ईश्वरप्रोक्तं शिवषडक्षरमन्त्रजपविध्युपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
षडक्षरं प्रवक्ष्यामि समासेन गिरीन्द्रजे ।
सद्यः संसारदुःखानि विनष्टानि जपाच्छिवे ॥ २॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।
देवतास्य शिवः साक्षादहमेव महेश्वरः ॥ ३॥
शक्तिर्महेश्वरी त्वं च भुवनेशाक्षरी भवेः ।
बीजं मायात्मकं प्रोक्तं रुद्रः सङ्कल्पविग्रहः ॥ ४॥
सोऽहं तन्मय एव स्यां मन्त्रमध्यस्थितः सदा ।
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदक्षरं क्रमात् ॥ ५॥
मस्तके च ललाटे च हृदि नाभौ पदद्वये ।
पुनः पञ्चाक्षरेणैव न्यसेत्स्वस्य तनुं पराम् ॥ ६॥
प्रणवं प्रथमं विद्यान् द्वितीयं तु नकारकम् ।
मकारं तत्परं देवि शिकारं तु ततःपरम् ॥ ७॥
वकारं पञ्चमं विद्याद्यकारं षष्ठमुच्यते ।
एवं पञ्चाक्षरं देवि श्रीरुद्रपदमध्यगम् ॥ ८॥
देशकालविशेषोऽत्र कथ्यते गिरिजेऽधुना ।
अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि ॥ २१॥
ग्रहणे सोमसूर्योत्थविषुवायनयोरपि ।
सोमवारे प्रदोषे च सायं प्रातः पराणयोः ॥ २२॥
नित्यादप्यधिकं कुर्याज्जपं पञ्चाक्षरस्य च ।
फलं शतगुणं तत्र प्रोक्तमीशे मया धुना ॥ २३॥
मनोरथो तथा मेऽद्य नमो युक्तो विशेषतः ।
अहं वाच्यो महादेवस्तन्मन्त्रस्य सनातनः ॥ २४॥
ध्यानाङ्गन्यास भेदाश्च बहवोऽस्य मनोःशिवे ।
निगमागमभेदेन वदन्ति मुनयोऽद्रिजे ॥ २५॥
मन्त्रार्थः कथितः कृत्स्नः (?) पुरश्चर्यां शृणुष्व मे ।
आचार्यमुखतो मन्त्रं जपेत्सार्थं समाहितः (?) ॥ २६॥
(आचार्यमुखतो मन्त्रं गृहीत्वा सुसमाहितः) ॥ २६॥
यथाशक्ति धनं तस्मै प्रदत्वा(?) तदनुज्ञया ।
स्नानं त्रिषवणं कृत्वा भस्मना(?) शाकभोजनः ॥ २७॥
फलमूलाशनो वापि हविष्याशी यथाबलम् ।
पर्वताग्रे नदीतीरे सागरान्ते शिवालये ॥ २८॥
वने वा निर्भये शुद्धे प्राङ्मुखोदङ्मुखः शुचिः ।
बिल्वमूले गृहे गोष्ठे भस्मच्छन्नासनो भवेत् ॥ २९॥
प्राणायामत्रयं कृत्वा छन्दर्षिज्ञोऽस्य दैववित् ।
शक्तिं बीजं देवतां च ध्यात्वा मन्त्राङ्गकैः क्रमात् ॥ ३०॥
करन्यासं पुनः कृत्वा तथाङ्गन्यासमेव च ।
पञ्चाङ्गमपि विन्यस्य गुरुं मामभिवीक्ष्य च ॥ ३१॥
लिङ्गे वा सुस्थले देशे सोमसूर्याग्निमण्डले ।
विद्युल्लेखेव कल्याणं ज्वलन्तं विश्वरूपिणम् ॥ ३२॥
शिवं ध्यात्वा जपेन्मन्त्रं लक्षाणां पञ्चकं शिवे ॥ ३३॥
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
वामोरुपीठगतया निजवामहस्त-
न्यस्तारुणोत्पलयुजा परिणद्धदेहम् ॥ ३४॥
शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्त्रं त्रिणेत्रं
