पूर्वम्: ८।१।११
अनन्तरम्: ८।१।१३
 
सूत्रम्
प्रकारे गुणवचनस्य॥ ८।१।१२
काशिका-वृत्तिः
प्रकारे गुणवचनस्य ८।१।१२

प्रकारो भेदः सादृश्यं च। तदिह सादृश्यं प्रकारो गृह्यते। प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः। पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। अपरिपूर्णगुणः इत्यर्थः। परिपूर्णगुणेन न्यूनगुणस्य उपमाने सत्येवं प्रयुज्यते। जातीयरो ऽनेन द्विर्वचनेन बाधनं नेष्यते। पटुजातीयः, मृदुजातीयः इत्यपि हि भवति। तत् कथम्? वक्ष्यमाणम् अन्यतरस्यांग्रहणम् उभयोः शेषो विजायते। प्रकारे इति किम्? पटुर्देवदत्तः। मुणवचनस्य इति किम्? अग्निर् माणवकः। गौर्वाहीकः। यद्यप्यत्र अग्निशब्दो गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुनविशेषम् एव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवति इति न द्विरुच्यते। आनुपूर्व्ये द्वे भवत इति वक्तव्यम्। मूले मूले स्थूलाः। अग्रे ऽग्रे सूक्ष्माः। ज्येष्ठं ज्येष्ठं प्रवेशय। स्वार्थे ऽवधार्यमाणे ऽनेकस्मिन् द्वे भवत इति वक्तव्यम्। अस्मात् कार्षापणादिह भवद्भ्याम् माषं माषं देहि। स्वार्थे एतद् द्विर्वचनम्, न वीप्सायाम्। अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः, तेन वीप्सा न विद्यते। अवधार्यमाणे इति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि। अनेकस्मिनिति किम्? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि। चापले द्वे भवत इति वक्तव्यम्। सम्भ्रमेण प्रवृत्तिश्चापलम्। अहिरहिः, वुध्यस्व बुध्यस्व। नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि, यावद्भिः शब्दैः सो ऽथो ऽवगम्यते तावन्तः प्रयोक्तव्याः। अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व इति। क्रियासमभिहारे द्वे भवत इति वक्तव्यम्। स भवान् लुनीहि लुनीहि इत्येव अयं लुनाति। आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। नित्य इत्येव सिद्ध इति तत्र उक्तम्। डाचि द्वे भवत इति वक्तव्यम्। पटपटाकरोति। पटपटायते। अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनम् इष्यते। इह न भवति, द्वितीयाकरोति, तृतीयाकरोति। तदर्थं केचित् डाचि बहुलम् इति पठन्ति। पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम्। पूर्वं पूर्वं पुष्प्यन्ति। प्रथमं प्रथमं पच्यन्ते। आतिशयिको ऽपि दृश्यते, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते इति। डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भवे द्वे भवत इति वक्तव्यम्। उभाविमावाढ्यौ। कतरा कतरा अनयोराढ्यता। सर्व इमे आढ्याः। कतमा कतमा एषाम् आढ्यता। डतरडतमाभ्यामन्यत्र अपि हि दृश्यते। उभाविमाउ आढ्यौ। कीदृशी कीदृशि अनयोराढ्यता। तथा स्त्रीनिगदाद्भावातन्यत्र अपि हि दृश्यते, उभाविमावाढ्यौ, कतरः कतरो ऽन्योर्विभवः इति। कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम्। यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य अन्यमन्यमिमे ब्राह्मणा भोजयन्ति, अन्योन्यमिमे ब्राह्मणा भोजयन्ति। अन्योन्यस्य ब्राह्मणा भोजयन्ति। इतरेतरं भोजयन्ति। इतरेतरस्य भोजयन्ति। स्त्रीनपुंसकयोरुत्तरपदस्य च अम्भावो वक्तव्यः। अन्यो ऽन्यामिमे ब्राह्मण्यौ भोजयतः। अन्योन्यं भोजयतः। इतरेतरां भोजयतः। इतरेतरं भोजयतः। अन्योन्यामिमे ब्राह्मणकुले भोजयतः। इतरामिमे ब्राह्मणकुले भोजयतः। इतरेतरमिमे ब्राह्मणकुले भोजयतः।
न्यासः
प्रकारे गुणवचनस्य। , ८।१।१२

