सोमग्रहणं यश्च अनुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दान् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुम् अनुष्येभ्यो ऽन्यत्रस्यां रूप्यः
४।३।८१ मयट् च
४।३।८२, मयड्वा एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः
४।३।१४१, तत्प्रकृतवचने मयट्
५।४।२१ इति। तत्र यथायोगं समर्थविभक्तिः। पिबाति सोम्यं मधु। सोमम् अयम् इत्यर्थः।
"{नास्तीयं पंक्तिः-- काशिका, पदमञ्जरी च}रूप्यमयटोऽपवादो योगः" इति। "मय इति मयडर्थो लक्ष्यते" इति। शब्दे कार्यासम्भवादिति भावः। "तत्र यथायोगं समर्थविभक्तिःर" इति। तत्रागतार्थ पञ्चमी, विकारावयवयोः षष्ठी। प्रकृतवचने प्रथमेति यथायोगार्थः॥