पूर्वम्: ४।२।१०८
अनन्तरम्: ४।२।११०
 
सूत्रम्
प्रस्थोत्तरपदपलद्यादिकोपधादण्॥ ४।२।१०९
काशिका-वृत्तिः
प्रस्थौत्तरपदपलद्यादिकौपधादण् ४।२।११०

प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। उदीच्यग्रामलक्षणस्य अञो ऽपवादः। माद्रीप्रस्थः। माहकीरस्थः। पलद्यादिभ्यः पालदः। पारिषदः। ककारोपधात् नैलीनकः। चैयातकः। पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः। यथा गौष्ठी, नैतकी इति। गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचाम् ४।२।१२२ इति वुञो ऽपवादः। वाहीकशब्दः कोपधो ऽपि पुनः पठ्यते परं छं ४।२।११३ बाधितुम्। अण्ग्रहणं बाधकबाधनार्थम्। पलदी। परिषत्। यकृल्लोमन्। रोमक। कालकूट। पटच्चर। वाहीक। कलकीट। मलकीट। कमलकीट। कमलभिदा। गोष्ठी। कमलकीर। बाहुकीत। नैतकी। परिखा। शूरसेन। गोमती। उदयान। पलद्यादिः।
न्यासः
प्रस्थोत्तरपदलद्यादिकोपधादण्। , ४।२।१०९

"उदीच्यग्रामलक्षणस्याञोऽपवादः" इति। प्रस्थोत्तरपदादीनामुदीच्यग्रानत्वात्। "माद्रीप्रस्थः, माहकीप्रस्थः" इति। अत्र प्रकृतिः समासस्वरेणान्तोदात्ता। अथोत्तरपदग्रहणं किमर्थम्, न प्रस्थान्तादित्येवोच्येत? नैवं शक्यम्; तदिहापि प्रसज्येत--उत्तमकर्णीप्रस्थः। तत्राप्युत्तरपदग्रहणान्न भवति। न ह्रत्र प्रस्थशब्द उत्तरपदम्, किं तर्हि? कर्णीप्रस्थशब्दः। "ततष्ठञ्ञिठयोरपवादः"इति "वाहीकग्रामेभ्यश्च" ४।२।११६ इति प्राप्तयोः। अथ वाहीकशब्दः किमर्तमिह पठ()ते, यावता कोपधत्वादेवाण् सिद्धः? अत्राह-- "वाहीकशब्दः" इत्यादि। यदि वाहीकशब्द इह न पठ()ते, परत्वात् "वृद्धाच्छः" ४।२।११३ इति च्छः स्यात्। कोपधस्य तु निलीक इत्यत्रावृद्धमवकाशः। तस्मात्परमपि च्छं बाधित्वाऽण् यथा स्यादिति कोपधोऽपि वाहीकशब्दः पठ()ते। अथाण्ग्रहणं किमर्थम्, न यावता यथाविहितमेवोच्येत?न; पुनर्विधानादणेव भवतीति विज्ञायते। अपवादस्य विधाने पुनर्विधानमनर्थकमित्याह--"अजग्रहमम्" इत्यादि। यदत्र वृद्धं वाहीकग्रामः,तस्मात् "प्राग्दीव्यतोऽण्" ४।१।८३ इत्यतोऽणि प्राप्ते " वृद्धाच्छः" ४।२।११३ प्राप्नोति, तस्मिन् "वाहीकग्रहामेभ्यश्च" ४।२।११६ इति ठञ्ञिठौ, तौ परत्वात् बाधित्वा यद्यत्राण्ग्रहणं न क्रियेत तदा पुनर्विधानाच्छ एव स्यात्। अण्ग्रहणादेव भवति-- गोष्ठ()आं भवं "गौषठ()म्" इति। तस्मात् बाधकमपि बाधित्वाऽणेव यथा स्यादित्येवमर्थमण्ग्रहणम्। कोपधग्रहणमिहाजनपदार्थम्। जनपदतदवधि"४।२।१२३ "कोपधादण्" ४।२।१३१ इत्यनेन सिद्धः। यकृल्लोमशब्दः पलद्यादिषु पठ()ते, तस्य नलोप निपात्यते,अन्यथा "अन्" ६।४।१६७ इति प्रकृतिभावे सति यकृल्लोम्नि भवः याकृल्लोम इति न सिध्येत्॥
बाल-मनोरमा
प्रस्थोत्तरपदपलद्यादिकोपधादण् १३१२, ४।२।१०९

प्रस्थोत्तरपद। प्रस्थोत्तरपदात्पलद्यादिभ्यः कोपधाच्च अणित्यर्थः। पलदिः-आदिर्येषामिति विग्रहः। उदीच्यग्रामलक्षणस्य अणोऽपवादः। माहिकिप्रस्थ इति। महिकिप्रस्थनाम्नि ग्रामे भव इत्यर्थः। पालद इति। पलदिनाम्नि ग्रामे भव इत्यर्थः। नैलीनक इति। निलीनकनाम्नि ग्रामे भव इत्यर्थः।

तत्त्व-बोधिनी
प्रस्थोत्तरपदपलद्यादिकोपधादण् १०५१, ४।२।१०९

प्रस्थोत्तर। उदीच्यमग्रामलक्षणस्याऽञोऽपवादः। पालद इति। "पलदी"ति ईकारान्त इत्येके। नान्त इत्यन्ये। नलोपे सति यणादेशात्संहिता तुल्यैव। वाहीकशब्दः कोपधोऽपि पलद्यादिषु पठ()ते परं छं बाधितुम्। अन्यथा अणं बाधित्वापरत्वाच्छ एव स्यात्, कोपधप्रयुक्तोषऽण् अवृद्धे सावकाश इति। यकृल्लोम नि भवो याकृल्लमः। " अन्िति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः।