पूर्वम्: २।३।६७
अनन्तरम्: २।३।६९
 
प्रथमावृत्तिः

सूत्रम्॥ अधिकरणवाचिनश्च॥ २।३।६८

पदच्छेदः॥ अधिकरणवाचिनः ६।१ क्तस्य ६।१ ६७ षष्ठी १।१ ५०

काशिका-वृत्तिः
अधिकरणवाचिनश् च २।३।६८

क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ३।४।७६ इति वक्ष्यति। तस्य प्रयोगे षष्ठी विभक्तिर् भवति। अयम् अपि प्रतिषेधापवादो योगः। इदम् एषाम् आसितम्। इदम् एषां शयितम्। इदम् हेः सृप्तम्। इदं वनकपेर्यातम्। इदम् एषां भुक्तम्। इदम् एषाम् अशितम्। द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत्। नेता ऽश्वस्य ग्रामस्य चैत्रः। अन्ये प्रधाने कर्मण्याहुः। तदा, नेता ऽश्वस्य ग्रामं चैत्रः।
न्यासः
अधिकरणवाचिनश्च। , २।३।६८

"तस्य प्रयोगे षष्ठी विभक्तिर्भवति" इति। यथासम्भवं यत्र कर्त्तैव संभवति तत्र कर्तरि भवति; यथा-- इदमेषामासितमिति। अत्रासेरकर्मकत्वात् कर्तैव सम्भवति, न कर्म। यत्र तु कर्म कत्र्तापि सम्भवति तत्रोभयत्रापि, यथा-- इदमेषां भुक्तमोदनस्येति। भुजेः सकर्मकत्वात् कर्माप्यस्त्येवौदनः। "उभयप्राप्तौ कर्मणि" (२।३।६६) इति नियमः कस्मान्न भवति? "कर्त्तृकर्मणो कृतिः" २।३।६५ इत्यस्याः षष्ठ्याः प्राप्तेरेव नियमो विज्ञायते। "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति, "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।१०) इति वा। अधिकरणे चेति वक्तव्ये वाचिग्रहणमिधकरणक्तोपलक्षणं मा विज्ञायीत्येवमर्थम्। उपलक्षणार्थत्वे हि तस्यार्थान्तरवृत्तेरपि ध्रौव्यगतिप्रत्यवसानार्थेभ्य उत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्। वाचिग्रहणे तु यदा भावे क्तप्रत्ययो भवति तदा षष्ठी न भवति। तदा कत्र्तरि तृतीयैव भवति -- हहानेनासितमिति। न ह्रत्राधिकरणवाची क्तः; "{क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेऽभ्यः" इति सूत्रम्।} क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानाथभ्यश्च" ३।४।७६ इति चकारात् यथाप्राप्तञ्चेति भावे कर्त्तरि च विधानात्। यदा तु कत्र्तरि क्तो भवति तदा तेनैवाभिहतत्वात् तत्र षष्ठी न भवति। इहेम आसिता इति चकारः पूर्वापेक्षया समुच्चयार्थः॥
बाल-मनोरमा
अधिकरणवाचिनश्च ६१८, २।३।६८

अधिकरणवाचिनश्च। शेषपूरणेन सूत्रं व्याचष्टे--क्तस्य योगे षष्ठीति। शयितमिति। शेतेऽस्मिन्निति शयितम्। "शीङ् स्वप्ने" "क्तोऽधिकरणे च ध्रौब्ये"ति क्तप्रत्ययः। तत्र एषामिति कर्तरि षष्ठी। "न लोके"निषेधापवादः। भुजेस्तु प्रत्यवसानार्थकत्वादधिकरणे क्तप्रत्ययः। "इदमेषां भुक्तमोदनस्ये"त्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी। "उभयप्राप्तौ" इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन "कर्तृकर्मणोः कृती"ति षष्ठ()आ एव तन्नियमाभ्युपगमात्।