ईश्वरप्रोक्तं शिवरात्रिपूजाव्रतकथनम्

ईश्वरप्रोक्तं शिवरात्रिपूजाव्रतकथनम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवपार्वतीसंवादे - देव्युवाच । शिवरात्र्यां महादेव कथमर्चन्ति साधकाः ॥ २४॥ को विधिस्तस्य नियमस्तत्सर्वं वद मे विभो । महेश्वर उवाच । कथयामि विधिं तेऽद्य शिवरात्रिसमर्चने ॥ २५॥ श‍ृण्वपर्णो न प्रकाश्यं रहस्यं परमं मम । स्थावरे वा चरे वापि मृद्बाणस्फटिकेऽपि वा ॥ २६॥ धातुजे वा यथा जोषं पूजां यामचतुष्टये । सम्पाद्य पूजासामग्री शिवक्षेत्रे गृहेऽपि वा ॥ २७॥ प्रातः कृत्यं च निर्वर्त्य दुष्टालापविवर्जितः । स्नात्वा नद्यां तडागे वा धौतवस्त्रधरः शुचिः ॥ २८॥ सितभस्मत्रिपुण्ड्राङ्को रुद्राक्षाधारणान्वितः । गां गोमयेनोपलिप्य रङ्गवल्यादिमण्डिताम् ॥ २९॥ वितानमण्टपैर्युक्तां वेदिकास्तरणावृताम् । कल्पयेत्पीठमुत्कृष्टं समासीनः कुशासने ॥ ३०॥ पञ्चामृतं फलरसं पञ्चगव्यं सुमान्यपि । बिल्वपद्मार्ककल्हारनवनीलोत्पलानि च ॥ ३१॥ दमनोशीरकादीनि सम्पाद्याम्बु च चन्दनम् । धूपदीपौ फलानीशे वाग्यतो हविरेव च ॥ ३२॥ ताम्बूलं च सुवासांसि सम्पाद्य नियमान्वितः । आचम्य प्राणानायम्य जपेत्पञ्चाक्षरं शिवे ॥ ३३॥ साङ्गन्यासं सहस्रं मे यामे यामेऽथ पूजकः । ध्यायेद्देवं विरूपाक्षं शिवरात्र्यां शिवार्चकः ॥ ३४॥ - - (शिवध्यानम्) - - देवं नित्यं महेशं रजतगिरिवसं चारुचन्द्रावतंसं रत्नाऽऽकल्पोज्जवलाङ्गं परशुमृगवराभीतिहस्तान्तरङ्गम् । पद्मासीनं सहाम्बं वृतगणपगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं सर्वपापापहारम् ॥ ३५॥ - - ध्यात्वा वा द्य महालिङ्गे स पुष्पाञ्जलिमीश्वरि । पाद्यार्घ्याचमनादीनि दद्यात्पञ्चाक्षरेण हि ॥ ३६॥ पञ्चामृतैः पञ्चगव्यैः शिवे फलरसैरपि । गन्धपुष्पकुशाम्बूनि दद्याद्रुद्रेण भामिनि ॥ ३७॥ घृतदीपावलिं दद्यात् धूपं गुग्गुलुसंयुतम् । कुर्याद्धाराभिषेकं मे रुद्रैकादशसङ्ख्यया ॥ ३८॥ तौर्यत्रिकैस्तदा देवि शिवरात्र्यां शिवे मुदा । स कूर्चैस्तर्पयेदन्ते भवायेत्यष्टनामाभिः ॥ ३९॥ किञ्चिद्दत्वाऽथ नैवेद्यं परिमृज्याथ वाससा । पीठे संस्थाप्य देवेशं गन्धपुष्पाक्षतैर्यजेत् ॥ ४०॥ भस्मना बिल्वकुसुमैर्मल्लिकाभिर्महेश्वरि । भूषणैर्भूषयेदीशं पद्मकल्हारचम्पकैः ॥ ४१॥ मन्दारैः केतकैश्चैव(?) तथा दमनकादिभिः । शताष्टनामभिर्वापि नामसाहस्रतोऽपि वा ॥ ४२॥ मूर्तयोऽष्टौ शिवस्यैताः पूर्वदिक्क्रमयोगतः । पूजयेत्स्कन्दनन्दीशौ गणचण्डेश्वरादिकान् ॥ ४३॥ उमां च भवपार्श्वे च पूजयेदुपचारकैः । - - (अष्टमूर्ति शिवस्तुतिः) - - शर्वाय क्षितिरूपाय भवाय जलमूर्तये ॥ ४४॥ रुद्राय तेजोरूपाय उग्राय पवनात्मने । भीमायाकाशरूपाय याज्याय पशुपाय च ॥ ४५॥ महादेवाय सोमाय यष्ट्रे सूर्यात्मने नमः । - - इति सम्पूज्य देवेशमष्टमूर्तिं पिनाकिनम् ॥ ४६॥ गणेशं भैरवं दुर्गां स्कन्दनन्दीश्वरावुभौ । चण्डेशं च गणेशं च तत्तन्मन्त्रैर्यजेच्छिवे ॥ ४७॥ मूलमन्त्रेण तां शक्तिं गन्धपुष्पाक्षतादिभिः । धूपं दीपं ततो दद्यान्नैवेद्यं भक्ष्यभोज्यकम् ॥ ४८॥ ताम्बूलं फलजालं च पानीयं मुखवासकम् । नीराजनं ततो दद्याच्छतसाहस्रवर्तिकम् ॥ ४९॥ चामरं दर्पणं छत्रं वितानं ध्वजमेव च । व्यजनं भाजनं देवि दद्याद्वित्तमवञ्चयन् ॥ ५०॥ नमेत्प्रदक्षिणां स्तोत्रं ऋक्सामाथर्वयाजुषैः । कुर्यान्नृत्तं गीतवाद्यं वीणावेणुमृदङ्गकान् ॥ ५१॥ निवेदयित्वा देवाय स्तोत्रमेतत्पठेन्नरः ॥ ५२॥ - - (शिवस्तुतिः) - - विश्वाधिक त्रिदशनायक देवदेव वन्दारुवन्दितपदाब्ज महेश शर्व । पाह्यम्बया शशिकलामलचारुमौले मामाशु लोकय भवाम्बुधिवीचिलग्नम् ॥ ५३॥ विश्वेश विश्वजनकाव्यय सोमधामन् भूमाव शर्व महिमागम वामदेव । कामाङ्गनाशन गराशन कालकाल मां पाहि संसृतिजगद्गतमाशु देव ॥ ५४॥ कन्दर्पदर्पहर सर्पविशोभिताङ्ग गर्तासनस्थ गजचर्मपरीतदेह । कर्ता त्वमेव जगतां परमेश हर्ता पाता त्वमीश परिपाहि भवाब्धिमग्नम् ॥ ५५॥ हे विश्वनाथ गणनाथ सुमन्मथारे मन्नाथ नाशितमहाघचयेन्दुचूड । पाहीश मामकधिया भवपाशलग्नं मग्नं महाभव समुद्रसुपङ्किलं माम् ॥ ५६॥ त्र्यक्षाक्षय्यफलप्रदाय विभो दक्षादिदीक्षापह उक्षोर्ध्वाङ्गगतामिताभयहर वीक्षैकदग्धासुर । कक्षादिस्थित पक्षपातसदृशा संवीक्ष मामीश्वर पक्षीन्द्रप्रियवाहपूजितपद प्रत्यक्षमुक्तिप्रद ॥ ५७॥ - - इत्थं यामचतुर्ष्वेवं संस्तुवीत महेश्वरम् । प्रत्येकमर्घ्यं दद्याद्वै सपुष्पाम्बुविमिश्रितम् ॥ ५८॥ - - (क्षमाप्रार्थना) - - नमः शिवाय शान्ताय सर्वपापहराय च । शिवरात्रौ मया दत्तमर्घ्यं प्रीतिकृदस्तु ते ॥ ५९॥ मया कृतान्यनेकानि पातकानि च शङ्कर । गृहाणार्घ्यमुमाकान्त शिवरात्रौ प्रसीद मे ॥ ६०॥ दुःखदारिद्र्यभारैश्च दग्धौऽहं पार्वतीपते । ममार्घ्यदानात्सुप्रीतः सुखिनं कुरु शङ्कर ॥ ६१॥ मया कृतान्यघौघानि हर शङ्कर शं कुरु । शिवरात्रौ ददाम्यर्घ्यं शिवरात्रौ प्रसीद मे ॥ ६२॥ प्रतिप्रहरमेवं स्यादर्घ्यं दत्वा विचक्षणः । दण्डवत्प्रणतो भूत्वा ततो देवं क्षमापयेत् ॥ ६३॥ अङ्गहीनं क्रियाहीनं विधिहीनं महेश्वर । पूजितोऽसि मया देव तत्क्षमस्व घृणानिधे ॥ ६४॥ यच्चाप्युपहतैः पुष्पैरशस्तैर्भावदूषितैः । केशकीटापविद्धैश्च पूजितोऽसि मया प्रभो ॥ ६५॥ अन्यत्रासक्तचित्तेन क्रियहीनतया विभो । निद्रातन्द्राहृताङ्गेन क्षुत्क्षामफलभक्षणैः ॥ ६६॥ तामसेन च भावेन हीनमन्त्राक्षरेण च । पूजितोऽसि मया देव तत्सर्वं क्षम्यतां मम ॥ ६७॥ व्रतं सम्पूर्णतां यातु फलं चाक्षय्यमस्तु मे । - - एवं स्तुत्वा नमस्कृत्य पूजास्थानं विसर्जयेत् ॥ ६८॥ नैवेद्यादि च तत्सर्वं भस्माङ्गाय निवेदयेत् । परेद्युः कृतकर्माथ सम्पूज्य शिवमव्ययम् ॥ ६९॥ ब्राह्मणान् भोजयेच्छक्त्या गन्धपुष्पाक्षतार्पणैः । एवमैशं व्रतं कुर्यात् नैत्यकं प्रतिवर्षकम् ॥ ७०॥ माघकृष्णचतुर्दश्यां सर्वकामफलप्रदम् । चतुर्विंशद्वादशाब्दे कुर्यादुद्यापनं बुधः ॥ ७१॥ आजन्म यस्तथा कुर्यात्सोऽक्षय्यां लभते गतिम् । माघकृष्ण चतुर्दश्यां पूज्य लिङ्गं पिनाकिनः ॥ ७२॥ चतुर्दशी दर्शयुक्ता अष्टमी नवमीयुता । पारणं तत्र कर्तव्यं रौद्रर्क्षे वा पुनर्वसौ ॥ ७३॥ कलशा दश वाष्टौ वा सोदकानभिपूर्य च । गन्धपुष्पाक्षतफलैः ऋत्विजोऽष्टौ निमन्त्रयेत् ॥ ७४॥ आचर्यं वरयेदेकं ब्राह्मणं वेदपारगम् । गणेशं स्कन्दनन्दीशं काली भद्रां सरस्वतीम् ॥ ७५॥ वृषभं त्वामुमादेवीं कलशेष्वभितो यजेत् । मृत्युञ्जयेन मन्त्रेण वह्नौ हुत्वा शताष्टकम् ॥ ७६॥ चरुणा सधृतेनेशि ब्राह्मणान् भोजयेच्छिवे । यथाशक्त्या धेनुवस्त्रं हिरण्यं व्रतदक्षिणाम् ॥ ७७॥ आचार्याय च ऋत्विग्भ्यो दद्यादुद्यापनं स्मृतम् । एतद्वै सङ्ग्रहेणैव कुर्यादुद्यापनं शिवे ॥ ७८॥ शिवरात्रिव्रतस्यास्य सर्वकामप्रपूरणम् ॥ ७९॥ ईश्वर उवाच । भूतायामसिते च नक्तमगजे माघ्यां ममर्क्षे नरः पापौघान्न बिभेति शङ्करपदध्यानानुरक्तः सदा । मुक्तः संसृतिघोरपाशत इमां गां सर्वदानाधिकां दत्वा यत्फलमाप्नुयात् सुनिशितं तत्प्राप्य मामेति च ॥ ८०॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवरात्रिपूजाव्रतकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३२ शिवरात्रिपूजाव्रतकथनम् । २४.२-८०॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 32 shivarAtripUjAvratakathanam . 24.2-80.. Notes: Śiva शिव delivers Upadeśa उपदेश to Pārvatī पार्वती about observing Śivarātri Vrata शिवरात्रि व्रत during Māgha Kṛṣṇa Caturdaśī माघ कृष्ण चतुर्दशी and worshiping ŚivaParivāra शिवपरिवार. He also advises ŚivaDhyānam शिवध्यानम्, ŚivaStutiḥ शिवस्तुतिः, Aṣṭamūrti ŚivaStutiḥ अष्टमूर्ति शिवस्तुतिः and KṣamāPrārthanā क्षमाप्रार्थना for the Śivarātri Pūjā शिवरात्रि पूजा. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivaratripujavratakathanam
% File name             : IshvaraproktaMshivarAtripUjAvratakathanam.itx
% itxtitle              : shivarAtripUjAvratakathanam IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivarAtripUjAvratakathanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 32 shivarAtripUjAvratakathanam | 24.2-80||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org