश्चेतस्यहह नहि युष्माकमधुना
महाकालव्यालग्रसनभयमायाति किमिति ॥ ३॥
दुरन्तप्रत्याशावधिमिह किमेकोऽपि गतवान्
विना रागाभावं विषयरसलुब्धः कथमपि ।
समालोच्यैतद्भोस्त्यजत विषयाशां क्षणिकतां
तनोर्ज्ञात्वा शम्भुं शरणमुपयात द्रुततरम् ॥ ४॥
उपास्तिर्युष्माभिः किमिह निरपेक्षस्य क्रियते
कलत्रादेर्मूढा मुहुरनुभवद्भिः परिभवान् ।
अरेभक्तापेक्षं कृपणजनबन्धुं सकरुणं
शिवं शान्ताकारं शरणमुपयात द्रुततरम् ॥ ५॥
धनं मे धान्यं मे शयनमशनं मे परिजनः
कुलं मे कौलं मे कृपमिति लपन्तं बहुविधम् ।
अकस्मादायातोऽनवहितजनं कालपुरुषः
शरीरादाकर्षत्यकरुणतरस्त्रस्तहृदयम् ॥ ६॥
प्रभातादारभ्य प्रतिदिवसमस्वस्थहृदयै-
र्भवद्भिश्चिन्त्यन्ते धरणिधनधामानि पशवः ।
प्रियाः पुत्रा मित्राण्यनवरतमास्वापसमयं
कदाचित्स्वप्नेऽपि स्मृतिविषयतां नैति भगवान् ॥ ७॥
य एते दृश्यन्ते सकलविषयास्तेऽप्यविषयाः
भविष्यन्ति प्राणोत्क्रमणसमये पूरुषदृशः ।
गृहित्वा पाथेयं सुकृतिकुकृती याति पुरुषो
महत्यां यात्रायां तत इह निषेव्यासुभकृतिः ॥ ८॥
प्रवृत्तिः सर्वेषां भवति सुखसिद्ध्यै तनुभृतां
समालोच्यं सूक्ष्मं नियतमनसा किं सुखमिति ।
प्रसन्नत्वं सत्त्वं प्रभवमनपायं हि मनसः
सुखं दोषापन्नं तदितरसुखं वेद्यमसुखम् ॥ ९॥
यदुप्तत्तौ दुःखं भवति खलु गुप्तौ यत इदं
यतोऽपायेऽप्येतद्वदत कथमेत्सुखमहो ।
लभन्ते यद्युक्ता निरतिशयितं स्वात्मनि सुखं
तदेवाहुस्तज्ज्ञाः सुखमिति समाधाननिपुणाः ॥ १०॥
बहून् क्लेशान् भुक्त्वा मनुजजनुरासाद्य तपसा
व्यतीतेऽसङ्ख्यातेऽधमपशुपतत्रादिजनुषि ।
पुनः पातुं मातुस्स्तनमिह भवन्तो नरमृगाः
प्रवृत्ता दुर्वृत्ताः कथयत किमेतद्व्यवसितम् ॥ ११॥
य एते मन्यन्ते मनुजमिह कर्त्तारमबुधा-
स्तएते सम्भ्रान्ता वितथमतवादाय निपुणाः ।
दरिद्रं विद्वांसं श्रमकलितनानोद्यमपरं
निरुद्योगं मूर्खं धनिनमलसं पश्यत भुवि ॥ १२॥
भवन्तश्चिन्ताभिर्व्यथितहृदयाम्लानवदना
कुतो भाव्यं भाव्यं किमु च किमु भाव्यं न भवति ।
कृतायां चिन्तायां वदत फलमाप्यं किमथवा
समाधाय स्वान्तं कृतफलरसं सम्पिवत भोः ॥ १३॥
स्थितिः पुण्यस्थानेऽमृतमशनमाशासुवसनं
कृतिस्तीर्थस्नानं पशुपतिपदाम्भोरुहरुचिः ।
गतिः स्वात्मायत्ता मतिरखिलवृत्त्या विरहिता
भवन्त्यानन्दाय प्रचुरतपसां शुद्धमनसाम् ॥ १४॥
जगन्मिथ्या मिथ्या श्रुतिशिखरसिद्धान्तवचनात्
तथा सत्यः सत्यः शिव इति च निर्णीय निपुणम् ।
शिवं सत्यानन्दं भजत करुणापूर्णहृदयं
समापन्ने मृत्यौ शरणमिह कश्चिन्न भविता ॥ १५॥
एषा पञ्चदशीनाम्नी कृतिर्वैराग्यवर्द्धिनी ।
हृद्या हृदय आधेया सादरं श्रवणादिभिः ॥ १६॥
ज्ञानस्योवाच वैराग्यं परां काष्ठां पतञ्जलिः ।
वच्म्यहं तत्परं ज्ञानं तदेव परमागतिः ॥ १७॥
इति श्रीमिथिलादेशान्तरगतोद्यानग्रामवास्तव्येन मैथिलेन महात्मना झोपाह्व
श्रीसत्यनारायणशर्म्मणा विरचितोपदेशपञ्चदश्याः समाप्ता ॥
Encoded and proofread by Sumedh Sathaye