पूर्वम्: ८।१।५५
अनन्तरम्: ८।१।५७
 
सूत्रम्
यद्धितुपरं छन्दसि॥ ८।१।५६
काशिका-वृत्तिः
यद्धितुपरं छन्दसि ८।१।५६

आमन्त्रितम् इत्येतदस्वरितत्वान् नानुवर्तते। तिङिति वर्तते एव। यत्परं, हिपरं, तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति। यत्परं तावत् गवां गोत्रमुदसृजो यदङ्गिरः। हिपरम् इन्दवो वामुशन्ति हि तुपरम् आख्यास्यामि तु ते। निपातैर् यद्यदिहन्त इति, हि च ८।१।३४ इति, तुपश्यपश्यताहैः इति च निघातप्रतिषेधे सिद्धे वचनम् इदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैः इति। इह न भवति, जाये स्वो रोहावैहि। एहि इत्यनेन गत्यर्थलोटा युक्तस्य रोहाव इत्यस्य लोडन्तस्य हिघातो भवत्येव।
न्यासः
यद्धितुपरं छन्दसि। , ८।१।५६

यद्धितवः परे यस्मात्? तत्तथोक्तम्()। "उदसृजोऽयम्()" इति। अत्र हि तिङन्तमट्स्वरेणाद्युदात्तम्()। "सृज विसर्गे" (धा।पा।११७८), लङ्? सिप्(), तुदादित्वाच्छः, "हशि च" ६।१।११० इत्युत्त्वम्(), "आद्गुणः" ६।१।८४। "उशन्ति हि" इति। "वश कान्तौ" (धा।पा।१०८०) झेरन्तादेशः ७।१।३, पूर्ववच्छपो लुक्(), ग्रहज्यादिसूत्रेण ६।१।१६ सम्प्रसारणम्()। प्रत्यस्वरेण मध्योदात्तमेतत्()। "आख्यस्यामितु" इति। "ख्या प्रकथने" (धा।पा।१०६०), चक्षिङादेशो वा, लृङ्()। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्()। "निपातैर्यद्यविहन्त" ८।१।३० इत्यादिना नियमस्य कारणं दर्शयि। "वचनम्()" इत्यादिनाप्यस्य वचनस्य नियमार्थत्वम्()। "एभिरेव" इत्यादिनापि नियमसय स्वरूपम्। "नान्यैः" इति। अनेनापि नियमस्य व्यवच्छेद्यम्()। "इह" इत्यादिनापि व्यवच्छेद्यस्य विषयम्()। "स्वो होहावैहि" इति। "रुह बीजजन्मनि प्रादुर्भावे" (धा।पा।८५९), लोट्(), वस्(), शप्(), "आडुत्तमस्य पिच्च" ३।४।९२, "स उत्तमस्य" ३।४।९८ इति सकरलोपः। रोहावेत्येतस्मिन्? परभूते स्वरित्यस्य "रो रि" ८।३।१४ इति रेफस्य लोपो न भवति; छान्दसत्वात्()। तस्मिन्नसति पूर्ववदुत्त्वम्()। "आद्गुणः" ६।१।८४ इति हि गुणे, लोमण्यध्यमपुरुषैकवचने रूपम्। क्वचित्()-- "जाये स्वो रोहार्वैहीत्येहीत्यनेन गत्यर्थलोटा युक्तस्य" इति पाठः, तत्राङ्पूर्वस्येणः प्रयोगो वेदितव्यः। अथ परग्रहणं क्रिमर्थम्(), न "यद्धितुष्वेव" नैवं शक्यम्(); सप्तमीनिर्देशे हि निर्दिष्यटग्रहणस्यानन्तर्यार्थत्वादनन्तरेष्वेवाक्यवादिषु भवतीति नियमो विज्ञायते। ततोऽनन्तरेष्वेव पददिषु भविष्यति, न व्यवहितेष्विति। तथा चाव्ययोगनिवृत्तेनियमेनाकृतत्वात्? स्वो रोहावैहीत्यत्र स्यादेव प्रतिषेधः॥