गायत्र्युपदेशः

गायत्र्युपदेशः

ऋषय ऊचुः । कथं गोपीपतेर्भव्या गायत्री गृह्यते जनैः । किं कार्यं तैस्तदाख्याहि तथा नामसहस्रकम् ॥ १॥ श्रीशाण्डिल्य उवाच । वर्णाश्रमाचारवता पुरुषेण परः पुमान् । आराध्यते तदा सद्यः प्रसीदति न चान्यथा ॥ २॥ ब्रह्मचारी गृही वानप्रस्थो यतिवरस्तथा । चत्वार आश्रमाश्चैते ब्राह्मणस्यैव सम्मताः ॥ ३॥ राजन्यस्य त्रयश्चाद्या विशो द्वौ च युगान्तरे । गृहाश्रमोऽपि शूद्रस्य ब्राह्मणानुगतस्य वै ॥ ४॥ व्रात्यापध्वंसजाः सर्वे ते भवन्ति निराश्रमाः । तेषां सामान्य एवास्ति धर्मो मान्यस्तु वैदिकैः ॥ ५॥ ब्रह्मक्षत्रविशां वक्ष्ये मौञ्जी लुप्यति चेद्यदि । तदैषां व्रात्यता प्रोक्ता योनिभेदाच्च सङ्करः ॥ ६॥ श्रूयते संस्कृतिर्येषां पूर्वेषामपि कुत्रचित् । तेषान्तु वैदिकी कार्या प्रायश्चित्तैः स्वसंस्कृतिः ॥ ७॥ न मातृपितृभार्यादिकुले येषां तु संस्कृतिः । विप्रस्यानुग्रहात् पूर्वा सङ्करे तु न सेष्यते ॥ ८॥ द्वादशाब्दव्रतं विप्रैर्देयं कृच्छ्रपुरःसरम् । अशक्तैश्च फलाहारैस्तीर्थस्नानैश्च तन्मतम् ॥ ९॥ विप्रस्य ब्रह्मगायत्री क्षत्रियस्य विवस्वतः । वैष्णवी व विशः प्रोक्ता रौद्री सङ्करजन्मनाम् ॥ १०॥ अथवा सर्ववर्णानां विच्युतानां स्वधर्मतः । श्रीपतेरेव सन्मन्त्रं परित्राणाय दृश्यते ॥ ११॥ स्वाश्रमाचारयुग्वापि अथवापि निराश्रमः । श्रीमुकुन्दं प्रपन्नो यो मुच्यते विश्वतो भयात् ॥ १२॥ आश्रमा वैष्णवब्राह्महराश्रमा इति त्रयः । तत्तल्लिङ्गानि सेवेत तत्तदाराधने जनः ॥ १३॥ तत्राश्रमं सदा रम्यं सात्त्विकं वैष्णवाभिधम् । यत्र वैदिकधर्मेण वैष्णवो धर्म इष्यते ॥ १४॥ दृष्ट्वा भागवतं विप्रं सर्वदोषविवर्जितम् । परिचाय्य गुरुं कुर्यादुपदेशं ततो भजेत् ॥ १५॥ प्रायश्चित्तैर्व्रतैः स्नातः स्वस्तिवाचनपूर्वकम् । गर्भाधानादिसंस्कारानाचार्येणैव कारयेत् ॥ १६॥ नारायणैर्वासुदेवैर्नारसिंहैः परैरपि । जुहुयाल्लक्षसङ्ख्याकैस्ततो ग्राह्यं मनूत्तमम् ॥ १७॥ अथ भूमिपतेर्वक्ष्ये विधानं जगतां मुदे । गोपालाराधने योग्यं योग्यं लोकस्य पालने ॥ १८॥ शुभे काले शुभे देशे कृत्वा भूमिपरिग्रहम् । मण्डपं तत्र कुर्वीत कुण्डानि च यथाविधि ॥ १९॥ चतुःशालं ततः कार्यं प्राकारोपवनाश्रितम् । प्राग्वंशं पीतपट्टेन श्रीदाम्नापि प्रशोभयेत् ॥ २०॥ गोवर्धनं क्षेत्रपतिं योगमायां च द्वारपाम् । मध्ये वेद्यान्तु गोपालं दिग्व्यूहे व्यूहपान् यजेत् ॥ २१॥ बाह्यशालेषु गणपं ग्रहान्मातृपुरःसरान् । आघारान्तं स्वगृह्योक्तमाचार्यः स्वयमाचरेत् ॥ २२॥ ततोऽसौ गुरवे गत्वा साष्टाङ्गं प्रणिपत्य च । समानयेन्महायानैराचार्यं पूजयेदथ ॥ २३॥ ब्रह्मणा प्रेषितं शिष्यमाचार्यो मन्त्रसम्भृतैः । दीक्षोक्तवर्त्मना शुद्धं स्नापयेत् षोडशद्विजैः ॥ २४॥ ततः श्रीमूलगायत्र्या हुत्वा दशशतं पुनः । भूषितः पीतवासःस्रग् मण्डितो वाद्यघोषतः ॥ २५॥ आदिशेदथ गायत्रीं गुरुः सम्प्रोक्तवर्त्मना । वित्तार्द्धमर्पयेच्छक्त्या तोषयेच्च हरिं गुरुम् ॥ २६॥ देवर्षिच्छन्दसंयुक्तां षडङ्गध्यानसम्मताम् । ध्यायन् भगवतो रूपं गुरुश्चोपदिशेत्त्रिशः ॥ २७॥ श्रीपतेरस्य गायत्र्या देवता पुरुषोत्तमः । हुताशनो मुनिस्तस्याश्छन्दो गायत्र्यमिष्यते ॥ २८॥ हरिभक्तिप्रसिद्ध्यर्थं विनियोगः प्रकीर्त्तितः । श्रीगोविन्दायेति हृदि ललाटे विद्महे इति ॥ २९॥ शिखायां वासुदेवाय कवचं धीमहीति च । तन्नः कृष्ण इति स्वक्ष्णोरस्त्रे वापि प्रचोदयात् ॥ ३०॥ आविर्भूय प्रभामये स्ववपुषे भक्तानुकम्पारसै- र्जीवांश्चेतयते धिया निजकृतेः सम्पादयन् यः फलम् । तस्यानन्दनिधेः स्वरूपममलं स्याद्गोचरं नः सदा येनास्माकमपीदृशे भगवतो रूपे भवेच्छेमुषी ॥ ३१॥ इति लब्ध्वा गुरोर्मन्त्रं वैष्णवीं धारयेत्स्रजम् । समाप्य होमशेषञ्च पूजाशेषं यथोदितम् ॥ ३२॥ गुरुं सम्मानयेद्भक्त्या दास्यमाजन्ममाचरेत् । ग्रामधामधरावृत्तिः प्रासादाराममर्पयेत् ॥ ३३॥ मोचयेन्निगडग्रस्तान् राजभ्यो दास्यतो ऋणात् । अथ सम्प्रेषयेद्यानैर्महोत्सवपुरःसरम् ॥ ३४॥ दारागारसुतादीनि सर्वं तस्मै निवेदयेत् । ततो भगवतः कुर्यादुत्सवं वैष्णवैर्जनैः ॥ ३५॥ सप्ताहं तत्र निवसेत्सत्रं भोज्यं प्रवर्त्तयेत् । महोपचारविधिना वृन्दापत्रैः सितासितैः ॥ ३६॥ सहस्रनाममन्त्रैश्च पूजयेत्प्रत्यहं व्रती । ततः समाप्य तत्सर्वमाचार्य्यं परितोषयेत् ॥ ३७॥ ग्रामं गजहयं गेहं गावो वृत्तिञ्च सन्तताम् । दासीदासधनं पूर्णं राजचिह्नानि यान्यपि ॥ ३८॥ एतैः पूजोपकरणैः प्रपूज्याचार्यमीश्वरम् । ब्राह्मणान् तोषयेद्भक्त्या धनधान्यैरथापरान् ॥ ३९॥ भूषणैरपि वासोभिः सपत्नीकान्समर्चयेत् । मानयेद्विदुषो विप्रान् तापसान् कुलजानपि ॥ ४०॥ कन्या विवाहयेत्तेषामृणानि परिमोचयेत् । सभ्येभ्यश्च गृहिभ्यश्च नयं दद्यान्मतिं तथा ॥ ४१॥ दीनान्धबधिरादिभ्यश्चान्नं वासो यथायथम् । प्रजाभ्यः करमोक्षं च कुर्यात्किञ्चिद्यथारूचि ॥ ४२॥ गवां निरोधं भारञ्च वाहानां सुखयेज्जगत् । सर्वान् सुखेन सम्पन्नान् वीक्ष्य विप्रांश्च भोजयेत् ॥ ४३॥ गवां च यवसं दद्याद् बालान्सम्भोजयेत्स्त्रियः । ततः साम्राज्यसल्लक्ष्म्या भूषितोऽमात्यभृत्यकान् ॥ ४४॥ स्वसेनामपि सन्तोष्य आयान्निजगृहं नृपः । तत्र पूर्वस्थितान् देवान् गुरुं तोष्य मुदान्वितम् ॥ ४५॥ स्वैः सर्वैः सह भुञ्जीत ब्रह्मचर्यं ततस्त्यजेत् । ततश्च प्रत्यहं यन्त्रे मूर्तौ देवं प्रपूजयेत् ॥ ४६॥ यथालब्धोपचारैश्च यथासमयसम्पदा । एवं कृत्वा महीपालः प्रजाधर्मपरायणः ॥ ४७॥ गोपयेद्धर्मशास्त्रेण हरिं तद्राष्ट्रमर्पयेत् । हिंसां निवर्त्तयेद् राष्ट्रान्मद्यद्यूतच्छलादिकम् ॥ ४८॥ मद्यमांसभुजो लोकान् पाषण्डपतितांस्त्यजेत् । एवं कुर्वन्महीपालः जायते वासवोपमः ॥ ४९॥ पुत्रवित्तादिसम्पन्नो ह्यनुल्लङ्घितशासनः । निरातङ्की दीर्घजीवी महिलावल्लभो युवा ॥ ५०॥ परत्र वासुदेवस्य सारूप्यमपि गच्छति । स्वच्छन्दचारी लोकेऽस्मिन् सदैव हरिवल्लभः ॥ ५१॥ इत्येवं नृपतेः प्रोक्तोऽप्यन्येषां स्वानुरूपतः । तदाचारः पुरा प्रोक्तो व्रात्यधर्मविनिर्णयः ॥ ५२॥ भवेदच्युतगोत्रो वा ब्रह्मचर्यं समाश्रयेत् । पौराणमाचमं कुर्यान्मूलबीजैश्च संहृतिः ॥ ५३॥ मार्जनं स्नानमन्त्रैश्च गायत्र्यार्घ्यं जपं तथा । उपस्थाय हरिं सूर्यं गुरुमग्निं समर्चयेत् ॥ ५४॥ हरिं सम्पूजयेन्नित्यं तच्चिह्नैः समलङ्कृतः । भिक्षाशनो विरक्तो वा एवं वर्त्तेत वा वनी ॥ ५५॥ वनमेवाश्रयेद्धीमान्तपी हरिपरायणः । भजेद्यती वा श्रीनाथं भजंस्तीर्थानि सञ्चरन् ॥ ५६॥ वदन् भागवतं शास्त्रं विजितात्मा त्रिदण्डभृत् । कुर्याद्भक्तिं हरे रम्यां तेन सिद्ध्यति सत्वरम् ॥ ५७॥ अथ दीनतरस्यापि उपायं वो वदामि भोः । स्नातः शुद्धः शुद्धिमन्तं सोपायनकरो गुरुम् ॥ ५८॥ विज्ञापयेत् श्रीभगवन् दीनोद्धारपरायण । निःसाधनं कुकृतिनं मग्नं संसारवारिधौ ॥ ५९॥ प्रपन्नं श्रीमतः पादपद्मयोः कृपया गुरौ । समुद्धर महाक्लेशान्मुक्तिमार्गं प्रदर्शय ॥ ६० तवास्मि करुणापूर्ण इत्युक्तोऽसौ वदेदमुम् । हरिरेव जगत्सर्वं हरिणा निर्मितं जगत् ॥ ६१॥ न हरेः परमं चान्यद्वस्तुभूतं सनातनम् । हरेः सिसृक्षया रन्तुं जगज्जातं ततो भवान् ॥ ६२॥ यस्यांशः तस्य शरणं गृहाण जगदीशितुः । भजस्व भक्तिसंयुक्तस्ततः सिध्यसि सत्वरम् ॥ ६३॥ इत्युक्त्वाथ महामन्त्रं दद्यादष्टाक्षरं हरेः । श्रीमन्नारायणस्यैव प्रपन्नशरणं जनः ॥ ६४॥ श‍ृण्वन् गृणन् गुणान् विष्णोः परिमुच्यति संवृतेः । नानाजन्मकृतैः पुण्यैः सात्त्विकानां हरौ भवेत् ॥ ६५॥ भक्तिस्तद्वासनाबीजमहामन्त्रे महोदये । इमं प्राप्य महामन्त्रं प्राप्तव्यं न परं भवेत् ॥ ६६॥ पीत्वाऽमृतं यथा लोके पेयं शिष्यति नापरम् । एतच्छ्रवणमात्रेण साक्षान्नारायणो भवेत् । बहुनोक्तेन किमिह इदं गुप्तं सुरेष्वपि ॥ ६७॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकोनविंशोऽध्याये गायत्र्युपदेशः सम्पूर्णः । Proofread by Manish Gavkar
% Text title            : Gayatri Upadesha
% File name             : gAyatryupadeshaH.itx
% itxtitle              : gAyatryupadeshaH (shANDilyasaMhitAntargataH)
% engtitle              : gAyatryupadeshaH
% Category              : deities_misc, upadesha, advice
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org