स्कन्दप्रोक्तं रुद्रमन्त्रहोममुपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्द उवाच -
होमेऽपि शं च मे सूक्तमा(सूक्तेना) दावेकाहुतिं चरेत् ।
नमस्ते प्रथमो मन्त्रो द्वितीयो यात इत्यथ ॥ १॥
याते रुद्रेति विद्या स्याद्यमिषुं गिरिशं तथा ।
शिवेन वचसा त्वेति ह्यध्यवोचदथापरा ॥ २॥
असौ यस्ताम्र इत्यन्या तथासौयो विसर्पति ।
नमो अस्त्विति मन्त्रोऽन्यः प्रमुञ्चेति परोमनुः ॥ ३॥
अवतत्येति मन्त्रोऽन्यो विज्यं धनुरथापरः ।
याते हेतिस्तथा विद्या नमस्ते अस्त्वा तथा परः ।
परिते धन्वन इति नमो हिरण्यबाहवे ॥ ४॥
नमोवृक्षेभ्य इत्यन्यो नमस्सस्पिञ्जराय च ।
सा नमो बभ्लुशायेति नमो हरिकेशाय इत्यपि ॥ ५॥
नमो भवस्य हेत्यै सा नमो रुद्राय मन्त्रकः ।
नमः सूताय विद्यान्या नमो रोहिताय इत्यथ ॥ ६॥
सा नो मन्त्रिणे विद्या नमो भुवन्तये परः ।
नम उच्चैस्तथा विद्या सा नमः कृत्स्न इत्यपि ॥ ७॥
सा नमः सहमानाय नमः ककुभाय चाप्यथ ।
नमो निषङ्गिणे विद्या नमो वञ्चत इत्यथ ॥ ८॥
नमो निचेरवे विद्या नमः सृकाविभ्य इत्यथ ।
नमोऽसिमद्भ्य इत्यन्या नम उष्णीषिणे तथा ॥ ९॥
नम इषुमद्भ्य इत्यन्या नम आतन्वानेभ्य एव च ।
नम आयच्छदित्यन्या नमोऽस्यद्भ्यः परो मनुः ॥ १०॥
नम आसीन इत्यन्या नमः स्वपद्भ्य इत्यपि ।
नमस्तिष्ठद्भ्य इत्यन्या नमः सभाभ्य इत्यथ ॥ ११॥
नम अश्वेभ्य इत्यन्या नम आव्याधिनीत्यपि ।
नम उगणाभ्य इत्यन्या नमो गृत्सेभ्य इत्यथ ॥ १२॥
नमो व्रातेभ्य इत्यन्या नमो गणेभ्य इत्यथ ।
नमस्तक्षभ्य इत्यन्या नमः कुलालेभ्य इत्यथ ॥ १३॥
(अत्र मन्त्रगणनं लेखकदोषेण विच्छिन्नमित्यतः
साङ्कृत्याय एवं लिख्यते -
नमो विरूपेभ्य इत्यन्या नमो महद्भ्य इत्यपि ।
नमो रथिभ्य इत्यन्या नमो रथेभ्य इत्यथ ।
नमः सेनाभ्य इत्यन्या नमः क्षत्तृभ्य इत्यथ ॥ इति ।)
नमः पुञ्जिष्ट इत्यन्या नम इषुकृद्भ्य इत्यथ ।
नमो मृगयुमन्त्रोऽन्यो नमः श्वभ्यः परो मनुः ॥ १४॥
नमो भवायेत्यपरो नमः शर्वाय इत्यथ ।
नमो नीति मन्त्रोऽन्यो नमः कपर्दिनेत्यथ ॥ १५॥
नमः सहस्राक्षायेति नमो गिरिश इत्यथ ।
नमो मीढुष्टमायेति नमो ह्रस्वाय चेत्यथ ॥ १६॥
नमो बृहत इत्यन्यो नमो वृद्धाय चेत्यथ ।
नमो अग्रियायचेति नम आशव इत्यथ ॥ १७॥
नमः शीघ्रयाय मन्त्रो नम ऊर्म्याय इत्यथ ।
नमः स्रोतस्यायेति नमो ज्येष्ठाय चेत्यथ ॥ १८॥
नमः कनिष्ठ इति च पूर्वजो(जः) परजो मनुः ।
नमो मध्यमाय चापगल्भ इत्यथ ॥ १९॥
नमो जघन्याय इति नमः सोभ्याय चेत्यथ ।
नमो याम्याय चेत्यन्यो नम उर्वर्याय इत्यथ ॥ २०॥
नमः श्लोक्याय चेत्यन्यो नमोवन्याय चेत्यथ ।
नमः श्रवाय चेत्यन्यो नमः प्रतिश्रवोऽपरः ॥ २१॥
नम आशुषेणाय च परो मन्त्रो द्विजोत्तमाः ।
नमः शूराय चेत्यन्यो नमो वर्मिण इत्यथ ॥ २२॥
