आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावंश्रावम्॥
"नित्ये चार्थे वीप्सायाञ्च" इति। अनेन "नित्यदीप्सयोः" इति सप्तमीयमर्थनिर्देशार्था, न तु षष्ठीयमिति दर्शयति। यदि ह्रेषा षष्ठी स्यात्(), तदा स्वरूविधिः प्रसज्येत, ततश्च "नित्यं क्रोडाजीविकयोः"
२।२।१७ इति, "पादशतस्य संक्यादेर्वीप्सायाम्()"
५।४।१ इत्यादिनिर्देशो नोपपद्यते। इह नित्यशब्दोऽयं सर्वकालभादिनो य आत्माकाशादयः, यषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो लोके दृश्यते--नित्य आत्मा, नित्यमाकाशम्(), नित्या द्यौरिति। आभीक्ष्ण्येऽपि--नित्यं प्रहसितः, नित्यं प्रजल्पित इति। तत्र यदीह सामान्येन तत्र नाम नित्यताऽभिधेयभावेन वत्र्तते तस्य नित्यार्थवाचिनो ग्रहणं स्यात्(), आत्माकाशादिशब्दानामपि द्विर्वचनं प्रसज्येत--इत्येनेनाभिप्रायेणाह--"केषु नित्यता" इति। इतरो विदिताभिप्राय आह--"तिङ्क्षु नित्यताऽव्ययकृत्सुण" इति। अव्ययानि च तानि कृन्ति चेति कर्मधारयः। यद्यप्यात्माकाशादिशब्देष्वपि सर्वकालभावित्वलक्षणा नित्यताऽभिधेयभावेन वत्र्तते, तथापीह भावप्रधानेषु तिङ्क्ष्वव्ययकृत्सु चाभीक्ष्ण्यलक्षणा या नित्यता सैवाश्रीयते। अतोऽतिप्रसङ्गो न भवतीति भावः।
ननु च नित्यशब्दोऽयं सामान्यवचनः। न च सामान्यशब्दाः प्रकरणादिकमन्तरेण विशेषेऽवस्थातुमुत्सहन्ते।
न चेह तथाविधं किञ्चित्? प्रकरणादिकमस्ति, यतो विशेषेऽवस्थानं स्यात्(),
तत्कुतो नित्यताविशेषपरिग्रहो लभ्यते? इति मन्यमान आह--"कुत एतत्()" इति। आभीक्ष्ण्यमिह नित्यतेत्याश्रीयत इति शेषः। व्याप्तेराभीक्ष्ण्यवचनस्य नित्यशब्दस्य ग्रहणादिहाभीक्ष्ण्यलक्षणा नित्यताऽऽश्रीयते, पदस्य हि द्विर्वचनमुच्यते। तच्च पदं सुबन्तं तिङन्तं च, तत्र सुप्सु दीप्सेति वक्ष्यति। यदि च नित्यशब्दोऽयं कूटस्थवचनो गृह्रते, ततश्च कूटस्थमिति सुबन्तेष्वभिधेयभावेन वत्र्तत इति सुबन्थानामेव द्विर्वचनं स्यात्(), न तिङन्तानाम्(), नाप्यव्ययकृताम्()। आभीक्ष्ण्यवचनस्य तु नित्यशब्दस्य ग्रहणे सति नित्यलक्षणद्विर्वचनमाख्यातानामव्यकृतां च भवति। वीप्सालक्षणञ्चान्येषामिति सर्व पदजातमनुगृहीतं भवति। तस्माद्वयाप्तेराभीक्षण्यवचनस्य नित्यशब्दस्य ग्रहणादिह "आभीक्ष्ण्यं नित्यता" इत्युपपन्नं भवति।
"आभीक्ष्ण्यमिह नित्यता" (इति)। सा च तिङ्क्ष्वव्ययकृत्सु चेति।
कुत एतत्()? इत्याह--"आभीक्ष्ण्यं च" इत्यादि। आभीक्ष्ण्यं हि पुनः पुनः प्रवृत्तिः। तच्च साध्यरूपायाः क्रियाया एव सम्भवतीति तस्या एव धर्मः, न तु द्रव्यस्य; तस्य सिद्धरूपस्यैव सुबन्तेनाभिधानात्()। सा च क्रिया तिङन्तादिभिरेवाभिधीयत इति तेष्वेव नित्यता।
कीदृशी पुनः सा क्रिया? आभीक्ष्ण्यलक्षणेन या नित्यत्वेन योगान्नित्यशब्देनोच्यते, इत्याह--"याम्()" इत्यादि। "अनुपरमन्()" इति। "विरतिमकुर्वन्()" इत्यर्थः। "तन्नित्यम्()" इति। तत क्रियारूपं वस्तु नित्यमित्यर्थः। "प्राधान्येन" इति।
यदुद्दिश्य क्रियाप्रवृत्तिस्तत्? प्रधानम्(), तस्य भावस्तथा।
यद्यपि ग्रामं गन्तुमिच्छन्? वृक्षमूलोपसर्वणं पुनः पुनः करोति, तथापि न तन्नित्यमिति। एतदुक्तं भवति--न ह्रसौ प्राधान्येन तत्करोति; तदुद्दिश्याप्रवृत्तेः।
तेन ग्रामं गच्छन्? वृक्षमूलान्युपसर्पतीत्यत्र सत्यप्यामभीक्षण्ये द्विर्वचनं न भवति। "यां क्रियाम्()" इत्यनेन हि क्रिया धर्मिणी दर्शिता।
"अनुपरमन्? करोति" इत्यनेनापि तस्या आभीक्षण्यं धर्मः।
"पचतिपचति" इति। तिङन्तस्योदाहरणम्()। "भुक्त्वाभुक्त्वा, भोजंभोजम्()" इति। अत्र "आभीक्षण्ये णमुल्च"
३।४।२२ इति क्त्वाणमुलौ। "लुनीहिलुनीहि" इति। "क्रियासमभिहारे"
३।४।२ इत्यादिना लोट्(), तस्य हिरादेशः, "लोट्धर्माणौ हिस्वो भवतः" इति
३।४।२ तत्रोक्तम्(), तेन विकरणम्(), ["विकरणः"--प्रांउ।पाठः] "ईहल्यघोः"
६।४।११३ इतीत्वम्()। एतानि त्रीण्यव्ययकृतामुदाहरणानि। एषां क्त्वादीनां "कृदतिङ्()"
३।१।९३ इति कृत्संज्ञा। अव्ययसंज्ञा तु क्त्वाप्रत्ययस्य "कत्वातोसुन्कसुनः"
१।१।३९ इति। णमुलस्तु "कृन्मेजन्तः"
१।१।३८ इति। लोटस्तु स्वरादिष्वाभीक्षण्यस्य पाठात्()।
ननु चैते क्त्वाणमृल्लोटश्चाभीक्ष्ण्य एव विधीयन्ते, तत्र यथा पापच्यत इति क्रियासमभिहारे विधीयमानेन यङा पौनःपुन्यस्य प्रकाशितत्वाद्()द्विर्वचनं न भवति, तथा कत्वादिभिरपि तस्य प्रकाशितत्वान्न भवितव्यम्()। अथ प्रकाशितेऽपि तस्मिस्तु तद्भवति,
पापच्यत इत्यत्रापि स्यात्()? इत्यत आह--"कत्वाणमुलोः" इत्यादि। भिन्ना हि भावानां शक्तयः।
तथा हि--यामेव क्रियां भारोद्बहनादिकां कश्चित्? सहायसापेक्षः करोति, तामेवान्यः सहायनिरपेक्षः,
तस्माद्यद्यपि चाभीक्ष्ण्ये क्त्वा णमुल्लोट्? च विधीयते, तथापि तैर्नैवाभीक्ष्ण्यभिव्यक्तं भवति। द्विर्वचनसापेक्षाणामेव तेषां पौनःपुन्यप्रकाशने शक्तिः, न केवलानाम्()। तेन भवत्येव तदन्तस्य द्विर्वचनम्();
यङन्तु द्विर्वचननिरपेक्षस्यापि पौनःपुन्याभिव्यक्तौ सामथ्र्ययमस्तीति तेनैवाभीक्षण्यस्य द्योतितत्वात्? पापण्यत इत्यत्र न भवति। आभीक्ष्ण्यप्रकाशनाय हि द्विर्वचनमुच्यते, एतच्च यङैव प्रकाशितमिति किं द्विर्वचनेन()
ननु च यङन्तस्यापि क्वचिद्()द्विर्वचनमिष्यत एव,
तच्च यङो द्विर्वचननिरपेक्षस्य यौनःपुन्यप्रकाशने शक्तौ सत्यां न सिद्ध्यति? इत्याह--"यदा तु" इत्यादि। द्विप्रकारः क्रियासमभिहारः पौनःपुन्यम्(), भृशार्थश्च। तत्र यदा यङन्तेन द्विर्वचनं भवति तदा भृशार्थे यङ्()। द्विर्वचनं तु नस्यैव भृशार्थस्य धर्मे पौनापुन्ये, न हि तद्यङा प्रकाशितम्(); तस्य भृशार्थे विदितत्वादित्यभिप्रायः। "क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम्()। इति। अत्र यद्यपि क्रियासमभिहारशब्दः सामान्यः, तथापि सामथ्र्यादभृशार्थलक्षणा एव क्रियासमभिहारे तस्य वृत्तिर्विज्ञायते, न हि पौनःपुन्येऽन्यस्य पौनःपुन्यस्य सम्भवोऽस्ति।
अथ कथं पौनःपुन्ये यङ्? भवति? कथं च न स्यात्()? द्विर्वचनेनापदादेन बाधितत्वात्()।
यङः कोऽवकाश इति चेत्()? भृशार्थ एव? नैष दोषः; पदस्य हि द्विर्वचनमुच्यते, धातोश्च यङ्()।
तथा कार्यिणोरतिभेदात्? कुतो बाधा()
"नित्यवीप्सयोः" इत्युक्तम्(), तत्र नित्यता तिङ्क्ष्वव्ययकृत्सु चेत्युक्तम्()।
वीप्सा तु न विज्ञायते--क्वाभिधेयभावेन वत्र्तते? इति, अतस्तत्परिज्ञानार्थं पृच्छते--"अथ केषु वीप्सा" इति। इतरो विदिताभिप्राय आह--"सुप्सु वीप्सा" इति। सुपामेव तदभिवयक्तौ सामथ्र्यात्()। यदि सामान्येन व्याप्तुमिच्छा वीप्सा तदा चिकीर्षाशब्दस्यापि द्विर्वचनं प्राप्नोति, तस्य करोतिक्रियया कटादेव्र्याप्तुमिच्छा तत्र वृत्तिरिति मन्यमान आह--"का पुनर्वीप्सा" इति। "व्याप्तिविशेषविषया" इत्यादि। नानादाचिनामधिकरणानां क्रियादिसम्बन्धेन युगपद्व्याप्तिव्र्याप्तिविशेषः, स विषयो यस्या इच्छायाः सा तथोक्ता। सैवंविधा "प्रयोक्तुरिच्छा वीप्सा"। प्रयोक्तुरित्यनेन प्रयोक्तृधर्मो वीप्सा, नाभिधेयधर्म इति दर्शयति।
कथं पुनव्र्याप्तिविशेषविषयेत्येष विशेषो लभ्यते? विशब्दप्रयोगात्()। यदि ह्रविशेषेण व्याप्तुमिच्छां दीप्साऽभिमता स्यात्(), "नित्येप्सयोः" इत्येवं ब्राऊयात्()।
"व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा" इत्युक्तम्(), स तु विशेषोऽनिर्दिष्टस्वरूपत्वान्न विज्ञायते, तदज्ञानच्च तद्विशिष्टा वीप्सापि न ज्ञायत इत्यतः पृच्छति--"का पुनः सा" इति। "नानावाचिनाम्()" इत्यादि। नानावाचिनाम्(), अधिकरणानामिति--व्यधिकरणे षष्ठ्यौ। नाना=पृथग्भूताः,
तान्? वक्तुं शीलं येषां शब्दानां ते नानावाचिनः। तत्सम्बन्धिनामधिकरणानां वाच्यानामित्यर्थः। "क्रियागुणाभ्याम्()" इति। करणे तीया। "युगपत्()" इति। एककालम्()। "प्रयोक्तुः" इति। वक्तुः। यो द्विर्वचनं प्रयुङक्ते तस्य। "व्याप्तुम्()" इति। सम्बन्धविशेषेणाप्तुम्()। साकल्येन सम्बन्धुमित्यर्थः। "इच्छा" इति। अभिलाषः। "वीप्सा" इति। प्रादिसमासः--विशिष्टा ईप्सा वीप्सा।
