पूर्वम्: ८।२।२४
अनन्तरम्: ८।२।२६
 
सूत्रम्
धि च॥ ८।२।२५
काशिका-वृत्तिः
धि च ८।२।२५

धकारादौ प्रत्यये परतः सकारस्य लोपो भवति। अलविध्वम्, अलविढ्वम्। अपविध्वम्, अपविढ्वम्। यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः ८।३।७९ इति मूर्धन्याभावपक्षे ऽपि न धकारः श्रूयेत। इतः प्रभृति सिचः सकारस्य लोप इष्यते। इह न भवति, चकाद्धि पलितं शिरः इति। तथा पयो धावति इत्येवम् आदावपि न भवति। सग्धिः, बब्धाम् इति छान्दसो वर्ण लोपः। भाष्यकारस्त्वाह, चकाधि इत्येव भवितव्यम् इति। तेन पयो धावति इत्येवम् आदौ यत्नानतरमास्थेयम्। धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्। आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति। सर्वम् एवं प्रसिद्धं स्याच् छ्रु तिश्चापि न भिद्यते। लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति। घसिभसोर् न सिध्येत तस्मात् सिज्ग्रहणं न तत्। छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे। निष्कर्तारमध्वरस्य इत्येवं प्राप्ते।
लघु-सिद्धान्त-कौमुदी
धि च ५१७, ८।२।२५

धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥
न्यासः
धि च। , ८।२।२५

"अलविध्वम्(), अलविढ्वम्()" इति। लुङ्(), सिच्? ३।१।४४ सस्य "धि च" इति लोपः, "विभाषेटः" ८।३।७९ इति पक्षे भू र्धन्यः। "यद्यत्र" इत्यादिना सति सकारलोपे यदिष्टं प्राप्नोति तद्दर्शयति। असति हि सकारलोपे सिचः "आदेशप्रत्यययोः" (८।३।५९) इति षत्वे कृते "झलां जश्? झशि" ८।४।५२ इति जश्त्वे च डकारे "ष्टुना ष्टुः" ८।४।४० इति धकारस्य ष्टुत्वे ढकारेण भवितव्यम्(), ततश्च मूधन्याभावपक्षेऽपि धकारो न श्रूयते। विभाषाग्रहणं तु सिद्धं लिडर्थं लिङर्थं च स्यात्()। तस्मादमूर्धन्यपक्षे धकारस्य श्रवणं यथा स्यादिति लोपो विधीयते। "इतः प्रभृति सिचः सकारस्य लोप इष्यते" इति। स च "अचि विभाषा" ८।२।२१ इत्यतो विभाषाग्रहणाअनुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। "चकाद्धि" इति। "चकासृ दीप्सौ" (धा।पा।१०७४), लोट्(), सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः, "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति हेर्धिभावः, पूर्ववच्छपो लुक्(), पूर्ववज्जश्त्वम्()--सकारस्य दकारः। "पयो धावति" इति। पयः शब्दस्य रुत्वम्(), "हशि च" ६।१।११० इत्युत्त्वम्(), "आद्गुणः" ६।१।८४। यदीतः प्रभृति सिचो लोप इष्यते, सग्धिः, बब्धायित्यत्र "झलो झलि" ८।२।२६ इति सकारस्य लोपो न प्राप्नोतौति चोद्यमाशङ्क्याह-सग्धिर्बब्धाम्()" इत्यादि। "अद भक्षणे" (धा।पा।१०११), स्त्रियां क्तिन्? ३।३।९४ "बहुलं छन्दसि" २।४।३९ इति घस्लादेशः, "घसिभसोर्हलि च" ६।४।१०० इत्युपधालोपः, सकारस्य "बहुलं छन्दसि" इति च्छान्दसो लोपः। क्वचिदन्यदेवोच्यते एषोऽपि बहुलस्यार्थः। इष्यते "झषस्तथोर्धोऽधः" ८।२।४० इति तकारस्य धत्वम्(), पूर्ववज्जश्त्वम्()--घकारस्य गकारः। समाना ग्धिरिति विशेषणसमासः, "समानस्य च्छन्दसि" ६।३।८३ इति सभावः। बब्धामिति--"भस भत्र्सनद्दीप्त्योः" (धा।पा।११००), लोट्? तस्य "लोटो लङ्वत्()" (३।४।८५) इत्यतिदेशात्? तसस्ताम्(), जुहोत्यादित्वाच्छपः श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्(), पूर्ववदुपधासलोपौ, पूर्ववदेव तकारस्य दत्वञ्च, भकारस्य दकारः "अभ्यासे चर्च" ८।४।५३ इति जश्त्वम्()। एवमिदं तावत्? श्लोकवार्त्तिककारस्याभिमतं दर्शितम्()। इदानीं भाष्यकारस्य मतं दर्शयितुमाह--"भाष्यकारस्त्वाह इत्यादि। एतेनाविशेषेणैव सकारमात्रस्य भाष्यकाशे लोपमिच्छतीति दर्शयति। "तेन" इत्यादि। अविशेषेण हि सकारमात्रस्य यो लोपमिच्छति तस्य पयो धावतीत्यत्रापि प्राप्नोति। तस्मादिह मा भूदिति यत्नान्तरमास्थेयम्()। यत्नान्तरं तु व्यवस्थितविभाषाश्रयणमेव पूर्वधत्()। अयं तु विशेषः--पूर्वत्र व्यवस्थितविभाषया धि चैव सिचो भविष्यति, नान्यस्य; इह तु यत्र समानपदस्थौ निमित्तनिमित्तिनौ तत्रैवाविशेषेण सकारमात्रस्य लोपो भवति। अत्र तु भिन्नपदस्थौ पयोधावतौत्यादौ, तत्र न भवन्येवेति। एतावता विशेषेण व्यवस्थितभाषा यत्नान्तरमित्युच्यते। संक्षिप्तमेतमर्थं विस्तरेण सचोद्यपरिहरं वक्तुमाह--"धि सकारे सिचो लोपः" इत्यादि। धीत्येतद्यत्र परभूते सकारलोप इत्यतः प्रभृति विधातव्यः, तदुपलक्षणं वेदितव्यम्()। कुत एतत्()? इत प्रभृति सिचः सकारस्यलोप इष्यत इति प्राग्वचनात्()। लोपं प्रति सकारस्याधिकरणत्वेन विवक्षतत्वात्? सप्तम्या निर्देशः। किं प्रयोजनम्()? इत्याह--"चकाद्धि" इत्यादि। यदि सिचो लोपः, आशाध्वं तु कथम्()? आङः शासु इच्छायाम्()" (धा।पा।१०२२), लोट्(), ध्वम्(), टेरेत्वम्(), "सवाभ्यां वामौ" ३।४।९१ इत्यमादेशः, पूर्ववच्छपो लुक्()। अत्र सकारस्य लोप इष्यते, स न प्राप्नोति; यदि सिच एव सकारस्य लोपो विधीयते? "जश्त्वं सकारस्य भविष्यति" इति। "झलां जश्झशि" ८।४।५२ इत्यनेन जश्त्वम्()--सकारस्य दकारो भविष्यतीति सिद्धम्()--आशाब्दमित्येतत्()। इतः सकारलोपशास्त्रं प्रत्याख्यातुमाह--"सर्वमेवं प्रसिद्धं स्यात्()" इति। यदि सकारस्य भवति, एवं सति तेनैद जश्त्वेन सर्वं लक्ष्यं प्रसिद्धं स्यात्()। ततश्च सकारलोपशास्त्रमेतन्न कर्तव्यमेवेत्यभिप्रायः। तत्रैतत्स्यात्()--जश्त्वे सति श्रुतिभेदो भवति, तथा हि "अनचि च" ८।४।४६ इति सकरस्य द्विर्वचने कृते सकारयोश्च जश्त्वे दकारद्वयस्य श्रवणं प्रसजतीत्याह--"श्रुतिश्चापि न भिद्यते" इति। न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रुतिं प्रति विशेषोऽस्तीति भावः। "लुङश्चापि न मूर्धन्ये ग्रहणम्()" इति। कत्र्तव्यं भवतीति शेषः। अयं चान्यो जश्त्वे सति गुणः। "इणः षीध्वंलुङ्लिटां धोऽङ्गात्()" ८।३।७८ इत्यत्र मूर्धन्ये कत्र्तव्ये लुङ उपादानं कत्र्तव्यं न भवतीति; अच्चोढ्वम्(), अप्लोढ्वमित्यादौ षत्वजश्त्वष्टुत्वैरेव मूर्धन्यस्य सिद्धत्वात्()। "च्युङ्? छ्युङ्? [अयं धातुर्धातुपाठे नोपलभ्यते] ज्युङ्? [न स्तः--प्रांउ।पुस्तके] प्रुङ्प्लुङ गतौ" [न स्तः--प्रांउ।पुस्तके] (धा।पा।९५५,९५६,९५७,९५८), लुङ्? ध्वम्(), सिच्(), "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्(), "झलां जश्? झशि" ८।४।५२ इत्यनेन षकारस्य जशत्वम्()--इकारः, धकारस्य ष्टुत्वम्()--ढकारः। एवं षत्वादिकार्यक्रमेण लुङि घकारस्य मूर्धन्यः सिदध इति, किं लुङ्ग्रहणेन? एवं लुङ्? प्रत्याख्यायते। सलोपे परे लुङ्ग्रहणं कत्र्तव्यमिति यस्याभिमतम्(); स आह--"सेटि दुष्यति" इति। यदि मूर्धन्यविदौ लर()ङ्ग्रहणं न क्रियेत, ततः "विभाकेटः" ८।३।७९ इत्यत्र मूर्धन्यो न प्राप्नोति, ततश्च पूर्ववत्? षत्वादिषु कृतेष्वलविध्वमित्थेव नित्यं स्या, न तु कदाचिदपयलविढ्वमिति। तस्मादुत्तरार्थं लुङ्ग्रहणं कत्र्तव्यम्()। "धि च" (८।२।२५) इति सकारलोपोवक्तव्यः--अलविढ्वमित्यस्य सिद्ध्यर्थम्()। न ह्रेतदसति सकारलोपे सिध्यति, ततश्च यदुक्तम्()--"सर्वमेवं प्रसिद्धं स्यात्()" इति, तदयुक्तम्()। "श्रि च" ८।२।२५ इत्येतस्मिश्च क्रियमाणे चकाद्धोति मा भूदिति सिच्ग्रहणं कत्र्तव्यम्(), एवं श्लोकबार्त्तिककारमतेन सिज्ग्रहणं कत्र्तव्यमिति स्थितम्()। इतरस्तस्मिन्? क्रियमाणेऽपरं दोषं दर्शयितुमाह--"घसिभसोनं "सिध्येत"[सिध्येत्? त्विक्ष्यादि--कांउद्रितःपाठः] इत्यादि। तुशब्दो हेतौ। यस्मात्? सिज्ग्रहणस्य हि धसिभसोः सकारलोपः सग्धिर्बब्धामित्यत्र न सिध्यतीत्येष हेतुरुक्तः स चायमहेतुः; यस्माद्यद्यपि सिज्ग्रहणे क्रियमाणे धसिभसोः "झलो झलि" ८।२।२६ इत्यनेन लोपो न भविष्यति, तथापि च्छाब्दसो वर्णलोपो भविष्यति; तेनापि सग्धिः, बब्धामित्येतदुभयं सिध्यत्येव। क्व यथा च्छान्दसो वर्णलोपः? इत्याह"यथा" इत्यादि। यथाध्वरविषये प्रयोगे इष्कत्तरिमध्वरस्येत्यत्र च्छान्दसो वर्णलोपो भवति, तथा साग्धिः, बब्धामित्यत्रापि घसिभयोर्भविष्यति। वाशब्दोऽत्रैवोपपत्त्यन्तरं सूचयति। तत्रेदमुपपत्त्यन्तरम्()--सग्धिरिति नैतद्घसे रूपम्(), किं तर्हि? "षघ हिंसायाम्()" (धा।पा।१२६८) इत्यस्य। ननु चार्थभेदो भवति, स्वरभेदश्च; पूर्वस्यां व्युत्पत्तौ समानावनमित्येषोऽर्थो भवति, तसासस्वरेणान्तोदात्तत्वञ्च; षधिस्तु क्तिनि विहिते हिंसार्थो भवति, नित्स्वरेणाद्युदात्तश्च? अनेकार्थत्वाद्धातूनां षघिश्च समानावनमित्यस्मिन्नर्थे वर्त्तिध्यते, स्वरव्यत्ययेन चान्तोदात्तत्वं भविष्यतीत्यदोषः। बन्धाम#इति च नैतद्भसे रूपम्(), किं तर्हि? "बध बन्धने" (धा।पा।९७३) इत्यस्माल्लोटि तस्माम्(), "व्यत्ययो बहुलम्()" ३।१।८५ इति धत्वे तकारस्य "व्यत्ययो बहुलम्()" ३।१।८५ इति धातुधकारस्य बकारे च कृते बब्धामिति भवति। एवं च सिज्ग्रहणे क्रियमाणे घसिभसोर्यदि न सिध्यति नाम, तथापि नैव किञ्चिदनिष्टम्(); यस्मादनयापि व्युत्पत्त्या तदपाकृतं भवति। तदुक्तम्()--"घसिभसोर्न सिध्येत्तु ["सिध्येत"--काशिका] तस्मात्? सिज्ग्रहणं न तत्()" (का। ८।२।२५)। ततश्च "घि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्()" (का। ८।२।२५) इत्येतदवस्थितं श्लोकवार्त्तिककारस्य मतम्()॥
बाल-मनोरमा
धि च ९५, ८।२।२५

अथ ध्वमि टेरेत्वे तासि इटि एधितास्-- ध्वे इति स्थिते-धि च। "सः स्यार्धधातुके" इत्यतः स इत्यनुवर्तते। तासस्त्योरित्यतो लोप इति। अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते। तदाविविधिः। तदाह-- धाताविति। तासः सलोपे "एधिताध्वे" इति रूपम्।