पूर्वम्: ८।४।३६
अनन्तरम्: ८।४।३८
 
सूत्रम्
पदव्यवायेऽपि॥ ८।४।३७
काशिका-वृत्तिः
पदव्यवाये ऽपि ८।४।३८

पदेन व्यवायः पदव्यवायः पदव्यवधानम्। पदेन व्यवाये ऽपि सति निमित्तनित्तिनोः नकारस्य नकारादेशो न भवति। माषकुम्भवापेन। चतुरङ्गयोगेन। प्रावनद्धम्। पर्यवनद्धम्। प्र गां नयामः। परि गां नयामः। पदव्यवाये ऽतद्धित इति वक्तव्यम्। इह मा भूत्, आर्द्रगोमयेण। शुष्कगोमयेण। गोश्च पुरीषे इति मयट्। स्वादौ पूर्वं पदम् इति गोशब्दः पूर्वपदम् तेन व्यवायः।
न्यासः
पदव्यवायेऽपि। , ८।४।३७

निमित्तनिमित्तिनोः परकृतत्वादुभयोरेव व्यवायो विज्ञायते, इत्यत आह--"पदेन व्यवाये सति निमित्तनिमित्तिनोः" इत्यादि। "माषकुम्भषापेन" इति। माषाणां कुम्भः माधकुम्भः, तं वपतीति "कर्मण्यण्()" ३।२।१, तदन्तात्? तृतीयैकवचनम्()। अत्र "प्रातिपदिकान्तनुम्विभक्तिषु च" ८।४।११ इति प्राप्तिः। "चतुरङ्गयोगेन" इति। अत्र "कुमति च" ८।४।१३ इति प्राप्तिः। चत्वार्यङ्गान्यस्येति बहुव्रीहिः; तेन योगश्चतुरङ्गयोगः, "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति तृतीयासमासः। पूर्वत्र कुम्भशब्देन व्यवायः, उत्तरत्र त्वङ्गशब्देन। "प्रावनद्धम" इति। "णह बन्धने" (धा।पा।११६६), निष्ठा, "नहो धः" ८।२।३४, "झषस्तथोर्धोऽधः" ८।२।४०, "झलां जश्? झशि" ८।४।५२ इत्येते विधयः कत्र्तव्याः, गतिसमासः। अत्रावशब्देन व्यवायः। णत्वप्राप्तिस्तु "उपसर्गादसमासेऽपि" ८।४।१४ इत्यादिना। एवं "प्रगान्नयामः" इत्यत्रापि। व्यवधानं तु गामित्यनेन। इदं तु च्छान्दसमुदाहणम्()। न हि भाषायां व्यवहितादामृपसर्गाणां धातोः प्राक्? प्रयोगोऽस्ति, किं तर्हि? "छन्दसि परेऽपि" १।४।८० इत्यतः "छन्दसि" इत्यनुवत्र्तमाने "व्यवहिताश्च" १।४।८१ इत्यनेन छन्दसि व्यवहितो भवति। गोशब्दस्यौकारस्य "औतोऽम्शसोः" ६।१।९० इत्यात्त्वम्()। "पदव्यवाये" इत्यादि। योऽयं पदव्यवाये प्रतिषेध उच्यते सोऽतद्धिते भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानम्()--"वा निंस निक्ष निन्दाम्()" ८।४।३२ इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवत्र्तते; सा च व्यवस्थितविभाषा, तेन तद्धिते प्रतिषेधो न भविष्यतीति। "आद्र्रगोमर्येण" इति। गोरिदं गोमयम्(), "गोश्च पुरीषे" ४।३।१४३ इति मयट्()। आद्र्र च तत्? गोमयञ्चेति कर्मधारयः। गोशब्देन पदेन ध्यवधानम्()। पदसंज्ञा चास्य "स्वादिष्वसर्वनामस्थाने" १।४।१७ इत्यनेन॥
बाल-मनोरमा
पदव्यवायेऽपि १०४२, ८।४।३७