शूलं वज्रं च खङ्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं चाङ्कुशं वामभागे
नानालङ्कारदीप्तस्फटिकमणिनिभं पार्वतीशं नमामि ॥ ३५॥
मङ्गलायतनं देवं युवानमतिसुन्दरम् ।
ध्यायेत्कल्पतरोर्मूले समासीनं सहोमया ॥ ३६॥
एवं ध्यात्वा जपेन्मन्त्रं पञ्चाक्षरमतन्द्रितः ।
तर्पयेल्लक्षमेकं तु जुहुयाल्लक्षमेव च ॥ ३७॥
आज्येन पायसेनापि पलाशकुसुमेन वा ।
ततः सिध्यति मन्त्रोऽयं भुक्तिमुक्तिफलप्रदः ॥ ३८॥
तैलेन चाभिचारेषु अर्काणां समिधो हुनेत् ।
वश्ये कौसुम्भ कुसुमैर्बिल्वपत्रैर्धनाप्तये ॥ ३९॥
ज्वररोगादिशान्त्यर्थमश्वत्थसमिधो हुनेत् ।
विद्वेषणे मारणे च वैभीतककरञ्जकौ ॥ ४०॥
उच्चाटने च शत्रूणामपामार्गैर्हुनेत्तदा ।
प्रत्येकमष्टसाहस्रं जपेद्भक्त्या समाहितः ॥ ४१॥
सम्यग्ज्ञानं समासाद्य मयि लीनो भविष्यति ।
लक्षपञ्चशतं जप्त्वा वृत्रारेः पदमाप्नुयात् ॥ ४२॥
षष्टिलक्षजपेनैव लभते ब्रह्मणः पदम् ।
अशीतिलक्षं जप्त्वा तु नरो विष्णुत्वमाप्नुयात् ॥ ४३॥
लक्षाणां तु शतं जप्त्वा साक्षाद्रुद्रत्वमाप्नुयात् ।
लक्षं जप्त्वा तथायुष्यं द्विलक्षं जपतः सुतान् ॥ ४४॥
निष्कामो लक्षदशकं जप्त्वाप्येताऽविमुक्तकम् ।
विनियोगः समाख्यातः तज्जापे लक्षणं शृणु ॥ ४५॥
विधिनोक्तेन मार्गेण मन्त्राभ्यासो जपः स्मृतः ।
जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः ॥ ४६॥
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसो मननध्यानभेदाद् द्वैविध्यमास्थितः ॥ ४७॥
उच्चैर्जपादुपांशुश्च सहस्रगुण उच्यते ।
मानसश्च तथोपांशोः सहस्रगुण उच्यते ॥ ४८॥
मानसाच्च तथा ध्यानमनन्तगुणमुच्यते ।
उमासहायं मां देवं नीलग्रीवं त्रिलोचनम् ॥ ४९॥
ध्यात्वा जपेत्तथा मन्त्रं स चानन्तफलः स्मृतः ।
अथवा प्राकृतं भावं स्वीयमुत्सृज्य देहकम् ॥ ५०॥
शिवोऽहमिति सञ्चिन्त्य साधयेदिदमुत्तमम् ।
उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो नृणाम् ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवषडक्षरमन्त्रजपविध्युपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३५ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 35 . vAvRRittashlokAH ..
Notes:
Upon being asked by Devī देवी; Śiva शिव describes the procedures for conducting the Japa जप of the ŚivaṢaḍakṣaraMantra शिवषडक्षरमन्त्र i.e. Om̐ Namaḥ Śivāya ॐ नमः शिवाय; especially during SūryaGrahaṇa सूर्यग्रहण, CandraGrahaṇa चन्द्रग्रहण, Viṣuva विषुव, Ayana अयन, Somavāra सोमवार, Pradośa प्रदोष etc..
Proofread by Ruma Dewan