पूर्वम्: १।२।४२
अनन्तरम्: १।२।४४
 
प्रथमावृत्तिः

सूत्रम्॥ प्रथमानिर्दिष्टं समास उपसर्जनम्॥ १।२।४३

पदच्छेदः॥ प्रथमा-निर्दिष्टम् १।१ समासे ७।१ ४४ उपसर्जनम् १।१ ४४

समासः॥

प्रथमया विभक्त्या निर्दिष्टं प्रथमानिर्दिष्टम्, तृतीयातत्पुरुषः।

अर्थः॥

समासे = समासविधायके सूत्रे प्रथमया विभक्त्या विर्दिष्टं यत् पदं तद् उपसर्जनसंज्ञकं भवति।

उदाहरणम्॥

कष्टश्रितः, शङ्कुलाखण्डः, यूपदारु, वृकभयम्, राजपुरुषः, अक्षशौण्डः॥
काशिका-वृत्तिः
प्रथमानिर्दिष्टं समास उपसर्जनम् १।२।४३

प्रथमया विभाक्त्या यन् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समासे इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः २।१।२३ इति। द्विदीयासमासे द्वितीया इत्येतत् प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् २।२।३० इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रथमानिर्दिष्टं समास उपसर्जनम् ९१२, १।२।४३

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥
न्यासः
प्रथमानिर्दिष्टं समास उपसर्जनम्। , १।२।४३

"समासे" इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि-- समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः "समासे" इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- "प्रथमया विभक्त्या यन्निर्दिश्यते" इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः "समासे" इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह-- "समासे" इति। "समासशास्त्रं गृह्रते इति। कथं पुनः "समासे" इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा-- प्रदीपार्था मल्लिका "प्रदीपः" इति, इन्द्रार्था स्थूणा "इन्द्रः" इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम्-- "उपसर्जनं पूर्वम्" २।२।३० इति पूर्वनिपातः। तत्रेदं चोद्यते-- राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्()शब्दः "षष्ठी" २।२।८ इति समासशास्त्रे प्रथमानिर्दिष्टः; "द्वितीया श्रितातीतपतित" २।१।२३ इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्यस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठ()न्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम्-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्()शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्()शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः-- इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते "वृन्दारकनागकुञ्जरैः पूज्यमानम्" २।१।६१, "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" २।१।५५, "अर्धं नपुंसकम्" २।२।२, "पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे" २।२।१ इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः। अन्यस्त्वेवं मन्यते-- "पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ "विशेषणं विशेष्येण बहुलम्" २।१।५६, "उपमानानि सामान्यवचनैः" २।१।५४ इत्येताभ्यामेव सिद्धौ; शेषौ तु "षष्ठी" २।२।८ इत्यनेनैव। तस्मात् "वृन्दारकनागकुञ्जरैः" २।१।६१ इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति" इति, एतच्चासम्यक्, तथा हि -- "पूज्यमानम्", "सामान्याप्रयोगे", "नपुंसकम्", "एकाधिकरणम्"-- इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥
बाल-मनोरमा
प्रथमानिर्दिष्टं समास उपसर्जनम् ६४५, १।२।४३

अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम्। ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति "सुपो धातु" इति प्रथमाया लुप्तत्वात्। समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात्। श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात्। अतो व्याचष्टे-समासशास्त्रै इति। समास पदं समासविधायकशास्त्रपरमिति भावः। एवंच "द्वितीया श्रिते"ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम्। एवंच "अव्यय"मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम्।

तत्त्व-बोधिनी
प्रथमानिर्दिष्टं समास उपसर्जनम् ५७२, १।२।४३

प्रथमानिर्दिष्टम्। अत्र समासपदं तद्विधायके लाक्षणिकम्। अन्यथा "चिकीर्षिते समासे यत्प्रथमान्त"मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि। विग्रह इति। अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः। नतु तस्येति। "अनन्तरस्य--"इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रित इत्यादौ न दोषः।