ईश्वरप्रोक्तं सोमवारव्रतमहिमावर्णनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
पार्वत्युवाच ।
देव देव महादेव त्रिकालज्ञ त्रिलोचन ।
किं तव प्रीतिकृच्छम्भो व्रतं सर्वाघनाशनम् ॥ ७॥
पुमर्थदायकं शर्व सर्वेषां कथयस्व मे ।
तस्यास्तद्वदनाम्भोजं पीत्वा लोचनषट्पदैः ॥ ८॥
प्राह देवो विरूपाक्षः प्रत्यक्षमवदद्व्रतम् ।
शिव उवाच ।
शृणु पद्मपलाशाक्षि व्रतं मे प्रीतिदायकम् ॥ ९॥
साधु साधु महाप्राज्ञे सर्वलोकोपकारकम् ।
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते ॥ १०॥
सर्वकामप्रदं दिव्यं सर्वरोगनिवारकम् ।
ब्रह्मविष्ण्वादिभिर्देवैः कृतमेतन्महाव्रतम् ॥ ११॥
नरो वा यदि वा नारी द्विजो वाप्यद्विजोऽपि वा ।
कृत्वा व्रतमिदं पुण्यं मम लोकं स विन्दति ॥ १२॥
सर्वेष्वपि च मासेषु प्रशस्तं सर्वकामदम् ।
गदन्ति निगमाः सर्वे शिष्टं सोमव्रतं त्विति ॥ १३॥
सोमवारव्रतं दिव्यं द्विजानामेव केवलम् ।
नराणामथ नारीणां सौभाग्यारोग्यवर्धनम् ॥ १४॥
श्रावणे कार्तिके वापि गृहीतनियमो व्रती ।
पूजयेन्मां महादेवि सोऽचिरान्मुक्तिभाग्भवेत् ॥ १५॥
देव्युवाच ।
कथं सोमव्रतं कार्यं को विधिः पूजनं कथम् ।
कस्मिन् काले च कर्तव्यं सर्वं विस्तरतो वद ॥ १६॥
शिव उवाच ।
श्रावणेऽस्मिन् वरे मासि त्वत्पितुर्मौलिसंस्थितम् ।
केदारेशमहालिङ्गसन्निधौ नियमाद्व्रती ॥ १७॥
सङ्कल्प्य वत्सरं वापि त्रीणि द्वादश वाऽम्बिके ।
सङ्क्प्य ब्राह्मणैः सार्धं व्रतमेतत्समाचरेत् ॥ १८॥
अस्य केदारनाथस्य श्रावणे सोमवासरे ।
पूजा कार्य विशेषेण शाम्भवैर्विविधैः शुभैः ॥ १९॥
सोमवारव्रतं कार्यं प्रयत्नेन यथाविधि ।
ब्राह्मणैरेव नियमादाजन्मान्तं महेश्वरि ॥ २०॥
यत्नादुपोषणं कार्यमन्यथा निशि भोजनम् ।
उपवासी पूजयेन्मां रात्रौ यामचतुष्टयम् ॥ २१॥
परेद्युर्मां समभ्यर्च्य निवेद्याशीत भावतः ।
सर्वेष्वपि च मासेषु सोमवारः प्रशस्यते ॥ २२॥
कृष्णपक्षे विशेषेण तस्य नोद्यापनं शिवे ।
नक्तभुग्यदि भक्तः स्यात्क्षारवर्जान्नभुग्भवेत् ॥ २३॥
यन्निवेदितमीशाय तदश्नीयाद्यथाविधि ।
मधुमांसं वर्जीत नक्ताशी सर्वदा शिवे ॥ २४॥
वत्सरे वत्सरान्ते वा द्वादशाब्दे त्रिहायने ।
नक्ताशनोद्यमं कुर्यादुपवासी न सञ्ज्वरेत् ॥ २५॥
अन्येष्वपि महादेवि शिवक्षेत्रेष्वथारभेत् ।
अयुक्ते नियतं नित्यं भक्तो नक्ताशनो भवेत् ॥ २६॥
सोमवारेषु वा देवि भूतायामष्टमीषु वा ।
पर्वस्वपि विशेषेण सोऽमास्वपि च शङ्करि ॥ २७॥
शाम्भवो नन्दिनं नक्तं तत्र सम्पूज्य हव्यभुक् ।
कार्तिके प्रारभेद्वापि अरुणाचलसन्निधौ ॥ २८॥
सोमवारव्रतं देवि सङ्कल्प्यैव हि पूर्ववत् ।
ईश्वर उवाच ।
अत्रेतिहासं वक्ष्यामि शृणि शैलसुतेऽनघे ॥ २९॥
चाक्षुषस्यान्तरे देवि दक्षो मेधाय दीक्षितः ।
सर्वैः सुरासुरैर्देवि ब्रह्मविष्ण्वादिभिर्द्विजैः ॥ ३०॥
मामनादृत्य त्वां चापि यज्ञं कर्तुं प्रचक्रमे ।
सुराद्या वीरभद्रेण शिक्षिता दीक्षितोऽपि हि ॥ ३१॥
चन्द्रोऽमृतमयश्चायं निष्पिष्टः करपङ्कजैः ।
सोमो हीनामृतो गौरि रोहिण्यामायजत्तदा ॥ ३२॥
केदारे सोमनाथाख्यं लिङ्गं संस्थाप्य पूजयन् ।
स पुनर्दक्षशापेन पीडितो मामनूनुवत् ॥ ३३॥
बलीवर्दमावर्धयन्मार्दवेन
क्रुधा त्रैपुरं निर्दहन्नर्द ते यः ।
इनाक्ष्णैव हार्दं तमोनाशयन् लोक-
जालं सशोकं पुनीते महेशः ॥ ३४॥
ततस्तुष्टोऽस्म्यहं देवि तस्य स्तुत्या च भक्तितः ।
सोमवारव्रतस्यास्य प्रभावेण गिरीन्द्रजे ॥ ३५॥
तेनोक्तं यदि तुष्टोऽसि तिष्ठात्रस्थो निरन्तरम् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ३६॥
तावन्मे स्थापिते लिङ्गे उमया सह तिष्ठ भोः ।
रोहिण्याश्च पतिश्चैवं प्रार्थयित्वा च मां शिवे ॥ ३७॥
ततः शुद्धशरीरोऽसौ गगनस्थो विराजते ।
ममोत्तमाङ्गे देविशि स्थानं दत्तं विशेषतः ॥ ३८॥
देवान् प्रीणाति सद्योऽपि सोमधर्मप्रदानतः ।
प्रथमां पिबते वह्नि द्वितीयां भास्करः शिवे ॥ ३९॥
तृतीयामथ देवेन्द्रश्चतुर्थी मरुतोऽखिलाः ।
वसवः पञ्चमीं तस्य कलां षष्ठीं तु वासवः ॥ ४०॥
आदित्याः सप्तमीं देवि रुद्रास्तस्याष्टमीं कलाम् ।
नवमीं ऋभवो देवि दशमीं यक्षगुह्यकाः ॥ ४१॥
एकादशी शिवे साध्या द्वादशीं विष्णुरेव हि ।
ब्रह्मा त्रयोदशीं तस्य निरृतिस्तु चतुर्दशीम् ॥ ४२॥
अमावास्यासु पितरः कलां तस्य पिबन्ति हि ।
सोमोऽमृतमयो देवि देवानां भोजनं शशी ॥ ४३॥
कलाभिः पोषयन् देवान् ओषधीनां गणं शिवे ।
सोमवल्लीषु नितरां यज्ञार्थं सोम आहितः ॥ ४४॥
सोमेनादित्यबलिनः सोमेन पृथिवी मही ।
सर्वेषामथ ऋक्षाणां मध्ये वै सोम आस्थितः ॥ ४५॥
इत्येषा बह्वृचानां हि श्रुतिराह महेश्वरि ।
सर्वेषां जनिता सोम शक्रविष्ण्वनिलात्मनाम् ॥ ४६॥
तस्मात्तदाविष्टतया सोमवल्लीभिरेव हि ।
प्रवर्धयन्ति यज्ञांश्च सौम्या ये ब्राह्मणाः शिवे ॥ ४७॥
तस्माद्यज्ञेषु सर्वेषु अग्नीषोमः पशुः स्मृतः ।
तस्माद्व्रतमिदं देवि सोमवारं ममेष्टदम् ॥ ४९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं सोमवारव्रतमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २८ सोमवारव्रतमहिमा । ७-४९॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 28 somavAravratamahimA . 7-49..
Notes:
Śiva शिव describes to Pārvatī पार्वती about worshiping Him and observing Vrata व्रत on Somavāra-s सोमवाराः - especially those of Śrāvaṇa श्रावण and Kārtika कार्तिक māsa मास.
He outlines the Somakalā-s सोमकलाः wrt the tithi-s तिथि, that form the nourishment of the Deva-s देवाः.
Selected ślokas are presented on this page.
Proofread by Ruma Dewan