"प्रकारो भेदः। सादृश्यं च" इति। उभयन्नापि प्रकारशब्दस्य प्रयोगदर्शनात्()। तत्र भेदे प्रयोगो दृश्यते--बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैः, विशेवैर्भुङक्त इत्यर्थः। सादृश्येऽपि--बाहृणप्रकारोऽयं माणवकः। ब्राआहृणसदृश इत्यर्थः। "तदिह सादृश्यं प्रकारो गृह्रते" इति। कुत एतत्()? लक्ष्यानुरोधात्()। न हि कृतद्विर्वचनात्? गुणवचनात्? पदादिह भेदो गम्यते, किं तर्हि? सादृश्यम्()। अत्र च शब्दशक्तिस्वाभाव्यं हेतुः। "प्रकारे वत्र्तमानस्य" इति द्विर्ववचनप्रतिपत्तिद्वारेण तद्द्योतनात्? तत्र तस्य वृत्तिर्विज्ञेया। "परिपूर्णगुण" इत्यादि। एतेनोदाहरणे गुणवचनत्य सादृदये वृत्ति दर्शयति। उपमानं हि सादृश्यम्()। परिपूर्णः=सकलः पाटवादिर्गुणो यस्य स तथोक्तः। स एव न्यूनः=असकलोऽपरिसमाप्तो यस्य स न तथोक्तः। जातीयरपि प्रकारवचन एव विधीयत इति नाप्रप्ते तस्मिन्निदामारभ्यत इति तद्बाधनं प्राप्नोति? इति यश्चोदयेत्(), तं प्रत्याह--"जातीयरोऽनेन बाधनं नेष्यते" इति। कथं पुनरिष्यमाणमपि बाधनं न भवितव्यति? वक्ष्यमाणस्यान्यतरस्यांग्रहणस्योभयोरपि योगयोः शेषभूतत्वात्()। किं पुनः कारणं बाधनं नेष्यते? इत्याह--"पटुजातीयो मृदुजातीय इत्यपि [इत्यादि भवतीति"--प्रांउ।पाठः] हि भवति" इति। यस्तु "पटुपटुजातीयो मृदुमृदुजातीयः" इति प्रायेण पुस्तकेषु पाठः स प्रमादकृतः। कुतः? एकस्य कार्यिणोऽनेकेषां कार्याणां प्राप्तौ बाध्यबाधकभावो भवति। इह तु पटुदटुमृदुमृदुशब्दाभ्यामेव प्रकारस्य द्योतितत्वात्? तयोः पुनर्द्विर्वचनं न प्रप्नोति, नापि जातीयर्(); तस्मादपपाठोऽयम्()। "अग्निर्माणवकः, गौर्वाहिकः" इति। अग्निशब्दो गोशब्दश्चान्नाप्रकारे वत्र्तते। तथा ह्रग्निना माणवकस्य सूदृश्यं गम्यते, गवा च चाहीकस्य। न हि तौ गुणवचनौ, किं तर्हि? द्रव्यवचनौ; माणवकवाहीकयोद्र्रव्यत्वात्()। ननु चमावपि मणवचनावेव, तथा हि--यज्जातयस्तैरुण्यादिर्गुणो यह्नो दृष्टस्तज्जातीयमेव गुणविशेषमुपादाय सोऽयमित्यभेदोपचारेण सम्बन्धेनोपमानोपमेयभावेन वाऽग्निशब्दोऽयं माणयके वत्र्तते; तमेव गुणविशेषं प्रतपादयितुं प्रवृत्तत्वात्()। एवं गोशब्दोऽपि यज्जातीयो जाड()आदिर्गुणः सास्नादिमति दृष्टः, तज्जातीयमेद गुणविशेषमुपादाय पूर्वोक्तयोः सम्बन्धयोरन्यतरेण सम्बन्धेन वाहोके वत्र्तते, तस्यैव गुणविशेषस्य प्रतिपादनाय। तस्माद्गुणविशेषे प्रतिपादयितुं प्रवृत्ताविमावपि गुणवचनावेव, इत्याह--"यद्यप्यत्र" इत्यादि। यतः शब्दात्? श्रुतिमात्रेण योऽर्थः प्रतियते स तस्य मुख्योऽनपचरितोऽर्थः। स्त्वभेदोपचारादिना निमित्तन कथञ्चिद्यत्वेन प्रतीयते, स गौण इति। उपचरित इत्यर्थः। अग्निशब्दात्? श्रुतिमात्रेण पावकः प्रतीयते, गोशब्दाच्च सास्नादिमान्()। अतोऽग्निशब्दस्य पावको मुख्यार्थः, गोशब्दस्यापि वाहिकः। मुख्येनार्थेन यावकादिना गौणस्य माणवकादेः सम्बन्धः। पूर्वोक्तयोः सम्बन्धयोरन्यतरो मुख्यार्थसम्बन्धः। तेन हेतुना करणेन वाऽवधतो निश्चितो भेदो विशेषो यस्य तैक्ष्ण्यजाड()आदेर्गुणस्य स तथोक्तः। कथं पुनस्तेन सम्बन्धेन तस्य निश्चयो भवति? तत्प्रतीनी तत्प्रततेः। स हि गुणविशेषस्तस्य सम्बन्धस्य हेतुः; तस्मिन्? सति तत्सद्भावात्()। अतः सम्बन्धो द्विप्रकारोऽपि प्रतीतः सन्? तत्प्रतीतिंजिनयति; धूम इवाग्नौ। तमेवंविधं गुणविशेषमेव यद्यपि मुख्यादर्थादन्यस्मिन्? गौणेऽर्थे गोशब्दोऽग्निशब्दश्च प्रतिपादयितुं प्रवृत्तः, तथापि सर्वकालं गुणवचनो न भवतीति न तद्()द्विरुच्यते, तथा हि--यदासावमुख्येऽर्थे साधम्र्येण माणवके वाहीके च प्रयुज्यते, तदा गुणवचनो न भवतीति न तद्()द्विरुच्यते, तथा हि--यदासावमुख्येऽर्थे साधम्र्येण माणवके बाहीके च प्रयुज्यते, तदा गुणवचनो भवति। यदा च वह्नौ सास्नादिमति च, तदा जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वत्र्तते गोशब्दोऽपि गोत्वे, तदा जातिवचनौ भवतः। यदा तु जातिवचनो द्रव्यवचनो वा। तत्र यदाऽग्निशब्दोऽग्नित्वे वत्र्तते गोशब्दोऽपि गोत्वं, तदा जातिवचनौ भवतः। यदा तु जात्युपलक्षिते जतिमति द्रव्ये तदा द्रव्यवचनौ। तस्मात्? सर्वकालमगुणवचनत्वान्न भवति तयोर्द्विर्वचनम्()। एतच्च गणवचग्रहणाल्लभ्यते। प्रकारे हि वत्र्तमानः शब्दः सर्व एव गुणवचनः सम्पद्यते, उच्यते चेदं वचनम्? गुणवचनस्येति, तत्र सर्वप्रकर्षावगतिर्विज्ञायते--साधीयान यो गुमवचन इति। कश्च साधीयान्? गुणवचनः? यः [नास्तीदं वाक्यं भुद्रिते] सर्वदा गुणवचनः। यदि तर्हि सर्वदा यो गुणवचनस्तस्य द्विर्वचनेन भवितव्यम्(); तदा पटुशब्दस्यापि द्विर्वचनं न प्राप्नोतीति, सोऽपि यदा पाटवमात्रे गुणविशेषे वत्र्तते तदैव गुणवचनः; यदा तु तद्वति द्रव्ये तदा द्रव्यवचन एव? नैतत; न हि विशेषणमनभिदधता विशेष्यं शक्यमभिधातुम्()। अतो विशेष्यं द्रव्यमभिदधता नियोगतो विशेषणमव्यभिधेयम्()। तस्मस्द्द्रव्येऽपि वत्र्तमानः पटुशब्दस्तद्विशषणमपि मुणमभिदधात्येव। इयांस्तु विशेषः--गुणमुपसर्जनीभूतमभिदधाति, द्रव्यं तु प्रधानभूतमिति। आनुपुव्र्ये, इत्यादि। अवीप्सार्थमिदम; वीप्साया असम्भवात्()। तल्यजातीयानां हि भिन्नानां वीप्सा भवति, यथा--यामाणाम्()। सर्वे, हि वे ग्रामत्वजास्यैकयाऽध्यासितत्वात्? तुल्युजातीया दिग्देशादिभेदेन भिन्नाः। "मूले मूले स्थूलाः" इत्यादौ तु देण्? नडादोनां ["नलादीनाम्()--प्रांउ।