पूर्वम्: २।४।८५
अनन्तरम्: ३।१।२
 
प्रथमावृत्तिः

सूत्रम्॥ प्रत्ययः॥ ३।१।१

पदच्छेदः॥ प्रत्ययः १।१ ५।४।१६०

अर्थः॥

इतः अग्रे आपञ्चमाध्यायपरिसमाप्तेः ५।४।१६० इति यावत् {प्रत्ययः} इति संज्ञात्वेन अधिक्रियते

उदाहरणम्॥

कर्त्तव्यम्, करणीयम्
काशिका-वृत्तिः
प्रत्ययः ३।१।१

अधिकारो ऽयम्। प्रत्ययशब्दः संज्ञात्वेन अधिक्रियते। आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वम् अनुक्रमिष्यमः, प्रत्ययसंज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान् वर्जयित्वा। वक्ष्यति तव्यत्तव्यानीयरः ३।१।९६। कर्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणम् १।१।६१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्रत्ययः १२०, ३।१।१

न्यासः
प्रत्ययः। , ३।१।१

"प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते" इति। शास्त्रस्य लाघवार्थम्। यदि सन्प्रत्ययः, क्यच्प्रत्ययः, क्यङप्रत्ययः इत्येवमेकैकं संज्ञिनमुपादायानकेषां भिन्नवाक्यैः प्रत्ययसंज्ञा विधीयेत् तदा शास्त्रसय् गौरवं स्यात्; संज्ञिनां बहुत्वात्। न हि तेषां तथाविधं सायान्यमभिन्नमस्ति यदुपादायैकेन वाक्येनानेकेषां संज्ञा कविधीयेत् यथा--- "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" १।१।७२ इति। ननु चेदमस्ति समान्यं सविति, एवञ्च सूत्रं करिष्यते-- "सप्()प्रत्ययः" इति, सविति प्रत्याहारग्रहणं च सनः सकारादारभ्य कपः पकारेण? नैतदस्ति; अन्येऽपि बहवः पकाराः सन्ति-- "सिब्बहुलं लेटि" ३।१।३४, "वदः सुपि क्यप् च" ३।१।१०६ इत्येवमादयः तत्र यदि प्रत्यासत्तिमाश्रित्यानन्तरः पकारः प्रत्याहारार्थ गृह्रते,तदा सिपः पकारेमैव प्रत्याहारग्रहणं विज्ञायेत। अथ व्याप्तिर्गृह्रते? तदा "तप्तनप्तनाथनाश्च" ७।१।४५ इति तनपः पकारेणैव स्यात्। स्यादेतत्-- व्याप्तेरेव न्याय आश्रयितव्यः। न च तनपः पकारेण प्रत्याहारगर्हणं भविष्यति, अपि तु कप एव, "इच एकाचोऽम्प्रत्ययवच्च" ६।३।६७ इति वचनाज्ज्ञापकात्; अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादपार्थकमिदं स्यात्? नैतदस्ति; असति हि प्रयोजने ज्ञापकं भवति, अस्ति ह्रस्य प्रयोजनम्, किं तत्? अम्प्रत्ययप्रतिबद्धं विशिष्टमेव यथा स्यात्। प्रत्ययमात्रप्रतिबद्धं मा भूदिति नियमार्थमेतत् स्यात्, तत्कुतो वैयथ्र्यम्। अथापि कथञ्चित् कपः पकारेणैव प्रत्याहारो लभ्येत, एवमपि प्रतिपत्तिगौरवं स्यात्। अतो लाघवार्थमधिकारेणैवेयं संज्ञा विधातुं युक्तेति मत्वाऽ‌ऽह-- "प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते" इति। यद्येवम्, प्रतियोगं तेनोपस्थातव्यम्, तत्रासावुपस्थितः सन्नादिभिरेव सम्बध्यते, न प्रकृत्यादिभिरिति नियमहेतुर्नास्ति। अतः प्रकृत्युपपदोपाधिविकारागमानामप्येषा संज्ञा स्यात्। तत्र प्रकृतिः-- "गुप्तिज्किद्भ्यः सन्" ३।१।५, उपपदम्-- "स्तम्बकर्णयो रमिजपोः" ३।२।१३, उपाधिः-- "हरतेर्दतिनाथयोः पशौ" ३।२।२५। यद्यपि प()आर्थस्य संज्ञायाः प्रयोजनं नास्ति, तथापि तद्वाचिनोऽस्तीति तस्य स्यादेव। विकारः-- "हनस्त च" ३।१।१०८, आगमः--"त्रपुजतुनोः षुक्" ४।३।