नमो बिल्मिन इत्यन्यो नमः श्रुताय चेत्यथ ।
नमो दुन्दुभ्य इत्यन्यो नम आहनन्य इत्यपि ॥ २३॥
नमो धृष्णव इत्यन्यः प्रमृशेत्यन्य ईरितः ।
नमो दूताय चे त्यन्यो ह्यन्योऽत्रैव निषङ्गिणे ॥ २४॥
नमस्तीक्ष्णेषवेह्यन्यो नमः स्वायुधोऽपरः ।
नमः स्रुत्याय चेत्यन्यो नमः काट्याय चेत्यथ ॥ २५॥
नमः सूद्याय चाप्येवं सरस्यायेति चाप्यथ ।
नमो नाद्याय चेत्यन्यो वैशन्तायेत्यथापरः ॥ २६॥
नमः कूप्याय चाप्यन्यो नम आवट्य इत्यपि ।
नमो वर्ष्याय इत्यन्यो ह्यवर्ष्यायेत्यथापरः ॥ २७॥
नमो मेध्याय इत्यन्यो विद्युत्यायेत्यथापरः ।
नम ईध्रिय इत्यन्यो ह्यातप्य इतरो मनुः ॥ २८॥
नमो वात्याय चेत्यन्यो नमो वास्त्वित्यथापरः ।
नमः सोमाय मन्त्रोऽन्यो नमस्ताम्राय चेत्यथ ॥ २९॥
नमः शङ्गाय मन्त्रोऽन्यो नम उग्राय चेत्यथ ।
नमो अग्रेवधायेति नमो हन्त्रेत्यथापरः ॥ ३०॥
नमो वृक्षेभ्य इत्यन्यो नमस्ताराय इत्यथ ।
अथचेतः परं मन्त्रो नमः शम्भव इत्यपि ॥ ३१॥
मयोभवेत्यथान्योयं शङ्करोऽन्यो मयस्करः ।
नमः शिवाय मन्त्रोऽन्यः सर्वमन्त्रशिरोमणिः ॥ ३२॥
तथा शिवतरश्चान्यो मन्त्रोऽयं शिवबोधकृत् ।
नमस्तीर्थ्याय चाप्यन्यो नमः पार्याय चेत्यथ ॥ ३३॥
नमः प्रतरणायेति नमश्चोत्तरणाय च ।
नम आतार्याय मन्त्रो नमः शष्याय चेत्यथ ॥ ३४॥
नमः सिकत्याय चान्यो नम इरिण्याय चेत्यथ ।
नमः किm+शिलायेति नमः कपर्दिन इत्यथ ॥ ३५॥
नमो गोष्ठ्याय चाप्यन्यो नमस्तल्प्याय इत्यथ ।
नमः काट्याय चाप्यन्यो नमो ह्रदय्य इत्यथ ॥ ३६॥
नमः पाm+सव्यमन्त्रो नमोरजस्य इत्यथ ।
नमः शुष्क्याय च तथा हरित्यायापरो मनुः ॥ ३७॥
नमो लोप्याथ चेत्यन्यो नम उलप्य इत्यथ ।
नमो ऊर्व्याय चाप्यन्यो नम पर्याय चाप्यथ ॥ ३८॥
नमोऽपगुरमाणेति तथाभिघ्नत इत्यथ ।
नम आक्खितदते नमो वः किरिको मनुः ॥ ३९॥
नमो देवादिहृदयं नमो विक्षीणकं परम् ।
नमो विचिन्वत्केभ्यश्च नम आनिर्हते परम् ॥ ४०॥
नम आमीवन्मनुश्च प्रोच्चरेत्सिद्धविद्यकः ।
द्रापे अन्धस इत्यन्यो याते रुद्र शिवेत्यथ ॥ ४१॥
इमा रुद्राय विद्यान्या मृडानो रुद्रमन्त्रकः ।
मानो महान्तमित्यन्यो मानस्तोके मनुस्तथा ॥ ४२॥
आरात्ते गाघ्न इत्यन्योह्यस्मिन् इत्यपरो मनुः ।
नीलग्रीवा इति ह्यन्यो नीलग्रीवा इतीरिताः ॥ ४३॥
ये वृक्षेषु मन्त्रोऽन्यो ये भूतानामथापरः ।
ये अन्नेषु इत्यन्यो ये पथां पथि मन्त्रकः ॥ ४४॥
येतीर्थानि मन्त्रोऽन्यो य एतान्तश्च इत्यपि ।
नमोरुद्रेभ्य इत्यन्य तं वे जम्भेति च त्रिभिः ॥ ४५॥
एवं शतं ते मन्त्राः स्युः शतरुद्राः समीरिताः ।
अष्टपञ्चाशदधिकाः शतं मन्त्राः प्रकीर्तिताः ॥ ४६॥
येतेऽमृताख्या मन्त्राःस्युरमृतत्वप्रदायकाः ।
श्रीरुद्रायेदं न ममेत्युच्चार्यं ब्राह्मणोत्तमैः ॥ ४७॥
अष्ट पञ्चाशदधिकशतमन्त्रैः फलप्रदैः ।
हुत्वा पश्चाद्वसोर्धारामेकोनाहुतिमाचरेत् ॥ ४८॥