पाठः] ये भागस्तेषामेकमेव मुख्यं मूलं यस्याधोभागान्तरं न सन्निविष्टम्()। एवकेकमेव च मुख्यमग्रं ग्रस्पोपरिभागान्तरं न सन्निविष्टम्()। तथा हि वेणोर्मूलमित्यक्ते यस्याधोभायान्तरं नास्ति तत्रैव प्रतीतिरुपजायते। तथा वेणोरग्रमित्युक्ते यस्योपरिभागान्तरं नास्ति तत्रेव ग्रतीतिरुपजायते नतरेव। यस्तु तेषु मूलव्यपदेशोऽग्रव्यपदेशश्च, सोऽपेक्षाकृतः, अपरि सन्निविष्टमपेक्ष्य मूलवयपदेशः, अधःसन्निविष्टमपेक्ष्याग्रमिति। तस्माद्यथा सर्वे ग्रामास्तुल्यजातीया न तथा वेणुभागः भवन्ति। ग्रामाणां हि न किञ्चिदपेक्षाकृतं ग्रामत्वम्? भागानां त्वेकस्यैव मुख्यं मूलत्वमग्रत्वञ्चानपेक्षाकृतम्()। अनेकेषां भागानां तूभयम्()। यत्तदपेक्षाकृतमेव तस्माद्भिन्नजातीयः भागाः। न च भिन्नजातीयानां वीप्सा भवति, यथा--सास्नादिमतां गदां वाहिकानाञ्च। न हि गोर्गौरित्यक्ते वाहीकगतापि दीपासा गम्यते। अप चैतावातिहार्थो विवक्षितः---आनुपूव्र्येण वेणु नडादयः ["नलादयः"---प्रांउ।पाठः] स्थूलाः सूक्ष्मा वेति प्रतियते; न तु वीप्सा। "ज्र्यष्ठं ज्येष्ठं प्रदेशय" इति। अत्रानुपूव्र्यमात्रं विवक्षितम्()। यः सर्वेयां ज्येष्ठस्त तावत्प्रदेशय, ततसतदन्येषां यो ज्यष्ठन्तं प्रदेशयेति। अन्यथा यद्यत्र ज्येष्ठानां वीप्सा स्यात्? सर्वकनीयसः प्रवेशो न स्यात्(); तस्य वीप्सयाऽविवयीकृतत्वात्(), न ह्रसौ ज्येष्ठः। तस्मादत्रापि नास्ति वीप्सा। तेनानुपूव्र्ये द्वे भवत इत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--यथा "शेषे" ४।२।९१ इति लक्षणञ्च, अधिकारश्च; तथा "सर्वस्य द्वे" ८।१।१ इत्येतदपि लक्षणमधिकारश्च। तेनानुपूव्र्ये द्वे भवत इत्युत्तरत्रापि द्विर्वचनविधौ यथायोगमेव व्याख्यानं कत्र्तव्यम्()। यदि तर्हि "सर्वस्य द्वे इत्येतल्लक्षणमपि, एवं सति "नित्यवीप्सयोः" ८।१।४ इत्यादेर्वेयर्थत्य न भवति, तत्रैव ["तथा हि"--प्रंउ।पाठः] "नित्यदीप्सयोः" इत्येसादीनाम प योगानाम्()। "अस्मात्? काषपिणादिह भवद्भ्यां मा मावं देहि" इत। अत्र द्बावेवेत्यवधार्यते। द्वावेव देहि, नैकम्(), नापि बहुनित्यर्थः। विनापि ह्रेवकारप्रयोगेणावधारणे गम्यते; विवक्षितत्वात्(), यथा--पार्थो धनुर्धर इति। ननु किं पुनः कारणे दीप्सा न सम्भवति? इत्याह--"अत्र हि" इत्यादि। अनेन वीप्साया अभाव दर्शयति। कार्षापणौ ह्रनेकमावसमुदायः। न च सर्वे मावा दानक्रियया व्याप्तुमिष्यन्ते, अपि तु द्वादेदेति नास्त्यतर वीप्सा--माषं देहि, द्वौ माषौ देहि, क्रीन्? मावान्? देहीति। एकं माषं देहि, द्वौ वा, त्रीन वा--इत्ययमत्रार्थो विवक्षितः, न त्ववधारणमिति द्विर्वचनं न भवति। "सम्भ्रमेण" इति। त्वरया। "प्रवृत्तिः" इति। प्रवत्तनम्()। "अहिरहिर्बुध्यस्य बुध्यस्व" इति। यद्ययं न वुध्यतेऽह चर्व नावबोधयाम्(), ततो नून दृष्ट [दष्टः--प्रांउ।पाठ] एवायमहिनेति मत्वा सम्भ्रमेणैवं वाक्य प्रयुक्ते। "क्रियासमभिहारे द्वे भवत इति वक्तव्यम्()" (वा८८६), "आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम्()" (वा।८८७) इत्येवं वाक्यद्वयं लोडादिभिरेव तन्नित्यताया द्योतितत्वाद्()द्विवचनं न प्राप्नोतीत्युपन्यस्तम्()। "नित्य" इत्यादिना "नित्यवीप्सयोः" ८।१।४ इत्यनेनैवात्र द्विर्वचनं सिद्धमिति दर्शयति। यथा च सिद्ध तथा तत्रैव "क्त्वाणगलोर्लोटश्च द्विर्वेचनापेक्षया इत्यादिना ग्रन्थेन प्रतिपादितम्()। पटपटाकरोति" इति। पटच्छपब्दस्य डाचि विषयभूतेऽनुत्पन्न एव द्विर्वचनम्()। ततः "अव्यक्तानुकरणाद्द्व्यर्जवरार्धादनितौ डाच" ५।४।५७, नित्यमाम्रीडते डाजि" ६।१।९६ इति तकारस्य पररूपत्वम्()। "पटपटायते इति। "लोहितादिडाज्भ्यः क्यष" , "वा क्यषः" १।३।९० इत्यात्मनपदम्()। "ढाजन्तस्य" इति। भाविडाजन्तमभिप्रेत्यैवमुक्तम्()। तस्मात्? डाचि विषयभूतेऽनुत्पन्न एवैतद्()द्विर्वचनमिष्यते। अत एव वृत्तिकारेण "अव्यक्तानुकरण" ५।४।५७ इत्यादौ सूत्रे उक्तम्()--डाचीति विषयसप्तमीयमिति। अत्र "नित्यमाम्रेडिते डाचि" ६।१।९६ इति पररूपविधानं ज्ञापकम्()। तत्र ह्र इति, अन्तस्येति, च वत्र्तते। यदि डाचि परभूते द्विर्वचनमिष्यते, ततो डाचि विहिते पटच्छब्दस्य नित्यत्वाट्()टिलोपेनैव प्राग्भवितव्यम्(); तथा च सत्यच्छब्दाभावात्? तत्? परूपं नोपपद्यते। तस्माद्विषयसप्तमीयम्()। एवं कृत्वा "नित्यमाम्रेडिते डाचि" (६।१।१००) इत्यत्र यदुक्तम्()--"प्राक्? टिलोपाद्()द्विर्वचनमिष्यते" इति, तदुपपन्नं भवति। एवं हि प्राक्? टिलोपाद्()द्विर्वचनं सिध्यति; यदि डाचि विषयभूते तत्र तद्विधीयते; अन्यथा हि यदि तस्मिन्? परभूते विधीयेत, ततो नित्यत्वात्? प्राक्? टिलोप एव स्यात्(), न तु द्विर्वचनम्()। "द्वितीयाकरोति" इत्यादि। "कृञो द्वितीयतृतीय" ५।४।५८ इत्यादिना डाच्()। "तदर्थम्()" इति। अव्यक्तानुकरणडाजन्तस्यैव द्विर्वचनं यथा स्यादित्येवमर्थम्()। "केचित्()" इति वचनात्? केचिद्बहुलमिति न पठन्तीत्युक्तं भवति। तेषामयमभिदप्रायः--"सर्वस्य द्वे" इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनाव्यक्तानुकरणडाजन्तस्यैवात्र द्विर्वचनं भविष्यति, नान्यस्येति। ततो नार्थो बहुलग्रहणस्येति। "पूर्वप्रथमयोः" इत्यादि। "अर्थातिशयविवक्षायाम्()" इति। पूर्वप्रथमशब्दस्य वाच्यस्यातिशयः प्रकर्षः, तस्य विवक्षा वक्तुमिच्छा, तस्यां द्वे भवत इत्येतर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्()। "नाप्राप्ते आतिशायिके द्विर्वचनमिदमारभ्यमाणं तस्य बाधकं प्राप्नोति" इति यो मन्येत, तं प्रत्याह--"आतिशायिकोऽप दृश्यते" इति। कथम्()? "सर्वेस्य द्वे" ८।१।१ इत्यनेनैव द्विर्वचनं विधीयते। अत्र विभाषाधिकाराद्विकल्पेन। तेन यदा नास्ति द्विर्वचनं तदातिशायको भवति। "डतरडतमयोः" इत्यादि। "किंयत्तदोः" ५।३।९२ इत्यादिना इतज्विहितः। " वा बहूनां जातिपरिप्रश्ने" ५।३।९३ इत्यादिना डतमच्()। समेन गुणेनाढ()त्वादिना निरूपणायोभादिमावाढ()आवित्येवमादिप्रकारा सा सम्प्रधारणा। स्त्रीलिङ्गशब्धः स्त्रीलिङ्गयोगात्? स्त्रीत्युक्तः। निगद्यतेऽनेनेति निगदः--"पुंसि संज्ञायां घः प्रायेण" ["प्रायेण"--नास्ति मुद्रिते] ३।३।११८ इति घः। स्त्रीनिगदो यस्य स स्त्रीनिगदो भावः। डतरडतमान्तयोः स्त्रीनिगदे भावे वत्र्तमानयोः शब्दयोः सम्प्रधारणायां विषयभूतायां द्वे भवतः। डतरडतमग्रहणमत्रोपलक्षणार्थ द्रष्टव्यम्()। अत एव वक्ष्यति--"डतरडतमान्यामन्यत्रापि दृश्यते" ["हि" इल्यधिकम्()--काशिका] इति। इहाढ()त्वं कस्यचित्? साधनसम्बन्धकृतम्(), कस्यचिद्यत्नकृतम्(), कस्यचिद्भाग्यसम्पत्कृतम्। तत्रोभाविमावाढ()आवित्युक्ते प्रतिपत्ता किंकृतमनयोराढ()त्वमिति प्रतिपद्यमानः कतराकतराऽनयोराढ()तेति वाक्यं प्रयुङक्ते, तदाढ()ता विभूतिपर्यायः स्त्रीनिगदो भावः। तत्र च डतरडतमान्ते वत्र्तते; तां प्रष्टुं प्रवर्त्तितत्वात्()। "कर्मव्यतिहारे" इत्यादि। कर्मव्यतिहारः क्रियाविनिमयः। एकस्यान्यभोजनापदरस्यापीतरो भोजनादिः। समासवद्भावोऽनेन बहुलं विधीयते। द्विर्वचनं तु "सर्वस्य द्वे" ८।१।१ इत्यनेनैव सिद्धम्()। स च समासवद्भावो बहुलवचनादन्योऽन्यशब्दे न भवत्येव। इतरेतरशब्दे तु नित्यम्()। असमासपक्षे पूर्वपदस्य प्रथमैकवचनं कत्र्तव्यम्()। "अन्योऽन्यमिमे ब्राआहृणा भोजयन्ति" इति। अन्यमित्यस्य द्वितीयैकवचनान्तस्य द्विर्वचनम्()। अत्र समासवद्भावो नास्तीति पूर्वपदस्य प्रथमैकवचनम्()। तस्य च "ससजुषो रुः" ८।२।६६, "अतो रोरप्लुतादप्लुते" ६।४।११३ इत्युत्वम्(); "आद्गुणः" ६।१।८४, "एङः पदान्तादति" ६।१।१०५ इति पूर्वरूपत्वम्()--एते विधयो विधेयाः। "अन्योऽन्यस्य" इति। षष्ठ()न्तस्य द्विर्वचनम्()। अन्योऽन्यसम्बन्धिनं पुत्रादिकं भोजयन्ति। अन्योऽप्यस्येत्यर्थः। "इतरेतरं भोजयन्ति" इति। द्वितीयान्तस्य द्विर्वचने कृते द्वितीयैकवचनम्(), अमि पूर्वत्वम्? ६।१।१०३। इतरेतरस्य" इति। षष्ठ()न्तस्य द्विर्वचनम्()। सुब्लुकि कृते समासप्रातिपदिकत्वात्? पुनः षष्ठ()एकवचनं भवति। "स्त्रीनपुंसकयोः" इत्यादि। स्त्रीनपुंसकयोर्यत्? सर्वनाम कर्मव्यतिहारे वत्र्तते तदुत्तरपदस्य विकल्पेनाम्भावो वक्तव्यः। उत्तरपदस्येत्यवयवसम्बन्धे षष्ठी, तेनोत्तरपदस्य या विभक्तिरवयवभूता तस्या अयमादेशो भवति। स्थाने षष्ठ()आं ह्रस्यामनेकाल्त्वात्? सर्वादेशः स्यात्()। "अन्योन्यामिमे ब्राआहृण्यो भोजयतः" इति। अन्यामित्यस्य द्विर्वचनम्(), विभक्तेराम्भावः, पूर्वपदस्य बहुलवचनाध्यस्वत्वम्(), पूर्ववद्रुत्वादि। "अन्योऽन्यम्()" इत्यत्र उत्तरपदस्यापि पूर्ववद्? ह्लस्वत्वादिः। "इतरेतरां भोजयतः" इति। समासवद्भावे सति सर्वनाम्नो वृत्तिमात्रे पुंवद्भावेन (जैन।वृ।१०३) टापो निवृत्तिः। एवं "इतरेतरम्()" इत्यत्रापि॥
बाल-मनोरमा
प्रकारे गुणवचनस्य , ८।१।१२

प्रकारे गुणवचनस्य। प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह--सादृश्ये द्योत्य इति। गुणवचनशब्देन "आकडारा"दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इति "वोतो गुणवचना"दित्यादौ प्रपञ्चितमिदम्। तेनेति। कर्मधारयवत्त्वेनेत्यर्थः। पुंवद्भाव इति। "पुंवकर्मधारये"त्यनेने"ति शेषः। पटुपट्वीति। पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात् "पुवत्कर्मधारये"ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः। यद्यपि बहुव्रीहिवत्त्वेऽपि "स्त्रियाः पुंव"दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थं "कर्मधारयव"दिति वचनमिति भावः। पटुपटुरिति। "वोतो गुणवचना"दिति ङीषभावे पुंसि च द्विर्वचने रूपम्। पटुसदृश इति। "इत्यर्थ" इति शेषः। फलितमाह--ईषत्पटिरिति। इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति--गुणोपसर्जनेति। शुक्लशुक्लं रूपमिति। शुक्लसदृशमित्यर्थः। ईषच्छुक्लमिति यावत्। एवं शुक्लशुक्लः पट इति बोध्यम्।

आनुपूव्र्ये इति। अत्र वार्तिके "कर्मधारयव"दिति न सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति--मूलेमूले इति। पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति। यावत्।