१३६। प्रत्ययसंज्ञायाञ्चैषां परत्वमाद्युदात्तत्वञ्च स्यात्। यद्यपि युगपदगुपादीनां परस्परापेक्षया सनादीनाञ्च परत्वं न सम्भवति, तथापि पर्यायेण स्यात्--- कदाचित् गुपादयः परे स्युः, कदाचित् सन्नादयः, अन्यतो वा कुतश्चिद्गुपादयः परे भवेयुरित्यत आह-- "प्रकृत्युपपद" इत्यादि। एतच्च न्यायप्राप्तमेवोक्तम्। कथम्? प्रकृत्युपपदोपाधयस्तावत् परकार्यसिद्धये भूतविभक्त्या पञ्चम्यादिकया निर्दिश्यन्त इति तेषां पञ्चम्यादिविभक्त्यन्तं शब्दरूपं संज्ञासंज्ञिसम्बन्धं प्रतिपत्तुमयोग्यम्। तथा हि-- प्रथमान्तसय् वा सामानाधिकरण्येन संज्ञासंज्ञिसम्बन्धो भवति यत्र बुद्ध्याहितसंज्ञारूपः सोऽयमित्यभेदसम्बन्धमुपगतः संज्ञी संज्ञया सह निर्दिश्यते, यथा-- "वृद्धिरादैच्" १।१।१ इति; षष्ठ()न्तस्य वा यत्र संज्ञासंज्ञिनोर्भेदविवक्षायां संज्ञाशब्देन स्वरूपपदात्मकेनोपादीयमानेनोपजनितव्यतिरेकः षष्ठ()आ संज्ञी निर्दिश्यते, यथा-- "स्वं रूपं शब्दस्याशब्दसंज्ञा" १।१।६७ इति। प्रकृत्यादयस्तु परोपकारयोग्यं विभक्तिविशेषमुपादाय वत्र्तन्त इत्यशक्य एषां संज्ञासम्बन्धः कर्त्तुम्। न च संज्ञासंज्ञिसम्बन्धयोग्यविभक्त्यध्याहारे सत्येषां संज्ञा भविष्यतीति युक्तं परिकल्पियितुम्। असति हि वचनस्यावकाशेऽध्याहारो युक्तः, न तु सति। अस्ति चावकाशः सन्नादिः। अप्राधान्याच्च प्रकृत्यादीनामयुक्ता संज्ञा। प्रधाने ह#इ कार्यसम्प्रत्ययो लोके दृष्टः, यथा-- बहुषु गच्छत्सु कश्चित् पृच्छति कोऽयं याति? स आह-- राजेति। तत्र यः पृच्छति, यश्चाचष्टे-- तयोरुभयोरपि प्रधाने राजनि सम्प्रत्यययो भवति। तस्मादिहापि प्रधाने सन्नादौ कार्यसम्प्रत्ययात् तस्यैव संज्ञा भविष्यति। प्राधान्यं पुनस्तस्यापूर्वस्य विधानात्। प्रकृत्यादीनां धात्वदिपाठे निज्र्ञातस्वरूपाणां सन्नाद्यर्थोपादानादप्राधान्यम्, तत् कुतस्तेषां संज्ञा? आगमविकारयोर्यद्यपि संज्ञासंज्ञिसम्बन्धयोग्यतया प्रथमया निर्देशः, विधेयत्वाच्च प्राधान्यम्, तथापि न भवति संज्ञा;यस्मात्प्रत्यय इति महती संज्ञा क्रियते। तस्या एतत्प्रयोजनमन्वर्थसंज्ञा यथा स्यात्--- प्रतियनत्यनेनार्थानिति प्रत्ययः। न च विकारागमाभ्यां कञ्चनार्थं प्रतियन्ति। यदि तह्र्रन्वर्थसंज्ञेयम्, "अवेः कः" ५।४।२८ "यावादिभ्यः कन्" ५।४।२९ इत्येवमादीनां प्रत्ययसंज्ञा न प्राप्नोति; अर्थाभावात्। द्विवधो ह्रर्थः--लौकिकः, शास्त्रीयश्च; तत्र पूर्वः पदेनैव प्रतीयते, द्वितीयस्त्वन्वयव्यतिरेकाभ्याम्; स च तेषां नास्ति, विना प्रत्ययैः प्रकृतेरेव तदर्थस्य प्रतीतेः? नैष दोषः; यद्यपि तेषामन्वयव्यतिरेकाभ्यामर्थो न समधिगम्यते, तथापि "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (पु।प।९०) इत्यस्मादेवाप्तवचनात् समधिगम्यते। तस्मात् तैरपि स्वार्थं प्रतियन्तीति तेऽपि प्रत्यया इत्लमतिप्रसङ्गेनेति स्थितमेतत्-- प्रकृत्यादीनां प्रत्ययसंज्ञा न भवतीति। "कत्र्तव्यम्, करणीयम्" इति। तव्यदादेः प्रत्ययसंज्ञायां "यस्मात्प्रत्ययविधिः" १।४।१३ इति तस्मिन् परतोऽङ्गसंज्ञा भवति। अथ कथं तदनन्तरं सन्नादिमतिक्रम्य व्यवहित एव तव्यदादिरुदाह्मतः? तत्राद्युदात्तादेरपि प्रत्ययसंज्ञाकार्यस्य सम्भवात्। सन्नादौ तु तन्न सम्भवति; धातुस्वरेणैव बाधितत्वात्॥
बाल-मनोरमा
प्रत्ययः १७९, ३।१।१

प्रत्ययः। तृतीयाध्यायस्यादिमं सूत्रमिदम्। इत ऊध्र्वमा पञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः। "हनश्च वधः", "ई च खनः", "नडादीनां कुक्चे"त्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात्।

तत्त्व-बोधिनी
प्रत्ययः १४९, ३।१।१

अधिकारोऽयमिति। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः।