पूर्वम्: ६।३।५९
अनन्तरम्: ६।३।६१
 
सूत्रम्
इको ह्रस्वोऽङ्यो गालवस्य॥ ६।३।६०
काशिका-वृत्तिः
इको ह्रस्वो ऽङ्यो गालवस्य ६।३।६१

इगन्तस्य अङ्यन्तस्य उत्तरपदे ह्रस्वः भवति गालवस्य आचर्यस्य मतेन अन्यतरस्याम्। ग्रामणिपुत्रः ग्रामणीपुत्रः। ब्रह्मबन्धुपुत्रः, ब्रह्यबन्धूपुत्रः। इकः इति किम्? खट्वापादः। मालापादः। अङ्यः इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पुजार्थम्। अन्यतरस्याम् इति हि वर्तते। व्य्वस्थितविभषा च इयम्। तेन इह न भवति, कारीषगन्धीपुत्रः इति। इयङुवङ्भाविनाम् अव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्दीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह। भ्रुकुंसादीनाम् अकारो भवति इति वक्तव्यम्। भ्रकुंसः। भ्रकुटिः।
न्यासः
इको ह्वस्वोऽङ्?यो गालस्य। , ६।३।६०

"ग्रामणिपुत्रः" इति। ग्रामं नयतीती "सत्यूद्विष" ३।२।६१ इत्यादिना क्विप्()। "अग्रग्रामाभ्याञ्च नयतेः" (कात्या।वा।५०६४) इति णत्वम्()। "गार्गीपुत्रः" इति। "यञश्च" ४।१।१६ इति गाग्र्यशब्दान्ङीप्(), "यस्येति च" ६।४।१४८ इत्यकारस्य लोपः, "हलस्तद्धितस्य" ६।४।१५० इति यकारस्य च। अथ दिकल्पार्थमेव गालवग्रहणं कस्मान्न भवति? इत्याह--"अन्यतरस्याम्()" इत्यादि। "कारीषगन्धीपुत्रः" इति। करीषगन्ध्यायायः पुत्र इति षष्ठीसमासः "ष्यङः सम्प्रसारणम्()" ६।१।१३ इत्यादिना सम्प्रसारणम्(), "सम्प्रसारणाच्च" ६।१।१०४ इति परपूरवत्वम्(), "हलः" ६।४।२ (इति) सम्प्रसारणस्य दीर्घः। "इयङुवङ्भाविनाम्()" इत्यादि। इयङुवङौ भाविनौ येषां ते तथोच्यन्ते। "श्रीकुलम्()" इति। इयङ्भाविन उदाहरणम्()। "भ्रूकुलम्()" इति। उवङ्भाविनश्च। "कण्डीभूतम्(), वृषलीभूतम्()" इति। अवप्ययानाम्()। काण्डवृषलशब्दाभ्यां "अभूततद्भावे" ५।४।५० इत्यादिना च्विः, "अस्य च्वौ" ७।४।३२ इतीत्वम्()। "भ्रूकुंसः" इति। भ्रूश्चासौ कुंसश्चेति विशेषणसमासः। एवं "भ्रुकुटिः" इत्यत्रापि। "वक्तव्यम्()" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--पृषोदरादित्वाद्भ्रुकुंसादीनामकारो भविष्यतीति॥
बाल-मनोरमा
इकोह्यस्वोऽङ्यो गालवस्य ९८४, ६।३।६०

इको ह्यस्वो। अङ्य इति च्छेदः। ग्रामणीपत्र इति। कर्मधारयः, षष्ठीसमासो वा। नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः। ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह--अन्यतरस्यामित्यनुवृत्तेरिति।

इयङुवङ्भाविनामिति। तदर्हाणामित्यर्थः। श्रीमदः भ्रूभङ्ग इति। श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्()र्हाविति भावः। शुक्लीभाव इति। अभूततद्भावे च्विप्रत्यये "अस्य च्वौ" इति ईत्त्वम्। "च्वौ" इति दीर्घः। ऊर्यादिच्विडाचश्चे"ति निपातत्वादव्ययत्वमिति भावः।

अभ्रूकुंसादीनामिति। भ्रूशब्दस्य उवङ्भावितया ह्यस्वनिषेधो यः प्राप्तः स नेत्यर्थः। अकारोऽनेनेति। "अ भ्रूकुंसादीना"मिति वार्तिके "अ" इति लुप्तप्रथमाकं पृथक्पदम्। तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः। भ्रुवा कुंसो भाषणमिति। तत्तदर्थज्ञापनमित्यर्थः। "भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः" इत्यमरः, "भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि"ति च।