पूर्वम्: ७।२।५२
अनन्तरम्: ७।२।५४
 
सूत्रम्
अञ्चेः पूजायाम्॥ ७।२।५३
काशिका-वृत्तिः
अञ्चेः पूजायाम् ७।२।५३

अञ्चेः पूजायाम् अर्थे क्त्वानिष्ठयोः इडागमो भवति। अञ्चित्वा जानु जुहोति। अञ्चिता अस्य गुरवः। उदितो वा ७।२।५६ इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायाम् यस्य विभाषा ७।२।१५ इति प्रतिषेधः प्राप्तः, तदर्थम् इदं प्रारब्धम्। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः।
न्यासः
अञ्चेः पूजायाम्?। , ७।२।५३

"अञ्चिताः" इति। पूजिता इत्यर्थः। "मतिबुद्धिपूजार्थेभ्यश्च" ३।२।१७७ इति क्तप्रत्ययः। "अनिदिताम्()" ६।४।२४ इत्यनुनासिकलोपो न भवति; "नाञ्चेः पूजायाम्()" ६।४।३० इति प्रतिषेधात्()। "अस्य" इति। "क्तस्य च वत्र्तमाने" २।३।६७ इति षष्ठी॥
बाल-मनोरमा
अञ्चेः पूजायाम् ८५४, ७।२।५३

अञ्चेः पूजायाम्। "उदितो वे"ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तु "यस्य विभाषे"ति निषेधे प्राप्ते वचनम्। अञ्चित इति। "नाऽञ्चेः पूजाया"मिति नलोपनिषेधः।

तत्त्व-बोधिनी
अञ्चेः पुजायाम् ७००, ७।२।५३

अञ्चेः। उदित्त्वात् क्त्वायां विकल्पे प्राप्ते, निष्ठायां "यस्य विभाषे"ति निषेधे प्राप्ते वचनम्। अञ्चित इति। "नाञ्चेः पूजाया"मिति नलोपनिषेधः। अक्त इति। "अनिदिता" मिति नलोपः।