आर्धधातुके इत्यधिकारो ऽयम्, ण्यक्षत्रियाऽर्षञितो यूनि लुगणिञोः
२।४।५८ इति यावत्। यदित ऊर्ध्वम् अनुक्रमिष्यमस्तदार्धधातुके वेदितव्यम्। वक्ष्यति हनो वध लिङि
२।४।४२ वध्यात्।
आर्धधातुके इति किम्? हन्यात्। विषयसप्तमी च इयं, न परसप्तमी। तेन आर्धधातुकविवक्षायाम् आदेशेषु कृतेषु पश्चाद् यथाप्राप्तं प्रत्यया भवन्ति। भव्यम्। प्रवेयम्। आख्येयम्।
"दध्यात्" इति। आशिषि लिङ। "लिङाशिषि"
३।४।११६ इत्यार्धधातुकसंज्ञा। "हन्यात्" इति। "विधिनिमन्त्रण"
३।३।१६१ इत्यादिना लिङ। "विषयसप्तमी चेयम्" इति। यदि परसप्तमी स्यात् तदा भव्यमित्यादि न सिद्ध्यति। तथा हि-- हलन्तत्वादस्त्यादीनाम् "ऋहलोण्र्यत्"
३।१।१२४ इति ण्यति कृते तस्मिन् परतः "अस्तेर्भूः"
२।४।५२, "अजेव्र्यघञपोः"
२।४।५६ "चक्षिङः ख्याञ्"
२।४।५४ इत्येते आदेशाः स्युतः। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य युकि कृते भाव्यं प्रवैयमाख्याय्यमित्यनिष्टं रूपं स्यात्। विषयसप्तम्यां त्वस्यामाद्र्धधातुकत्वे विवक्षिते प्रागेव प्रत्ययोत्पत्तेरादेशाः स्युः। ततोऽजन्तत्वात् "अचो यत्"
३।१।९७ इति यति "ईद्यति"
६।४।६५ इतीत्वे कृते सर्वेषां गुणेऽस्त्यादेशस्य "धातोस्तन्निमित्तस्यैव"
६।१।७७ इत्यवादेशे च भव्यं प्रवेयमाख्येयमिति सिद्ध्यति। तस्माद्विषयसप्तमीयम्, न परसप्तमी। कथं पुनर्विषयसप्तमीयं लभ्यते, यावता "तस्मिन्निति निर्दिष्टे पूर्वस्य"
१।१।६५ इति परिभाषोपस्थानात् परसप्तम्येव न्याय्या,
न विषयसप्तमी? नैतदस्ति; "आर्धधातुके"
२।४।३५ इति सामान्यनिर्देशात्, न च सामान्ये पौर्वापर्यमस्ति।
ब#उद्ध्या पौर्वापर्यमस्तीति चेत्? नैवम्; एवं हि गौरवं स्यात्। अथ वा-- "अचो यत्"
३।१।९७ इत्यज्ग्रहणं ज्ञापकम्-- विषयसप्तमीयमिति। "पश्चाद्यथाप्राप्तम्" इत्यादि। आदेशेषु कृतेषूत्तरकालं यो यतः प्राप्नोति स ततो भवतीत्यर्थः॥