एवमेकादशावृत्त्या रुद्रैकादशिनी स्मृता ।
श्रद्धया नमकान्तस्थैर्मन्त्रैर्हुत्वाज्यमादरात् ॥ ४९॥
वसोर्धारां जपन्नन्ते कुर्वन्नेवाहुतिं बुधः ।
रुद्रैकादशिनीहोमं रुद्रावृत्त्या समाचरेत् ॥ ५०॥
महारुद्राङ्गहोमोऽयं सर्वाघौघविनाशनः ।
अतिरुद्रैस्तथा कुर्युः शतमेकादशोत्तरम् ॥ ५१॥
नमकेनानुवाकेन होमं कृत्वा विचक्षणः ।
चमकेनानुवाकेन होमं कुर्युस्ततो द्विजाः ॥ ५२॥
पुनः समग्रनमकं जप्त्वान्ते वह्निवल्लभाम् ।
एकामेकाहुतिं कुर्यात्समग्रनमकं ततः ॥ ५३॥
जप्त्वाऽन्ते वह्निदयितामुच्चार्यैकाहुतिं चरेत् ।
इति वारत्रयं कुर्यात्पूर्णाहुतिमतः परम् ॥ ५४॥
अतिरुद्राङ्ग होमोऽयं सर्वप्रत्यूहनाशनः ।
एतच्च द्विगुणं प्रोक्तं महारुद्रजपो(पा)हवम् ॥ ५५॥
एतद्दशगुणं कुर्वञ्जपहोमद्विजार्चनम् ।
कोटिरुद्रमिति प्रोक्तं शिवप्रीतिकरं मुने ॥ ५६॥
अश्वमेधसहस्रस्य फलं प्राप्नोति साधकः ।
पुत्रपौत्रानवाप्नोति विद्यायुःश्रीसमन्वितान् ॥ ५७॥
अणिमादिगुणैश्वर्यं दिव्यान् भोगांश्च दुर्लभान् ।
आसाद्य शिवसायुज्यमाप्नोत्यन्ते न संशयः ॥ ५८॥
यावद्विश्वम्भरा शैलद्वीपकाननसंयुता
अतिरुद्रे कृते तावत्कालं भूमण्डले द्विजाः ॥ ५९॥
विद्यायुःश्रीसमायुक्ता सन्ततिर्वसति ध्रुवम् ।
अतिरुद्रसमो धर्मो न भूतो न भविष्यति ॥ ६०॥
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
एतद्वः शतरुद्रीयमाहात्म्यं पापनाशनम् ॥ ६१॥
उदीरितं मया प्रीत्या किम्पुनः श्रोतुमिच्छथ ॥ ६२॥
(फलम्)
यस्मिन् ग्रामे पुरेवा द्विजकुलतिलक्रो भस्मरुद्राक्षधृक्सन्
श्रीरुद्रप्रजपादरोऽभिनिवसेत् तत्क्षेत्रवर्यं मम ।
क्रोशं तत्र मृतेऽपि कीटकनरो ग्राम्योऽपि चान्योऽपि वा
भूयादेकश्रुतीरितोऽयमगजे कल्पेत मुक्तिश्रियै ॥ ६३॥
किं जप्येनामृतत्वं भवति च जगति इत्युपक्रम्य वेदे
पृष्टो वर्णिगणैर्गणेन्द्रपददं प्राहारुणिर्मे परम् ।
पुण्यं मे शतरुद्रजापनविधिः प्रोद्धूलिताङ्गो मुदा
रुद्राक्षाभरणे त्रिपुण्ड्रललिते भालप्रभामण्डले ॥ ६४॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं रुद्रमन्त्रहोममुपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३१ । १-६४॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 31 . 1-64..
Notes:
Skanda स्कन्द details to Jaigīṣavya जैगीषव्य about the procedure to be followed for RudraMantraHomam रुद्रमन्त्रहोमम् through various combinations like Namakam नमकम् and Camakam चमकम्, Rudraikādaśinī रुद्रैकादशिनी, Śatarudrīyam शतरुद्रीयम्, AtiRudram अतिरुद्रम्, Koṭirudram कोटिरुद्रम् etc.. He concludes by highlighting the phalam फलम् of Śatarudrīya Japa शतरुद्रीय जप.
Proofread by Ruma Dewan