पदव्यवायेऽपि। पदेन व्यवधाने इति। "पदेने"त्यनन्तरं "निमित्तकार्यिणो"रिति शेषः। न स्यादिति। "न भाभूपूकमिगमी"त्यस्तदनुवृत्तेरिति भावः। माषुकम्भवापेनेति। माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः। अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानान्न णत्वम्। चतुरङ्गयोगेनेति। चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं=सैन्यम्, तेन योग इति विग्रहः। अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम्। उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वं बोध्यम्। "उत्तरपदे चाऽपदादिविधौ प्रतिषेधः" इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः। अत एव "न लुमताङ्गस्ये"त्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये। अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्त्वामस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावात्कुत्वं न भवति। अत एव च "कुमति चे"ति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, बाषकुम्भस्य वापो माषकुम्भवापः। तेन माषकुम्भवापेनेत्यत्र "पदव्यवायेऽपीति निषेधप्रवृत्तये "प्रातिपदिकान्ते"ति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते। नचैवं सति रम्यविणेत्यत्र "वि" इत्युत्तरखण्डस्य कार्यभाक्त्वाऽभावात् "उत्तरपदत्वे चाऽपदादिविधौ" इति प्रत्ययलक्षणनिषेधस्याऽप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेन "पदव्यवायेऽपी"ति णत्वनिषेधः। एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम्।

अतद्धिते इति। अतद्धिते परे यत्पदं तेन व्यवधानेऽयं निषेधो, नतु तद्धितपरकपदेनेत्यर्थः। आद्र्रगोमयेणेति। गोः पुरीषं गोमयं। "गोश्च पुरीषे" इति गोशब्दात् षष्ठ()न्तात् मयट् तद्धितः, तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक्। आद्र्रं गोमयमिति कर्मधारयः। यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदन्तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अटकुप्वाङ्()नुम्व्यवायस्य अबाधकत्वात्। शुष्कगोमयेणेति। षात्परस्योदाहरणम्। भाष्ये तु "पदान्तस्ये"ति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम्।

तत्त्व-बोधिनी
पदव्यवायेऽपि ८७२, ८।४।३७

पदेन व्यवधान इति। निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः। माषकुम्भवापेनेति। माषकुम्भं वपतीति "कर्मण्यण्"। उपपदसमासः। चतुरङ्गयोगेनेति। "चत्वार्यङ्गान्यस्य"तेन योगः" इति मनोरमायां विगृहितम्। तदयुक्तम्। "उत्तरपदत्वे चाऽपदादिविधौ"इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्याऽपदत्वात्। तस्मात् "अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः" इत्येव विग्रहीतव्यम्। न च "चतुरङ्गेन योगः इति विग्रहेऽप्यङ्गशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्क्यं, तस्य पूर्वसमासस्योत्तरपदत्वात्, उत्तरपदत्वे चे"ति प्रतिषेधवचनस्यापि "उत्तरस्य=समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते"इत्यर्था ब्युपगमाच्च। "शाकपार्थिवादीनामुत्तरपदलोपः", प्रादिभ्यो धातुजस्ये"त्यादौ तूत्तरपदशब्देन समासचरमावयवमात्रं गृह्रते इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः। इह तु पदत्वलाभाय प्रत्ययलक्षणप्रवृत्तिरपेक्षिता। एवं च "माषकुम्भवापेने"

त्यात्रापि कुम्भस्य वापः--कुम्भवापः। कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः। "माषाणां कुम्भवापः" इथि विग्रहीतव्यमिति नव्याः। केचुत्तु---"अपदादिविधौ"इत्यत्र "पदान्तविधौ"इत्यर्थं परिकल्प्य "पदव्यवायेऽपी" त्यस्य पदान्तविधित्वाऽभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः। तदपरे न क्षमन्ते। तथा हि सति लाघवात् "पदन्तविधौ"इत्येव ब्राऊयात्, न तु "अपदादिविधौ"इति दिक्। [किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे पदमदण्डिनाविति "ङमो ह्यस्वदची"ति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता]।

अतद्धित इति वाच्यम्। अतद्धित इथि। "व्यवधायकपदस्य तद्धितश्चेत्परो न भवति, तदा निषेधः"इत्यर्थः। आद्र्रगोमयेणेति। इह गोशब्दः पदम्। "उत्तरपदत्वे चे"ति निषेधोऽत्र न शङ्क्यः, गोमयशब्दस्योत्तरपदत्वात्, गोशब्दस्य च "स्वादिषु"इति पदत्वात्।