इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवति इत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् पुंवत्कर्मधारयः इति पुंवद्भावो भवति। अन्तोदात्तत्वम् पटुपटुः। पटुपत्वी। समासान्तोदात्तत्वम् अनेन एव विधीयते इति परत्वदाम्रेडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यतुत्तरेषु इति वचनं तद्विस्पष्टार्थम्।
कर्मधारयवत्? कार्यं भवतीत्यनेन कार्यातदेशोऽयमित्याचष्टे। कार्यातिदेशस्य फलमुत्तरत्र दर्शयिष्यते। "कर्मधारयवत्त्वे प्रयोजनम्()" इत्यादि। तत्र सुग्लुग्बहुव्रीहिवद्भावे, अस्मिन्नतिदेशे च साधारणं प्रयोजनम्()।
पुंवद्भा वस्तु क्वचित्? साधारणम्(), क्वचिदसाधारणम्(); यत्र हि पुंवद्भावस्य प्रविषेधो नास्ति--पटुपट्वीत्यादौ, तत्र साधारणम्(), यत्र तु " न कोपधायाः"
६।३।३६ इत्यादिना पुंवद्भावप्रतिषेधोऽस्ति--कालककालिकेत्यादौ, तत्रा साधारणम्()। तथा हि यस्य हि पुंवद्भावः प्रतिविद्धस्तस्यापि "पुंवत्कर्मधारय"
६।३।४१ इत्यादिना कर्मधारये पुंवद्भावो विधीयते। अन्तोदात्तत्वं त्वसाधारणमेव।
यस्मात्? कर्मधारय एव "समासस्य"
६।१।२१७ इत्यन्तोदात्तत्वं विधीयते, न बहुव्रीहौ; तत्र "बहुव्रीहौ प्रकृत्या पूर्वपदम्()"
६।२।१ इति पूर्वपदप्रकृतस्वरस्य समासान्तोदात्तस्यापवादस्य विधीनात्()। तत्र यदसाधारणं प्रयोजनं तदिममतिदेशं प्रयोजयति, नेतरत्()। तद्धि बहुव्रीहिवदित्यतिदेशस्यानुवृत्तावपि सिद्ध्यत्येव। सति त्वन्यार्थोऽस्यारम्भे बहुव्रीहिवदित्यतिदेशस्यानुवृत्तिरपार्थिका; अनेनैव साधारणस्यापि सिद्धत्वात्()। अतः सुब्लुगादिकमपि साधारणं कर्मधारयवत्त्वे प्रयोजनं न भवति। "पटुपट्वी" इति। "वोतो गुणवचनात्()"
४।१।४४ इति ङीष्()। स च पूर्वपदे पुंवद्भादेन निवत्र्तते। "कालककालिका" इति।
अज्ञाताद्यर्थे "प्रागिवात्? कः"
५।३।७०, टाप्(), "केऽणः"
७।४।१३ इति ह्यस्वः, पूर्ववदित्त्वम्()। पुंवद्भावेन पूर्वपदे टाबित्त्वयोर्निवृत्तिः। कथं पुनरत्र पुंवद्भावः, यावता "न कोपधायाः" (६।३।
३७) इत्यस्य प्रतिषेधः कृतः? इत्याह--"कोपधायाः" ["न कोपधायाः" इत्यादि--प्रा। मु। पाठ] इत्यादि। कर्मधारये हि "पुंवत्कर्मधारय"
६।३।४१ इत्यादिनां योगेन प्रतिषेधविषयेण पुंवद्भावो विहितः तेन कोपधाया अपि पुंवद्भावो भवत्येव।
ननु चाभ्रेडितानुदात्तत्वमाष्टिकिमम्(), समासान्तोदात्तत्वं च षाष्ठिकम्(), अतः परत्वादाभ्रेडितानुदात्तत्वेनैव भवितव्यम्(); न चैवं सति कर्मधारयदित्यतिदेशस्य वैयथ्र्यं स्यात्(),
तस्य प्रयोजनान्तरे चरितार्थत्वात्()? इत्यत आह--"समासान्तोदात्तत्वमनेन" इत्यादि।
शल्त्रातिदेशे हि शस्त्रेध्वतिदिष्टेषु तैरेव स्वदेशस्थैः कार्याणि क्रियन्त इत्याभ्रेडितानुदात्तस्य समासान्तोदात्तत्वात्? परत्वं स्यात्()। न चायं शास्त्रातिदेशः,
किं तर्हि? कार्यातदेशः। कार्यातिदेशे सत्यतिदेशशास्त्रेणैव विधियते। तस्मादन्तोदत्तत्वेमेव परम्()।
अतस्तस्मात्? परत्वादाभ्रेडितानुदात्तत्वं बाधते।
ननु चान्तरेणाप्युत्तरग्रहणं यथा "प्रत्ययः"
३।१।१ इत्येवमादीनामधिकाराणामुत्तरत्रावस्थानं भवति, तथाऽस्यापि भविष्यति; अधिकाराणामुत्तरत्रानुधृत्तिदर्शनात्(),
तत्किकमर्थम्? "उत्तरेषु" इति वचनम्()? इत्याह--"अधिकारेणैव" इत्यादि। अधिकाराणां क्वचिल्लक्षणत्वस्य व्यवहारः, यथा "शेषे"
४।२।९१ इत्यधिकारस्य लक्षणत्वमस्ति, तच्चाविस्पष्टम्(); अन्येष्वधिकारेषु "प्रत्ययः"
३।१।१ इत्येवमादिष्वदृष्टत्वात्()। तस्मादस्य विस्पष्टत्वं यथा स्यादित्येवमर्थमुत्तरेष्विति वचनम्()। एतद्धि लक्षणत्वमस्य मा भूदित्येवमर्थं क्रियते। यदि तु लक्षणस्याधिकारेष्वसम्भवः स्यात्(), उत्तरेष्विति वचनमनर्थकं स्यात्(); व्यार्त्त्याभावात्()। अथ वा--सिंहावलोकितव्यायस्येत्यव्याहारः। प्रायेण ह्रणिकारणमुत्तरत्रानुवृत्तिर्दुष्टेति सिहावलोकितन्यायस्याविस्पष्टता;
केषुचित्? प्रत्ययादिष्वदृष्टत्वात्()।
तस्मात्? तस्य विस्पष्टीकरणार्थमुत्तरेष्विति वचनम्()। यदि सिंहावलोकितन्यायेन पूर्वत्रानुवृत्तेरधिकारणां न सम्भव एव स्यात्(), उत्तरेष्विति वचनमनर्थकं स्यात्(); व्यावर्त्त्याभावात्()॥