पूर्वम्: ३।३।१७१
अनन्तरम्: ३।३।१७३
 
सूत्रम्
शकि लिङ् च॥ ३।३।१७२
काशिका-वृत्तिः
शकि लिङ् च ३।३।१७२

शकि इति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर् वचनम् लिङा बाधा मा भूतिति।
न्यासः
शकि लिङ् च। , ३।३।१७२

"प्रकृत्यर्थविशेषणञ्चैतत्"। पूर्वेणाभिप्रायेणोपपदनिरासार्थमिदमुच्यते। "जीव्यात्िति।"स्कोः"८।२।२९ इति सलोपः। अथ किमर्थं लिङग्रहणम्, "लोट् च"३।३।१६२ इत्येव सिद्धम्, चकारेण ह्रनुकृष्यमाणो लिङपि भविष्यति? नैवं शक्यम्; यथैव हि चकारेण लिङनुकृयते तथा कृत्या अप्यनुकृष्येरन्। ननु निवर्तिष्यन्ते कृत्याः, तेषु निवृत्तेषु लिङ एवानुकर्षणार्थश्चकारो भविष्यति? सत्यमेतत्; एवं यदि तेषां निवृत्तिर्विज्ञास्यते लिङोऽपि निवृत्तिः स्यात्। व्याख्यानादनुवर्तिष्यत इति चेदेवमपि प्रतिपत्तिगौरवं स्यात्। तस्मात् प्रतिपत्तिगौरवपरीहारार्थं यथान्यासमेव न्याय्यम्। अत्र विध्यादिसूत्रे ३।३।१६१ एवाशीग्र्रहणं कस्मान्न कृतम्, एवं हि लिङलोटोग्र्रहणं न कृतं भवति? नै शक्यम्; विध्यादिसूत्रे पाठे सति "स्मे लोट्" ३।३।१६५ इत्येवमादिभिः परत्वाद्बाधा स्यात्। इहतु क्रियमाणे परत्वादेष योगस्तेषां बाधको भविष्यतीति न भवत्येष दोषप्रसङ्ग। अवश्यञ्चोत्तरार्थमाशीग्र्रहणं कत्र्तव्यम्-- "क्तिच्क्तौ च संज्ञायाम्" ३।३।१७४ इत्याशिषि यथा स्याताम्॥।
बाल-मनोरमा
शकि लिङ् च ६४५, ३।३।१७२

शकि लिङ् च। "शक्" इति भावे क्विबन्तम्। शक्तौ गम्यमानायामित्यर्थः। भारं त्वं वहेरिति। वोढुं शक्त इत्यर्थः। "माङि लु"ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते। ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते -- कथमिति। परिहरति-- नायं माङिति। किंत्विति। ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः। नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वे "माङि लु"ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये "न माङ्योगे" इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात्।