"नानाभूतार्थवाचिनाम्()" इत्यादिना अनन्तरेक्तं वाक्यं विवृणोति। यत एवंविधा वीप्सा, तेन चिकीर्षेत्यत्र द्विर्वचनं न भवति। चिकीर्षा हि कर्त्तुरिच्छा, न प्रयोक्तुः। यतश्चैवंविधा वीप्सा, तेन जातिवाचिनामपि द्विर्वचनं न भवति--निष्पन्नो यव इति। न हि जातिशब्दा नानाभूतार्थवाचिनः। यदा तु क्रमेण व्याप्तुमिच्छा तदापि न भवति--अयं ग्रामो रमणीयः, अयञ्च ग्रामो रमणोय इति। द्वन्द्वैकशेषयोरपि न भवति--अस्मिन्वने शोभना धवखदिरपलाशाः, अस्मिन्वने शोभना वृक्षा इति। अशेषविशेषव्याप्तावनभिमतायामप्येवं प्रयोगः क्रियत इति सर्वविशेषाभिधानं ["सर्वविशेषाविधानं"--कांउ। पाठः] न भवति,
अतः प्रयोक्तुरप्यशेषान्? विशेषान्? व्याप्तुमिच्छा न जायते। बाहुल्येन तु शोभनत्वमाश्रित्येवं वाक्यं प्रयोक्ता प्रयुङक्ते--ग्रामो ग्रामो रमणीय इति। अत्र हि दिन्देशादिभेदेन भिन्नानां ग्रामाणां रमणीयत्वेन गुणेन प्रयोक्तुर्युगपद्व्याप्तुमिच्छा दीप्सा। "जनपदो जनपदः" इति। अत्रापि जनपदानाम्()। "पुरुषः पुरुषे निषनमुपैति" इति। अत्र पुरुषाणां निधनक्रियया। निधनम्()--विनाश इत्यर्थः। क्रियागुणग्रहणमुपलक्षणार्थम्()। द्रव्येणापि नानावाचिनामधिकरणानां युगपद्व्याप्तुं प्रयोक्तुर्येच्छा सा वोप्सैव। तेन ग्रामे ग्रामे पानीयमित्यत्रापि द्विरवचनं सिद्धं भवति। यस्तु "द्रव्यस्य द्रव्यान्तेण सह सम्बन्धो न भवति, सिद्धरूपत्वात्()" इत्याह, तस्य यदुक्तम्()--क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धोऽत्यन्तसंयोगः" इति, तद्वचनं व्याहन्यते; ग्रामे ग्रामे पानीयमित्ययं च शिष्टप्रयोगो नोपपद्यते। अथ कथं ग्रामशब्दोऽयं वीप्सायां वत्र्तते, यावता न तस्या वीप्साः-भिधेया,
किं तर्हि? जनाकीर्मो भूखण्डः? सत्यमेतत्(); यद्येवम्(),
तथापि द्विर्वचनप्रतिपत्तिद्बारेण तस्या द्योतितत्वात्? स तस्यां वत्र्तत इत्युच्यते। ग्रामो हि द्विर्वचनं प्रतिपद्यमानो वीप्सां द्योतयतीति तस्यां द्योतनद्वारेण वत्र्तते। अथ ग्रमो ग्राम इति कथमेकवचनम्(), यावता बहुत्वाद्धिप्रामाणां बहुवचनेनैव भवितव्यम्();
अथ कृते द्विर्वचने? नैतदस्ति; समुदाय एवात्र बहुत्वमुपजायते,
न प्रत्येकम्()? उपातैकत्वसंख्येऽवयवेऽविरुद्धं ह्रेकत्वं बहुत्वेन। तेनावयवाद्बहुवचन न भवति।
समुदायात्? तर्हि कथं न भवति? बहुत्वस्याबगतत्वाद्वीप्सया। स हि समुदायो वीप्सायां बहुत्वमन्तरेण न सम्भवतीति तां प्रकाशयन्नान्तरीयकत्वाद्बहुत्वमपि गमयति। ततोऽवगतार्थत्वाद्बहुवचनं न प्रयुज्यते।
अथ यत्? तिङन्तं नित्यतया प्रकर्षेण च युक्तम्(), तत्र किं कृते द्विर्वचने प्रकर्षप्रत्ययेन भवितव्यम्()।