संभ्रमेणेति। वार्तिकमिदम्। संभ्रमः=भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम्िच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः। अनेकधेत्युक्तेद्र्वे इति निवर्तते। "यथेष्ट"मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः। बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः। एतच्च भाष्ये स्पष्टम्। अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात्।

क्रियासमभिहारे चेति। वार्तिकमिदम्। "द्वे स्त" इति शेषः। पौनःपुन्यं भृशत्वं च क्रियासमभिहारः। लोडन्तविषयमेवेदम्। "क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो"रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति--लुनीहिलुनीहीत्येवायं लुनातीति। "लूञ् छेदने" अस्मात् "क्रियासमभिहारे लोट्, लोटो हिस्वौ" इति लोट्। तस्य हीत्यादेशः। श्नाविकरणः। "लुनीही"त्यस्य अनेन द्विर्वचनम्। "यथाविध्यनुप्रयोगः पूर्वस्मि"न्नित्यनुप्रयोगः। तस्माल्लडादयः। अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः। एककर्तृकं लवनमनुप्रयोगस्याऽर्थः। इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति। तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः। नित्येति। "नित्यवीप्सयो"रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः। नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वे "भृशे चे"त्येव सिद्धे "क्रियासमभिहारे" इति व्यर्थमित्यत आह--पौनःपुन्येऽपीति। लुनीहि--लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत्। अन्यथा--पौनःपुन्येऽपीति। लुनीहि--लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत्। अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः। एवं च "धातोरेकाचः" इति पौनः पुन्ये यङन्ते "पापच्यते" इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः।

कर्मव्यतिहारे इति। क्रिया विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः। ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः। अत्र "बहुल"मिति समासवदित्यत्रैवान्वेति। द्विर्वचनं तु नित्यमेव। अन्यपरयोरिति। अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः। अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते। तथा "परस्परोपपदाच्चे"ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः। एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम्। द्विरुक्तयोस्तु समासवत्त्वं बहुलम्। इतरशब्दस्य तु तदुभयमपि नित्यम्। एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः।

असमासवद्भावे इति। इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात्। सुपः सुरिति। सु"बिति प्रत्याहारः। सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः। इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित्। तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाह्मतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति--अन्योन्यं विप्रा नमन्तीत्यादि। इह अन्यम् अन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः। प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह--अन्योन्येषामित्यादि, माघ इत्यन्तम्। "परस्पर"मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह--कस्कादित्वादित्यादि। इतरेतरमिति। इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः।

