पूर्वम्: १।२।४८
अनन्तरम्: १।२।५०
 
प्रथमावृत्तिः

सूत्रम्॥ लुक् तद्धितलुकि॥ १।२।४९

पदच्छेदः॥ लुक् १।१ तद्धितलुकि ७।१ ५० स्त्री १।१ ४८ उपसर्जनस्य ६।१ ४८

समासः॥

तद्धितस्य लुक् तद्धितलुक्, तस्मिन् तद्धितलुकि, षष्ठीतत्पुरुषः।

अर्थः॥

तद्धितलुकि सति उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुक् भवति॥

उदाहरणम्॥

पञ्चेन्द्रः, दशेन्द्रः। पञ्चशष्कुलं, आमलकं, बकुलं, कुवलं, बदरम्॥
काशिका-वृत्तिः
लुक् तद्धितलुकि १।२।४९

स्त्रीग्रहणम् अनुवर्तते उपसर्जनस्य इति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकि इति किम्? गार्गीत्वम्। उपसर्जनस्य इत्येव। अवन्ती। कुन्ती। कुरूः।
न्यासः
लुक्तद्धितलुकि। , १।२।४९

अदर्शनं १।१।५९ लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽ‌ऽह-- "तद्धितलुकिसति" इति। "पञ्चेन्द्रः" इति। "तद्धितार्थ" २।१।५० इत्यादिना समासे कृते "साऽस्य देवता" ४।२।२३ इत्यण्, तस्य "द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्, "इन्द्रवरुण" ४।१।४९ इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। "पञ्चशष्कुलिः" इति। "अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायम्" ५।१।२८ इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। "आमलकम्" इति। आमलक्याः फलं विकार इति "नित्यं वृद्धशरादिभ्यः" ४।३।४४ इत्यञ्। पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली-- गौरादिपाठदेते ङीषन्ताः। "गार्गीकुलम्िति। गाग्र्यशब्दात् "यञश्च" ४।१।१६ इति ङीप्; "यस्येति च" ६।४।१४८ इत्यकारलोपः; "हलस्तद्धितस्य" ६।४।१५० इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ()आ लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्रप्रधानमुपसर्जनमित्यच्यते। "गार्गीत्वम्" इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्। "अवन्ती, कुन्ती कुरूः" इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री-- "वृद्धेत्कोशलाजादाञ्ञ्यङ" ४।१।१६९। कुरोरपत्यं स्त्री-- "कुरुनादिभ्यो ण्यः" ४।१।१७० इति ण्यः। "स्त्रियामवन्तिकुन्तिकुरुभ्यश्च" ४।१।१७४ इति लुक्। अवन्तिकुन्तुशब्दाभ्याम्, "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्। कुरुशब्दात् "ऊङुतः" ४।१।६६ इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति॥
बाल-मनोरमा
लुक्तद्धितलुकि १३८७, १।२।४९

लुक्तद्धितलुकि। प्रथमस्य द्वितीये इदं सूत्रम्। उपसर्जनस्त्रीप्रत्ययस्येति। "गोस्त्रियोरुपसर्जनस्ये"त्यतस्तदनुवृत्तेरिति भावः। श्रविष्ठ इति। ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः। "लुक्तद्धितलुकी"त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः। फल्गुन इति। फल्गुन्योर्जात इत्यर्थः।?णो लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः। इत्यादीति। अनुराधासु जातोऽनुराधः। नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः। एवमग्रेऽपि। "अनुराधान् हविषा वर्धयन्तः" इत्यादौ छान्दसं पुंस्त्वम्। स्वात्यां जातः-स्वातिः। तिष्ये जातस्तिष्यः। पुनर्वस्वोर्जातः--पुनर्वसुः। पस्ते जातो-हस्तः। विशाखयोर्जातो-विशाखः। अषाढासु जातोऽषाढः। बहुलासु जातो बहुलः।

चित्रेति। चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः। रेवती रोहिणीति। जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष्। ननु "रेवती नक्षत्रे" "रोहिणी नक्षत्रे" इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह--आभ्यामिति। रेवतीरोहिणीशब्दाभ्यामित्यर्थः। "परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये"ति शेषः। आकृतिगणत्वादिति। स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम्। स्त्रियामित्येवेति। तथा भाष्यादिति भावः। फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः

फल्गुनीति। फल्गुन्योर्जातेत्यर्थः। नक्षत्राऽणोऽपवादष्टप्रत्ययः। "यस्येति चे"ति ईकारलोपः। जातार्थस्त्रीत्वे टित्त्वान्ङीप्। अषाढेति। अषाढासु जातेत्यर्थः। नत्रत्राऽणोऽपवादोऽन्। "यस्येति च " इत्याकारलोपः। जातार्थे स्त्रीत्वे टाप्। "श्रविष्ठाफल्गुनी" त्यादिना टाऽनोर्लुक् तु न, विधानसामथ्र्यात्। छण्वक्तव्य इति। नक्षत्राऽणोऽपवादः। विधिसामथ्र्यादस्यापि न लुक्। अस्त्रियामपीति। अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः।

श्राविष्ठीय इति। श्रविष्ठासु जात इत्यर्थः। छण्। ईयः "यस्येति चे"त्याकारलोपः। णित्त्वादादिवृद्धिः। आषाढीय इति। अषाढासु जात इत्यर्थः।

तत्त्व-बोधिनी
लुक्तद्धितलुकि १०९०, १।२।४९

लुक्त। उपसर्जनेति। अप्रधानमिहोपसर्जनं गृह्रते , न शास्त्रीयम्, असंभवात्। ननु "गोस्त्रियो"रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्रताम् "एकविभक्ति चे"ति शास्त्रीयं न गृह्रताम्। मैवम्। हरीतक्याः फलानि हरीतक्य इत्यत्र ह्यस्वप्रसङ्गात्। उपसर्जनस्य किम्()। अवन्ती, कुन्ती, कुरूः।

श्रविष्ठाऽषाढाभ्यां छण्वक्तव्यः। श्रविष्ठास्विति। श्रविष्ठा=धनिष्ठाः। इत्यादीति। आदिशब्दादनूराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्यस्वनिर्देशः सूत्रे। उपशङ्ख्यानमिति। "लुक"इति शेषः। चित्रेति। "लुक्तद्धिते"ति लुकि पुनष्टाप्। टाऽनाविति। विधानसामथ्र्यादनयोर्न लुक्।