पूर्वम्: ६।१।५९
अनन्तरम्: ६।१।६१
 
सूत्रम्
ये च तद्धिते (अचि शीर्षः)॥ ६।१।६०
काशिका-वृत्तिः
ये च तद्धिते ६।१।६१

शीर्षनिति वर्तते। आदेशो ऽयम् इष्यते। स कथम्? तद्धिते इति हि परं निमित्तम् उपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दम् आक्षिपति। यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति। शिर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भवः इति शरीरावयवाच् च ४।३।५५ इति यत्, ये च अभावकर्मणोः ६।४।१३८ इति प्रकृतिभावः। तद्धिते इति किम्? शिरः इच्छति शिरस्यति। वा केशेषु। शिरसः शीर्षन्नादेशो वक्तव्यः। शीषर्ण्याः केशाः, शिरस्याः केशाः।
काशिका-वृत्तिः
अचि शीर्षः ६।१।६२

श्जादौ तद्धिते शिरसः शीर्षशब्दः आदेशो भवति। हस्तिशिरसः अपत्यं हास्तिशीर्षिः। बाह्वादिभ्यश्च ४।१।९६ इति इञ्। स्थूलशिरसः इदं स्थौ लशीर्षम्। शीर्षन्भावे हि अन् ६।४।१६७ इति प्रकृतिभावः स्यात्। हास्तिशीर्षिशब्दात् स्त्रियाम् इञो ऽणिञोरनार्षयोः ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात् शीर्षन्नादेशः प्राप्नोति। तत्र प्रकृतिभावे सति हास्तिशीर्षण्या इत्यनिष्टं रूपं स्यात्। इष्यते तु हास्तिशीर्ष्या इति। तत् कथम्? कर्तव्यो ऽत्र यत्नः। अणिञन्ताद् वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्य इति लोपस्य स्थानिवद्भावाद् व्यवधानम्।
न्यासः
ये च तद्धिते। , ६।१।६०

यदि यकारादावपि तद्धिते प्रकृत्यन्तरं विज्ञायते ततो यदि शिरःशब्दाद्यकारादिस्तद्धित उत्पद्यते, तदा तस्य श्रवणमापद्येत, न चेष्यते इत्यत आह--"आदेशोऽयमिष्यते" इति। स्वानिनोऽनुपादानादिहाप्यादेशी न युज्यत इत्यभिप्रायेणाह--"स कथम्()" इति। "तद्धित इति हि" इत्यादि। यस्मादिह यकारादिस्तद्धितः परनिमित्तमुपा दीयते, न चानुपादाय प्रकृतिं तद्धित उत्पद्यते, न च शीर्पञ्शब्द एव प्रकृतिर्युक्ता; तस्य भाषायामसम्भवात्()। स हि च्छन्दसि निपातितः, भाषायाञ्चेदम्()। तस्मात्? प्रकृत्यन्तरादुत्पन्ने यकारादौ तद्धिते विधीयमाने या तेन प्रकृतिराक्षिप्ता तस्या आदेशोऽयं विज्ञायते। आदेशोऽपि हि विज्ञायमानो न यस्य कस्यचिद्विज्ञायते, अपि तु शिरःशब्दस्यैव। यतः स तद्धितस्तदनुरूपां तस्यादेशस्य शब्दतश्चार्थतश्चान्तरतमां प्रकृति शिरःशब्दमेवाक्षिपति। "शीर्षण्यः" इति। अट्कुप्वादिना ८।४।२ णत्वम्()। "शिरस्यति" इति। "सुप आत्मनः क्यच्()" ३।१।८। "वा केशेषु" इति। केशेष्वभिधेयेषु शिरशब्दस्य शीर्षन्नित्यादेशी वा वक्व्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--अन्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन शिरसः केशेषु वा शीर्षन्नादोशो भविष्यतीति॥
न्यासः
अचि शीर्?षः। , ६।१।६०

"स्थौलशीर्षम्()" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। किमर्थं पुनरादेशान्तरं विधीयते, न प्रकृत एव शीर्षन्नादेशो विधीयताम्()? तत्रापि "नस्तद्धिते" ६।४।१४४ इति टिलोपे कृते सिध्यत्येवेष्टमित्याह--"शीर्षम्भावे" इत्यादि। "ष्यङादेशे" कृते" इत्यादि। "अणिञोरनार्षयोः" ४।१।७८ इत्यादिना, तस्य शीर्षस्य शिरःशब्दग्रहणेन ग्रहणादिति स्थानिवद्भावेन शीर्षन्नादेशः प्राप्नोतीति। "ये च तद्धिते" ६।१।६० इत्यनेनैव। "तत्र" इत्यादि। प्रकृतिभावप्राप्तिस्तु "ये चाभावकर्मणोः" ६।४।१६८ इत्यनेन। "हास्तिशीर्षण्या, हास्तिशीष्र्या" इति। "यङश्चाप्()" ४।१।७४ इति चाप्()। तत्? कथमिति हास्तिशीष्र्येति। कथमिष्टं सिध्यतीत्यर्थः। "कत्र्तव्योऽत्र यत्नः" इति। स पुनर्यत्नः--शिरस्याः केशा इत्यसय सिद्धये य एव प्रकृतः स #एव वेदितव्यः। व्यवस्थितविभाषयैव हि शीर्षशब्दस्य शिरःशब्देन ग्रहणाच्()शीर्षन्नादेशो न भविष्यतीति; तेन हास्तिशीष्र्येत्येवं भवति, न हास्तिशीर्षण्येति। "अणिञन्ताद्वा" इत्यादि। "अणिञोरनार्षयोः" ४।१।७८ इत्यत्र सूत्रे द्वौ पक्षौ--अणिञोः स्थान आदेश ष्यङ् विधीयत इत्येकः पक्षः, अणिञन्तात्? परः ष्यङ्प्रत्ययो भवतीति द्वितीयः तत्रादेशपक्षेऽयं दोषः आपततीत्यणिञन्तात्? परः ष्यङाश्रयितव्य इति प्रत्ययपक्ष आश्रायितव्य इत्यर्थः। आदेशपक्षे "येत्नो वा कत्र्तव्यः" इति। विकल्पार्थो वा वाशब्दः। अथ तत्रापि प्रत्यपक्ष आश्रीयमाणे शीर्षस्य शीर्षन्नादेशः कस्मान्न भवति? इत्याह--"तत्र" इत्यादि। यदा प्रत्ययः ष्यङ् तदा तस्मिन्? परतो योऽसाविञः "यस्येत च" ६।४।१४८ इति लोपस्तस्य पूर्वविधौ कत्र्तव्ये स्थानिवद्भावाद्()व्यवधानम्()। अतो यकारादेः शीर्षन्नादेशनिमित्तस्य तद्धितस्य व्यवधानादादेशो न प्राप्नोतीति भावः॥
बाल-मनोरमा
ये च तद्धिते १६४५, ६।१।६०

ये च तद्धिते। शीर्षन्नादेश इति। शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः। शीर्षण्य इति शिरसे हित इत्यर्थः। शरीरावयवत्वाद्यति शीर्षन्नादेशे "ये चाऽभावकर्मणो"रिति प्रकृतिभावान्न टिलोपः। शिरस्यतीति। शिर आत्मन इच्छतीत्यर्थे "सुप आत्मनः" इति क्यचि, "नः क्ये" इति नियमात्पदत्वाऽभावान्न रुत्वम्।

वा केशेषु। केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः।

प्रसङ्गादाह--अचीति।

तत्त्व-बोधिनी
ये च तद्धिते १२७०, ६।१।६०

ये च त। "शीर्षंश्छन्दसी"त्यतोऽनुवर्तनादाह---शीर्षन्नादेश इति।

वा केशेषु। शीर्षण्य इति। "ये चाऽभावे"ति प्रकृतिभावः। शिरस्यतीति। "न क्ये"इति नियमेन पदत्वाऽभावाद्रुत्वाऽभावः।