स्त्रीनपुंसकयोरिति। स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः। अन्योन्यामित्यादि। अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः। इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः। तत्र "अन्या"मित्यस्य द्वित्वे "दलद्वये टाबभाव" इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे "अतो रोरप्लुता"दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम्। आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम्। इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः। इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः। अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम्। आम्भावविरहे तु "क्लीबे चाद्()ड्विरहः स्वमो"रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम्। एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम्। आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम्। नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम्। आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम्। इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम्। आम्भावविरहे तु इतरेतरमिति रूपम्। नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम्। अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह--अत्र केचितदिति। तेनेति। द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः। पुंवदेवेति। आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम्। नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः। सिद्धान्तमाह--अन्ये त्विति। दिङ्मात्रत्वादिति। दिक्प्रदर्शनमात्रत्वादित्यर्थः। उपलक्षणत्वादिति यावत्।

द्वलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः।

समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम्॥

अथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह--दलद्वये इति। स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः। यद्यपि "इतरेतर" मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः। क्लीबे इति। "अन्योन्य"मित्यादावद्डादेशविरह इत्यर्थः। समासे सोरिति। कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः। तथाहीति। यथेदं स्पष्टं भवति, तथा उदाह्मत्य प्रदश्र्यत इत्यर्थः। ननु पूर्वदले "सर्वनाम्नो वृत्तिमात्र" इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः। कुत इत्यत आह--अन्यपरयोरिति। "समासवच्च बहुल"मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः। ननु मास्तु समासवत्त्वं, तथापि "सर्वनाम्नो वृत्तिमात्रे" इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति--नच द्विर्वचनमेव वृत्तिरिति। "कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः" इति परिगणनादिति भावः। द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह--यां या मिति। द्विर्वचनस्य वृत्त्यन्तर्भावे "यांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे"त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र च "सर्वनाम्नो वृत्तिमात्रे" इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः। क्लीबे चाद्ड्विरहः" इत्यस्योदाहरति--अन्योन्यमिति। ननु "समासे सोरलुक् चे"ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति--अन्योन्यसंस,क्तमिति। अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः। अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः। अन्योन्याश्रय इति। अन्योऽन्यस्य आश्रय इति षष्ठीसमासः। परस्पराक्षिसादृश्यमिति। अक्ष्णा सादृस्यमक्षिसादृश्यम्। परस्परस्याऽक्षिरसादृश्यमिति विग्रहः। अपरस्परैरिति। न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः। सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः। ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह--प्रकृतवार्तिकेति। "स्त्रीनपुंसकयो"रिति प्रकृतवार्तिके "अन्योन्यमिमे ब्राआहृण्य"विति, "इतरेतरमिमे कुले" इति चोदाहरणात् "दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो"रिति विज्ञायते। "स्त्रिया"मिति सूत्रे "अन्योन्यसंश्रयं त्वेत"दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः।

तत्त्व-बोधिनी
प्रकारेगुणवचनस्य १५९७, ८।१।१२

प्रकारे गुणवचनस्य। यद्यपि प्रकारशब्दो भेदे सादृश्ये च वर्तते। बहुभिः प्रकारैर्भुङ्क्ते। बहुभिर्भेदैर्विशेषैरित्यवगमात्। ब्राआहृणप्रकारोऽयं माणवकः, ब्राआहृणसदृश इत्यवगमाच्च। तथापीह विवक्षितमाह---सादृश्य इति। व्याख्यानमेवाऽत्र शरणम्। पुंवद्भाव इति। "पुंवत्कर्मधारये"ति सूत्रात्। तच्च कोरधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते। तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिव्र्यर्थेति शङ्काया निरवकाश इति बोध्यम्। पटुपटुरिति। इह द्वित्वेन जातियरो बाधा नेष्यते, "पटुजातीय"इति वामनः। अन्यता ब्राआहृणजातीय इत्यदावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जतीयर् गुणवचनेषु सादृस्ये परेण द्वित्वेन बाध्येतेति भावः। गुणवचनस्येति किम्()। अग्निर्माणवकः। सिंहो माणवकः। यद्यपीहाऽग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्ष्णक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सुद्धे गुणवचनग्रहणसामथ्र्यात् मुख्यवृत्त्या गुणपराणामेव द्वित्वं, न त्वन्येषामित्याकरः। "नवंनवं प्रीतिरहो करोतो"त्यत्र वीप्सायां द्विर्वचनम्। अनेन तु द्विर्वचने सुब्लुक् स्यात्। "नवनवा वनवायुभिराददे"इत्यत्र त्वनेनैव द्विरह्वचनं, नतु वीप्स#आयामिति पुंवद्भावः। कथं "भीतभीत इव शीतमयूखः"इति भारविः। इवशब्देन सादृस्यस्योक्ततया इह प्रकारे द्वित्वाऽयोगात्। सत्यम्। भीतेभ्यो भीत इति कथंचिव्द्याख्येयम्। तेनाऽतीभीत इति फलितम्। "आधिक्ये द्वे वाच्ये" इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम्। तादृशस्य वार्तिकस्याऽप्रसिद्धत्वात्। अथ कथं "खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणःक्षीणः परिलघु पयः रुआओतसां चोपयुज्ये"ति मेघदूतः। पदार्थबेदस्याऽभावेन वीप्सार्थस्यासंभवादिति चेत्। अत्राहुः---एकस्यापि केदावस्थासु क्षयावस्थासु च भेदं परिक्ल्प्य वीप्सा बोध्येति। अथ कथं "मन्दं मन्दं नुदति पवनश्चानुकूलो यता त्वा"मिति मेघदूतः। वीप्सार्थस्याऽसंभवादनेनैव द्विर्वचने कृते "मन्दमन्दमुदितः प्रययौ ख"मितिवत्सुब्लुक् स्यादिति चेत्। सत्यम्। स्वतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथं चिव्द्याख्येयम्। सिद्धस्य गतेश्चिन्तनीयत्वात्। शुक्लशुक्लमिति। केवलगुणवाचिन उदाहरणमिति ध्वनयति---रूपमिति।

आनुपूव्र्ये द्वे वाच्ये। आनुपूव्र्ये इति। वीप्साऽबावादयमारम्भः। मूलेमूले इति। "अग्रेअग्रे सूक्ष्म"इत्यप्युदाहर्तव्यम्। एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमगं च। इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः। स्थौल्य सोक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यं, यथा अग्रं सौक्ष्म्यं तता नेतरे भागा इति वीप्साया असंभवः। "मूलेमूले पथि विटपना"मित्यत्र तु वीप्सायां द्विर्वचनम्। एतच्च हरदत्तग्रन्थे स्पष्टम्।

संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः। न्यायसिद्ध इति। याव्द्भिः शब्दैः संबोध्याऽर्थमवगच्छति तावतां प्रयोक्तव्यत्वादिति भावः।

क्रियासमभिहारे च। पौनःपुन्य इति। पुनःपुनर्भवितरि वर्मानात्पुनः--पुनःशब्दाद्बावे प्रत्ययः। लोटा सह समुच्चित्येति। नन्वत्र लोटा सह समुच्चित्य यथा द्विर्वचनं भवति, तथा क्रियासमभिहारे यङि यङा सह समुच्चित्य द्विर्वचनं स्यात्---पापच्यतेपापच्यते बोभूयते बोभूयते इति। अत्राहुः---लोटे क्रियासमभिहारं व्यभिचरति, समुच्चयेऽपि जायमानत्वात्। ततस्च लोट्? द्विर्वचनयोरेव तद्द्योतकत्वं, न त्वेकैकस्येति युक्तं लोडन्तस्य द्विर्वचनम्। यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विर्वचनं विनैव तस्य द्योतकत्वम्। तेन तदन्तस्य न द्विर्वचनमिति।

कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये। कर्मव्यतिहार इति। क्रियाविनिमय इत्यर्थः। द्वे इति। नित्यमेवेदं द्वित्वम्, बाहुलकं तु समासवद्भावस्यैव।

असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः। सुपः सुर्वक्तव्य इति। अत्र कैश्चिदुक्तं --द्वितीयादीनामेवेदं स्वादेशविधानम्। अतएवोत्तरदलेऽपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव , न तु वचनान्तरमिति। तदपाणिनीयम्। भाष्यादावनुक्तत्वात्। तदेतद्ध्वनयन् वचनान्तरमुदाहरति-----अन्योन्यावन्योन्यानिति। माघ इति। स च भाष्यानुगुण एवेति भावः। एतेनाऽर्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति। भारविस्चाह---"क्षितिनभःसुरलोकनिवासिभिः कृतमिकेतमदृष्टपरस्परै "रिति। अत्राऽदृष्टः परस्परो यैरिति विग्रहः। यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तह्र्रयं प्रयोगो न सिध्येदिति दिक्।

स्त्रीपुंसकयोरुत्तरपदस्थाया विभक्तेराम्बावो वा वक्तव्यः। अन्योन्यमिति। न चाऽत्र आमबावेऽपि टाप् स्यादिति शङ्क्यम्। "बहुलग्रहणाट्टाबभावः"इत्यनुपदमेव वक्ष्यमाणत्वात्। स्त्रीनपुंसकयोस्तृतीयादिषु पुंवदिति प्राचो ग्रन्थं परिष्कुर्वन्नाह---अत्र केचिदिति। वस्तुस्थितिमाह---अन्ये त्विति। अतिप्रसङ्गादिति। तथा च एकशेषप्रतिबन्धाद्द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्बलेन पुंवद्भावो न श्ङ्क्यो, लक्ष्यविरोधात्। "कारकं चेद्विजानीयाद्यां यां मन्येत सा भवे"दिति"अकथित"सूत्रस्थ---"यांया "मिति भाष्यप्रयोगविरोधाच्चेति भावः। नव्यास्तु--"यांया प्रियः प्रैक्षते"त्यादिमागप्रयोगे "सासा"इति द्विर्वचनमयुक्तम्, द्विरुक्तार्थस्य सेत्यनेनैव परामर्ष्टुं शक्यत्वात्। अतएव भाष्ये "यांया मन्येता सा भवे"दित्येवोक्तमित्याहुः। सोर्लुक् च प्राप्त इति। सुपः स्वादेशविधानस्याऽन्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः।