पूर्वम्: ६।४।९२
अनन्तरम्: ६।४।९४
 
सूत्रम्
चिण्णमुलोर्दीर्घोऽन्यतरस्याम्॥ ६।४।९३
काशिका-वृत्तिः
चिण्णमुलोर् दीर्घो ऽन्यतरस्याम् ६।४।९३

चिण्परे णमुल्परे च णौ परतः मिताम् अङ्गानाम् उपधायाः दीर्घो भवति अन्यतरस्यां। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमन्तमम्, तामन्तामम्। दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते? न एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्। णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत्। शयमन्तं प्रयुक्तवान्। अशमि, अशामि। शमंशमम्, शामंशामम्। शंशमयतेः अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम्। यो ऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर् दिर्घविधौ आदेशो न स्थानिवद् भवति इति अस्थानिवद्भावात् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वम् अपि न अस्ति। णौ हि णियङोर् लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम्।
न्यासः
चिण्णमुलोर्दीर्घोऽन्यतरस्याम्?। , ६।४।९३

"णौ" इति वत्र्तते, चिण्णमुलौ च तद्विशेषणे। "अशमि" इति। शमेण्र्यन्ताल्लुङ, "चिण्? भावकर्मणोः" ३।१।६६ इति च्लेश्चिण्(), "चिणो लुक्()" (६।४।१०४) इति तशब्दस्य लुक्? णेरनिटि" ६।४।५१ इति णिलोपः। "शर्मशममम्(), शामंशामम्()" इति। पूर्ववण्णमुल्दिविर्वचने। "दीर्घग्रहणं किम्()" इति। एवं मन्यते--ह्यस्वस्यैवानन्तरसय प्रकृतस्य विकल्पमात्रं विषेयम्(), एवमप्यभीष्टं सिद्ध्यत्येव। तथा हि--यस्मिन्? पक्षे ह्यस्वो विधीयते, तस्मिन्नशमीत्यादि सिद्ध्यति। य()स्मस्तु ह्यस्वो न विधीयते, तत्र "अत उपधायाः" (७।२।११६) इति दीर्घे वृद्धिसंज्ञके विहिते तेनैव रूपेणावस्थानात्? "अशामि" इत्यादि सिद्ध्यतीत्यभिप्रायः। इतरस्तु दीर्घग्रहणमन्तरेण यन्न सिद्ध्यति, तद्दर्शयति--"शमयन्तं प्रयुङक्ते" इत्यादिना। शमेण्र्यन्तात्? पुनः प्रयोजकविवक्षायां द्वितीयो णिच्(), तत्र पूर्वस्य णेर्लोपः, लुङ, चिण्()। पक्षे दीर्घत्वम्()। "अशमि, अशामि, शमंशमम्(), शामंशामम्()" इति। द्वितीयणिजन्तण्णमुलि कृते पक्षे दीर्घत्वम्()। "शंशमयतेः" इत्यादि। अत्यर्थं शाम्यतीति यङ्(), द्विर्वचनम्(), "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुक्()--"शंशम्य" इति। स्थिते हेतुमण्णिच्(), "अतो लोपः" ६।४।४८ इत्यकारस्य लोपः, "यस्य हलः" ६।४।४९ इति यकारस्य, शंशमीति स्थिते यदा ततः परश्चिण्भवति, तदा पक्षे दीर्घत्वे कृतेऽशंशम्यशंशामीति भवति। यद तु णमुल्? तदा शंशमंशंमम्? शंशामंशंशाममिति, तत्र योऽसो णौ णिर्लुप्यते, यश्च यङोऽकारस्तयोर्दीर्धग्रहणे सति "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इति स्थानिवद्भावो न भवति; "न पदान्त" १।१।५७ इत्यादिना प्रतिषेधात्()। तेनासति व्यवधाने दीर्घः सिद्धो भवति। स्यादेतत्()--ह्यस्वविकल्पे विधीयमाने यस्मिन्? पक्षे ह्यस्वो नास्ति तस्मिन्पक्षे स्वरूपेणैवावस्थितो दीर्घः स्यात्()? इत्यत आह--"ह्यस्वविकल्पे तु" इत्यादि। न हि ह्यस्वे विधातव्ये केनचित्? स्थानिवद्भावः प्रतिषिध्यते। तत्र ह्यस्वविकल्पे विधीयमाने णेर्लोपस्य यङ्कारस्य च स्थानिवद्भावः स्यादेव। ततश्च स्थानिवद्भावाद्विकल्पेन ह्यस्वत्वं न स्यात्()। चिण्णमृल्परे हि णौ परतो मितामङ्गानां ह्यस्वत्वं विधेयम्()। यश्चात्र णिश्चिण्णमुल्परो न तत्र मिदङ्गम्; पूर्वेम णिचा व्यवधानात्()। य()स्मश्च णौ मिदङ्गं नासौ चिण्णमुल्परः; परेण चिणा व्यवधानात्()। तस्मान्नायमस्य योगस्य विषय इति पाक्षिकं ह्यस्वत्वमनेन न स्यात्()। पूर्वेणैव योगेन नित्यं स्यात्(), ततश्च दीर्घो न स्यात्()। "णिण्यन्ते" इत्यादि। णेणिरन्तः समीपो यस्मिन्? स णिण्यन्तः। अथ वा णेणिः णिणिः सोऽन्तो यस्य स णिण्यन्तः। अस्मिन्? पक्षेऽन्तशब्दोऽवयववचनः। "यङण्यन्ते त्वसिद्धिरेव" इति। यङ्ण्यन्तशब्दस्यापि पूर्ववद्? द्विधा व्युत्पत्तिः। कस्यासिद्धिः? प्रकृतत्वाद्दीर्घस्येति वेदितव्यम्()। एवकारेणैतद्दर्शयति--णिण्यन्ते स्यादपि केनचित्? प्रकारेण दीर्घस्य सिद्धिः, यङ्ण्यन्ते त्ववसिद्धिरेव। न केनचित्? प्रकारेण सिद्धिरित्यर्थः। कथ पुनर्णिण्यन्ते सिद्धिर्भवति? णिजातेराश्रयणात्()। णिजातिविवक्षायां हि यद्यपि णिलोपस्य स्थानिवद्भावः, तथापि नास्तिव्यवधानम्(); जातेरेकत्वात्()। न हि तत्रैव तस्या व्यवधानमुपपद्यते। तेन व्यवधानाभावाण्णिण्यन्ते दीर्घस्य सिद्धिः। अथ वैतदेवकारेण दर्शयति--णिण्यन्ते पूर्वं णिचमाश्रित्य "अत उपधायाः" ७।२।११६ इति वृद्धि विधानादस्ति दीर्घस्य सिद्धिः, तस्यास्तु ह्यस्वत्वेन निवृत्तिः क्रियते, न तु सर्वथा नास्त्येव। यङ्ण्यन्ते तु सर्वथैव दीर्घसिद्धेरभावः, तत्र वृद्धेरसम्भवादिति। स्यादेतत्()--विक्लपे दीर्घत्वे विधीयमानेऽपि नैवाऽत्र दीर्घः सिध्यति। "असिद्धवदत्रा भात्()" ६।४।२२ इति णियङोर्लोपस्यासिद्धत्वादित्यत आह--"व्याश्रयत्वात्()" इत्यादि। कथं पुनध्र्याश्रयत्वम्()? इत्याह--"णौ हि" इत्यादि। अन्यतरस्यांग्रहणं विस्पष्टार्थम्(); शक्यते हि "वा चित्तविरागे" ६।४।९ इत्यतो मण्डूकप्लुतिन्याथेन वाग्रहणमनुवत्र्तयितुम्()॥
बाल-मनोरमा
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ५८७, ६।४।९३

चिण्णमुलोः। "दोषो णौ" इत्यतो णाविति, "ऊदुपधाया गोहः" इत्यस्मादुपधाया इति, "मितां ह्यस्वः" इत्यतो मितामिति चानुवर्तते। तदाह-- चिण्परे इत्यादिना। नन्विह दीर्घ ग्रहणं व्यर्थं, "चिण्णमुलोरन्यतरस्या"मित्येतावतैव "मितां ह्यस्वः" इति पूर्वसूत्रादनुवृत्तस्य ह्यस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह--प्रकृत इत्यादि। कुत इत्यत आह-- ण्यन्ताण्णाविति। शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽ‌ऽभीयत्वेनाऽसिद्धतया "अनिटी" ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते। ह्यस्वविकल्पस्य विधौ तु ह्यस्वविकल्पो न स्यात्, प्रथमणिलोपस्य "अचः परस्मि"न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः। दीर्घविकल्पविधौ तु न दोष इत्याह-- दीर्घविधाविति। दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति। ह्यस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः। भाष्ये त्विति। न पदान्तसूत्रभाष्ये तु "पूर्वत्रासिद्धे न स्थानिवदि"त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः। "सुद्ध्युपास्य" इत्यत्र "अनचि चे"ति द्विर्वचनस्य, शिण्ढीत्यत्र "नश्चे"त्यनुस्वारस्य, "अनुस्वारस्य ययी"ति परसवर्णस्य च, प्रतिदीब्न इत्यत्र "हलि चे"ति दीर्घस्य, सग्धिरित्यत्र "झलां जश् झशी"ति जश्त्वस्य, जक्षतुरित्यत्र "खरि चे"ति चत्र्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः। ननु ण्यन्ताण्णौ "चिण्णमुलो"रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, "चिण्णमुलोः" इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात्। ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः। एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह-- णावितीति। "चिण्णमुलो"रिति दीर्घविधौ चिण्परे णमुल्परे च "णौ" इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः। चिण्णमुल्परकणित्वजातौ परत इति लभ्यते। णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति "न पदान्त"सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः। शामिता शमितेति। शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः। शमियितेति। चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम्। यङन्तादिति। शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ "यस्य हलः" इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे "शंशम्यते" इति रूपमित्यर्थः। शंशामिता शंशमितेति। "चिण्मुलो"रिति दीर्घविकल्पः। शंशमयितेति। चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम्। भाष्यमते त्विति। "न पदान्त"सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः। यङन्तादिति। "ण्यन्ता"दिति शेषः। यङन्ताण्णिचि यलोपे अल्लोपे च कृते "शंशमी"त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपे "शंशमिते"त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात् "चिण्णमुलो"रिति दीर्घो नास्ति, भाष्यमते "न पदान्त"सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः। शम्यते मुनिनेति। अकर्मकत्वाद्भावे ल इति भावः।

तत्त्व-बोधिनी
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ४८३, ६।४।९३

चिण्णमुलोः। शामितेत्यादौ "जनीजृ()"षित्यादिना मित्त्वेन मितामुपधाया नित्यं ह्यस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते। ण्यन्ताण्णाविति। णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः। दीर्घः सिध्यतीति। "न पदान्ते" ति निषेधादित्यर्थः। ननु त्रिपादीस्थेदीर्घे कर्तव्ये स्थानिवत्त्वाऽभावः "पूर्वत्रासिद्ध" मित्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाऽभावेऽपि ण्यन्ताण्णौ "चिण्णमुलो"रिति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यत आह-- जातिपरो निर्देश इति। इदं मास्त्विति। ह्यस्वविकल्पेनाऽपीष्टं सिध्यतीति भावः। वस्तुतस्तु "चिण्णमुलो"रिति सूत्रे दीर्घग्रहणं कर्तव्यमेव। तथाहि--- "हेडृ अनादरे" घटादिः। मितां ह्यस्वे कर्तव्य एच इक्। हिडयति। अत्र चिण्णमुलोः कृतयोह्र्यस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात्। दीर्घे तु--अहिडि अहीडीति भवति। एतच्चात्रैव सूत्रे कैयटे स्पष्टम्। शंशामितेत्यादि। चिणिअशंमि। अशंशामि। णमुलि, शंशमं--शंशमं। शंशामं-शंशाममित्यादि द्रष्टव्यम्। दीर्घोनास्तीति। यङोऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाऽभावादुपधादीर्घस्योपधावृद्धेश्चाऽप्रवृत्तेः। तथा च फलभेदाद्दीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः। शम्यते मुनिनेति। अकर्मकत्वाद्भावे लः।