ऋषिगौतमप्रोक्तं उमामहेश्वराङ्गपूजावर्णनम्

ऋषिगौतमप्रोक्तं उमामहेश्वराङ्गपूजावर्णनम्

(शिवरहस्यान्तर्गते उग्राख्ये) गौतम उवाच ततोऽङ्गपूजा कर्तव्या शिवयोर्यत्नपूर्वकम् । मूलमन्त्रेण कर्तव्यं पूर्वोक्तमपि पूजनम् ॥ २४९॥ उक्तमन्त्रं समुच्चार्य यथापूर्वं यथाक्रमम् । शिवस्य मूलमन्त्रस्तु श्रीमत्पञ्चाक्षरःस्मृतः ॥ २५०॥ आवहन्तीति मन्त्रस्तु भवान्यः परिकीर्तितः । शिवाय नमः शिरः पूजयामि । कपर्दिने नमः कपर्दं पूजयामि । भाललोचनाय नमः भालं पूजयामि । सोमसूर्याग्निलोचनाय नमः नेत्राणि पूजयामि । वेदवक्त्राय नमः वक्त्रं पूजयामि । श्रुतिश्रोत्राय नमः श्रोत्राणि(त्रे) पूजयामि । घ्रातगन्धाय नमः घ्राणानि(णं) पूजयामि । स्मृतिदन्ताय नमः दन्तान् पूजयामि । श्रुतिजिह्वाय नमः जिह्वाः(म्) पूजयामि । वेदकपोलाय नमः कपोलानि(ले) पूजयामि । ज्ञानोष्ठाय नमः ओष्ठान्(ष्ठौ) पूजयामि । नीलकण्ठाय नमः कण्ठान्(ठम्) पूजयामि । भूरिवक्षसे नमः वक्षांसि(क्षः) पूजयामि । हिरण्यबाहवे नमः बाहून् पूजयामि । विश्वोदराय नमः उदराणि(रं) पूजयामि । विश्वपार्श्वाय नमः पार्श्वान्(श्वौ) पूजयामि । विश्वकटये नमः कटीन्(टिं) पूजयामि । विश्वोरवे नमः ऊरून्(रू) पूजयामि । विश्वजङ्घाय नमः जङ्घान्(ङ्घे) पूजयामि । विश्वपदे नमः पादान्(दौ) पूजयामि । विश्वनखाय नमः नखान् पूजयामि । सर्वात्मकाय नमः सर्वाङ्गं पूजयामि । शिवायै नमः शिरः पूजयामि । पृथुवेण्यै नमः वेणीं पूजयामि । सीमन्तविराजितायै नमः सीमन्तं पूजयामि । कुङ्कुमभालायै नमः भालं पूजयामि । सोमसूर्याग्निनेत्रायै नमः नेत्राणि पूजयामि । श्रुतिश्रोत्रायै नमः श्रोत्रे पूजयामि । गन्धप्रियायै नमः घ्राणं पूजयामि । सुभगकपोलायै नमः कपोले पूजयामि । कुड्मलदन्तायै नमः दन्तान् पूजयामि । विद्याजिह्वायै नमः जिह्वां पूजयामि । बिम्बोष्ठ्यै नमः ओष्ठौ पूजयामि । वृत्तकण्ठायै नमः कण्ठं पूजयामि । पृथुकुचायै नमः कुचौ पूजयामि । विश्वगर्भायै नमः उदरं पूजयामि । शुभकट्यै नमः कटिं पूजयामि । दिव्योरुदेशायै नमः ऊरू पूजयामि । सुजङ्घायै नमः जङ्घे पूजयामि । लक्ष्मीसेवितपादुकायै नमः पादौ पूजयामि । महेश्वरप्रियायै नमः नखान् पूजयामि । शोभनविग्रहायै नमः सर्वाङ्गं पूजयामि । अङ्गपूजां समाप्यैवं दोरकं च समर्पयेत् ॥ २५१॥ प्रत्येकं ग्रन्थिषु स्वच्छेष्वच्छेबिल्वदलादिभिः । प्रथमं ग्रन्थिमारभ्य नमः सोमेति मन्त्रतः ॥ २५२॥ यथाक्रमेण सम्पूज्य ततो धार्यं हि दोरकम् । तत्रोपचारः सर्वोऽपि तेन मन्त्रेण सादरम् ॥ २५३॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं उमामहेश्वराङ्गपूजावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। २०८-२४८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 208-248.. Notes: Having described about the UmāMaheshvara Dhyānam उमामहेश्वर ध्यानम् and UmāMaheshvara Pūjā उमामहेश्वर पूजा as part of the UmāMaheshvara Vrata उमामहेश्वर व्रत, Ṛṣi Gautama ऋषि गौतम further details about the UmāMaheshvara AṅgaPūjā उमामहेश्वर अङ्गपूजा with Mantra मन्त्र. In this Chapter 22, Ṛṣi Gautama ऋषि गौतम further elaborates about the remaining procedures for concluding the UmāMaheshvara Vrata उमामहेश्वर व्रत. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Umamaheshvarangapujavarnanam
% File name             : umAmaheshvarAngapUjAvarNanam.itx
% itxtitle              : umAmaheshvarANgapUjAvarNanam (shivarahasyAntargatam)
% engtitle              : umAmaheshvarAngapUjAvarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 208-248||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org