यमप्रोक्तं शिवनाममहिमोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
(चित्रगुप्त यम संवादे)
यम उवाच
यस्मिन्ननुग्रहः शम्भोस्तेनैव मरणक्षणे ।
शिवेत्युदीर्यते शब्दः साक्षान्मोक्षप्रदायकः ॥ २६९॥
येनैवोदीर्यते शब्दः शिवशब्दो मृतिक्षणे ।
तेनैव प्राप्यते मोक्षः स यतो मोक्षदायकः ॥ २७०॥
शिवशब्दं समुच्चार्य ब्रह्महापि विमुच्यते ।
सर्वाणि शिवनामानि मोक्षदान्येव सर्वथा ॥ २७१॥
तेष्वप्यत्युत्तमं नाम शिवेति ब्रह्मसंज्ञितम् ।
अघोरतरसंसारसागराप्लुतमप्लुतम् ॥ २७२॥
उद्धरत्यन्तकालोक्तं शिवनाम शिवात्मकम् ।
शिवनामसमं वस्तु न दृष्टं क्वापि न श्रुतम् ॥ २७३॥
रत्नरत्नमिदं नूनं नामरत्नमनुत्तमम् ।
नित्यं कण्ठे धृतो येन शिवनाममहामणिः ॥ २७४॥
स नीलकण्ठो भूत्वान्ते नीलकण्ठे विलीयते ।
ब्रह्मप्रकाशकं साक्षाच्छिव इत्यक्षरद्वयम् ॥ २७५॥
न तस्मादधिकं क्वापि नाम ब्रह्मप्रकाशकम् ।
प्रतिक्षणं शिवेत्येव नाम यो वक्तुमिच्छति ॥ २७६॥
तस्मै नमो नमो भूयो नमस्तस्मै नमो नमः ।
यः शृणोति शिवेत्येव नाम भक्तिपुरःसरम् ॥ २७७॥
तस्मै नमो नमो भूयो नमस्तस्मै नमो नमः ।
शिवेति नाम श्रुत्वैव यो हृष्टहृदयो भवेत् ॥ २७८॥
तस्मै नमो नमो भूयो नमस्तस्मै नमो नमः ।
शिवेति नामपीयूषं यः पिबत्यन्वहं मुदा ॥ २७९॥
तस्मै नमो नमो भूयो नमस्तस्मै नमो नमः ।
शिवनाम्नैव सततं व्यवहारं करोति यः ॥ २८०॥
तस्मै नमो नमो भूयो नमस्तस्मै नमो नमः ।
महाप्रलयकालाग्निर्यथा दहति पर्वतान् ॥ २८१॥
तथा दहति पापाद्रीन् शिवनामानलो ध्रुवम् ।
शिवनामविनाश्यानि पातकान्यमितान्यतः ॥ २८२॥
महाघनाशकं नाम नमिताघौघनाशकम् ।
अनन्तान्यपि पापानि शिवनाम्नि स्मृते परम् ॥ २८३॥
सद्यो विनाशयत्येव विचित्राण्यपि सत्वरम् ।
अन्तकाले शिवेत्युक्त्वा यस्तुप्राणान्विमुञ्चति ॥ २८४॥
स सर्वथात्र नानेयः स यतः शाङ्करो जनः ।
शाङ्करा नैव पश्यन्ति दुष्टं मम निकेतनम् ॥ २८५॥
अत एवात्र नानेयाः शाङ्कराः शङ्करप्रियाः ।
यस्याङ्गे शाङ्करं चिह्न स नानेयोऽत्र सर्वथा ॥ २८६॥
यतः स शङ्कराङ्काङ्कः शाङ्करः शङ्करप्रियः ।
शङ्कराङ्कानि वक्ष्यन्ते तानि शृण्वन्तु सादरम् ॥ २८७॥
यदङ्कश्रवणेनापि पापनाशो भविष्यति ।
रुद्राक्षधारणं शुद्धं केवलं भस्मधारणम् ॥ २८८॥
केवला शिवपूजा च शङ्कराङ्कमिति श्रुतिः ।
शिवनामानुसन्धानं रुद्राध्यायानुवर्तनम् ॥ २८९॥
उद्धूलनं च सर्वाङ्गे शङ्कराङ्कमिति श्रुतिः ।
सोमवारव्रते श्रद्धा तथा शिवकथाश्रुतौ ॥ २९०॥
शिवभक्तजनप्रीतिः शङ्कराङ्कमिति श्रुतिः ।
इमानि केवलान्येव शिवाङ्कानि तथा श्रुतिः ॥ २९१॥
इमान्यङ्कानि यस्याङ्के केवलानि स शाङ्करः ।
एतादृशाः शाङ्करास्तु नायान्ति मम मन्दिरम् ॥ २९२॥
शाङ्कराः शङ्कराङ्काङ्का निरातङ्का निरङ्कुशाः ।
भुवि विन्यस्तपर्यङ्काः प्रयान्त्येव हि शङ्करम् ॥ २९३॥
अद्य प्रभृति नानेयः शाङ्करोऽत्र कदाचन ।
यद्यत्रानीयते मोहात् युष्मान्हिंस्याम्यहं तदा ॥ २९४॥
शिक्षैवमेव क्रियते प्रत्यहं सादरं मया ।
तथापि भवतां बुद्धिरन्यथैव हि जायते ॥ २९५॥
॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं शिवनाममहिमोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। २६९-२९५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 269-295..
Notes:
Yama यम delivers Upadeśa उपदेश to Citragupta चित्रगुप्त about the merits of listening to and recitation of ŚivaNāma शिवनाम, especially at the time of one’s death. He mentions that while all of the ŚivaNāma शिवनाम can bestow Liberation, the DvyakṣaraNāma Śiva द्वयक्षरनाम शिव that is Parama Brahma परम ब्रह्म itself, is the most essential one.
Yama यम also instructs that the Śāṅkarā-s शाङ्कराः who are adorned with i.e. Śaṅkarāṅka शङ्कराङ्क should not be brought to his (Yama’s) abode.
Proofread by Ruma Dewan