अथ वा कृते प्रकर्षेप्रत्यये द्विर्वचनेन? इत्यत आह--"यत्तिङन्तम्()" इत्यादि। अत्र विप्रतिषेधो हेतुः। तत्र द्विर्वचनस्यावकाशो यत्र नित्यार्थो विवक्षितः, न प्रकर्षः--पचतिपचतीति; प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्षेण योगः, न नित्यतया--पचतितरामिति; यत्र तूभाभ्यां योगस्तत्र विप्रतषेधेन द्विर्वचनं भवति--पचतिपचतितरामिति।
सुबन्तमपि तर्हि यद्वीप्सया प्रकर्षेण च युक्तम्(),
तस्मादत एव हेतोः कृतद्विर्वचनात्? प्रकर्षप्रत्ययः स्यात्(), ततश्चाढ()तरमाढ()तरमानयेति न सिद्ध्येदित्यत आह-"इह तु" इत्यादि। यदि सुबन्तस्यैककालं वीप्सा प्रकर्षेण च योगः स्यात्(), तदा स्यादयं प्रसङ्गः, स न नास्ति; यतः सुबन्तस्य प्रकर्षप्रत्ययेन संयुक्तस्य पश्चाद्वीप्सया योग इष्यते।
कथम्()? इह हि वीप्सा नाम पौरुषेयो धर्म इच्छाविशेषः, स च तथा प्रयोक्तुर्विदुषः प्रवत्र्तते यथा शब्दे नानिष्टमापद्यते, नापि प्रयोक्तरि।
यदि प्रकर्षप्रत्ययात्? प्राक्? सहभावेन वा वीप्सा स्याच्छब्देनिष्टमापद्यते, तद्द्वारेण प्रयोक्तर्यपि, यथा--हेलयो हेलय इति ब्राऊवप्सु पुरुषेषु; यज्ञेषु चानिष्टमापद्यते।
तस्मात्? प्रकर्षयोगविवक्षाया उत्तरकालं शिष्टस्य प्रयोक्तुर्वीप्सया भवितव्यमिति सिद्धमाढ()तरमाढ()तरमानयेति।
अपरः प्रकारः--इहापि तर्हि तत एव हेतोः कृते द्विर्वचने प्रकर्षप्रत्ययः स्यात्(),
ततश्चाढ()तरमाढ()तरमानयेति न सिद्ध्यति()--इत्येतस्मिन्? पूर्वपक्ष इदमाह--"इह तु" इत्यादि।
प्रकर्षसाहचर्यात्? प्रकर्षप्रत्ययः प्रकर्षशब्देनोक्तः। वीप्सासाहचर्याद्धि द्विर्वचनं वीप्साशब्देन। तदेतदुक्तं भवति--प्रकर्षप्रत्यययुक्तस्य द्विर्वचनेन योग इष्यत इति।
अत्र चायमभिप्रायः--येन हेतुना युगपत्? प्रकर्षेण नित्यतया च युक्तस्य पूर्वं द्विर्वचनं भवति, स विप्रतिषेधोऽत्र नास्ति; अतुल्यबलत्वात्()। अतुल्यबलत्वं तु प्रकर्ष प्रत्ययस्यान्तरङ्गत्वात्(), द्विर्वचनस्य बहिरङ्गत्वात्()। तथा हि ङ्याप्प्रातिपदिकादातिशायिको भवति, द्विर्वचनं तु पदस्य। "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इति सिद्धासिद्धयोश्चायुक्तो विप्रतिषेधः।
तस्मात्? पहूर्वं प्रकर्षप्रत्ययेन सुबन्ताद्भवितव्यम्,
पश्चात्? तदन्तस्य द्विर्वचनेनेति। ननु चातिशायिको नैवान्तरङ्गः, समर्थाद्धि स उपपद्यते, "समर्थानां प्रथमाद्वा"
४।१।८२ इत्यधिकारात्(),
सामथ्र्य च सुबन्तेनैव? नैतत्(); उक्तं हि तत्रैव
४।१।८२ "स्वार्थिकप्रत्ययावधिश्चायमधिकारः प्राग्दिशो विभक्तिरिति
५।३।१ यावत्(), स्वार्थिकेष्वस्योपयोगो नास्ति" इति। स्वार्थिकाश्चतिशायिकाः।
तस्मादन्तरङ्गत्वादुत्पन्ने तस्मिन्? पश्चात्? सुबन्तस्य द्विर्वचनेन भवितव्यम्()॥