ईश्वरप्रोक्तं शिवध्यानोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
शिव उवाच ।
पूजाकोटिप्रदं ध्यानं कथयामि निबोधमे ।
निर्वाते निर्भये शुद्धे सर्वालङ्कारशोभिते ॥ १॥
गन्धपुष्पामोदवरे मृदुतूलोपरिस्थितः ।
ध्यायेतैवं महादेवि महाकैलासवासिनम् ॥ २॥
भस्मत्रिपुण्ड्ररुद्राक्षमालालङ्कृतविग्रहः ।
पञ्चाक्षरवरास्योऽथ निमील्याक्षियुगं शिवे ॥ ३॥
धारणाभिः समाहृत्य योगेनाप्लाव्य वै तनुम् ।
सर्वतश्चित्तमाकृष्य हृदयाम्भोजमध्यमे ॥ ४॥
प्राणायामैर्विकसिते परमेश्वरमन्दिरे ।
अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते ॥ ५॥
ज्ञाननाले महाकन्दे प्रणवेन प्रबोधिते ।
मध्ये हृदयपाथोजे महादेवासनोचिते ॥ ६॥
महिताकारशोभाढ्यं मण्डलं परिचिन्तयेत् ।
अतिचिन्तामणिप्रख्यैरतिकौस्तुभकान्तिभिः ॥ ७॥
रत्नैरप्राकृतैर्लोकं रञ्जयन्तं समन्ततः ।
दक्षिणद्वारपार्श्वेऽस्य संस्मरेन्नन्दिकेश्वरम् ॥ ८॥
अनेकरुद्रप्रमथभूतसङ्घैर्निषेवितम् ।
शिवधर्ममहाध्यक्षशिवान्तःपुरपालकम् ॥ ९॥
चामीकराचलप्रख्यं सर्वाभरणभूषितम् ।
बालेन्दमकुटं सौम्यं चतुर्बाहुं त्रिलोचनम् ॥ १०॥
दीप्तशूलं मृगं टङ्कं स्वर्णवेत्रधरं प्रभुम् ।
चन्द्रबिम्बाभवदनं भालपुण्ड्रं जटाधरम् ॥ ११॥
उत्तरद्वारपार्श्वे तु तत्पत्नीं मरुतां सुताम् ।
सुयशां सुव्रतामम्बाम्पादमण्डनतत्पराम् ॥ १२॥
सहितां रुद्रकन्याभिः सखीभिश्चाप्यनेकशः ।
मध्येऽथ मण्टपस्यास्य वेदिकां विद्रुमप्रभाम् ॥ १३॥
चतुः स्तम्भयुतां ध्यायेत् त्रिपुरश्रीमनोरमाम् ।
तस्यां शक्त्यादि सेसेव्यं तन्वि तत्परमासनम् ॥ १४॥
आधारशक्तिं श्यामाङ्गीं करैर्धृतवराभयाम् ।
तस्याः पुरस्तादाकण्ठमनन्तं कुण्डलावृतम् ॥ १५॥
तस्योपरि शुभं ध्यायेत्सिह्मासनमुमापतेः ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च तदङ्घ्रयः ॥ १६॥
आग्नेयादि स्थिताश्चैते पीतरक्तहरित्प्रभाः ।
सिह्माकाराः सिह्मकोट्या प्रत्येकं परिवारिताः ॥ १७॥
अधर्मादीनि पूर्वादिदिशासु च समन्ततः ।
राजासनं विभोर्ध्यायेत्कूर्माकृत्यनलप्रभम् ॥ १८॥
अस्याधश्छन्दनं पद्ममासनं विपुलं स्मरेत् ।
शिवधर्ममहाकन्दं शिवज्ञानैकनालकम् ॥ १९॥
अष्टैश्वर्यदलोपेतं पूर्वादिक्रमयोगतः ।
अष्टवामादिशक्त्यङ्गरुद्रकल्पितकेसरम् ॥ २०॥
वैराग्यकर्णिकान्तस्थं वामादिनवबीजकम् ।
वामाज्येष्ठा तथा रौद्री कालीविकरिणी तथा ॥ २१॥
बलपूर्वा विकरिणी बलप्रमथनी तथा ।
अष्टावेताः सर्वभूतदमनी नवमी परा ॥ २२॥
केसरेषु स्थिता ध्येया रक्तभा धृतचामराः ।
कलाधरकलाद्योतत्कर्णिकायां मनोन्मनी ॥ २३॥
स्मर्तव्येशानन्दिग्भागे पाशाङ्कुश वराभयाः
पद्मासनस्थितं ध्यायेद्देवस्य विमलासनम् ॥ २४॥
गणाम्बिकां महादेवीं ततो गौरीं प्रचोदयात् ।
क्रान्तं शक्तिभिरन्याभिः सौम्याभिर्विमलासनम् ॥ २५॥
तस्योपरि गुणानां च मण्डलानां च साधकः ।
तस्मिन् सदाशिवं ध्यायेद्बद्धपद्मासनस्थितम् ॥ २६॥
शुद्धस्फटिकसङ्काशं प्रसन्नं शान्तविग्रहम् ।
विद्युल्लतालवद्योतिजटामकुटधारिणम् ॥ २७॥
शार्दूलचर्मवसनं मन्दस्मितमुखाम्बुजम् ।
रक्तपद्मदलप्रख्यपाणिपादतलं हरम् ॥ २८॥
द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालैरलङ्कृतम् ॥ २९॥
पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ।
दक्षिणे शूलवज्रासिपरश्वभयमुद्रिकम् ॥ ३०॥
वामे च दधतं नागं पाशं घण्टां तथाङ्कुशम् ।
अस्योर्ध्वविलसद्बालसुधांशुमकुटोज्ज्वलम् ॥ ३१॥
ध्यानस्थमूर्ध्वाभिमुखं गगनछाययासितम् ।
पूर्ववक्त्रं महेन्द्रस्य छायया कनकप्रभम् ॥ ३२॥
बालेन्दुमकुटं सौम्यं सम्प्राप्तनवयौवनम् ।
दक्षिणं वदनं कालछायाशक्त्याञ्जनप्रभम् ॥ ३३॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ।
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ ३४॥
चन्द्रापीडं चलत्केशं किञ्चिच्चलितयौवनम् ।
उत्तरं यक्षराजस्य छायया विद्रुमप्रभम् ॥ ३५॥
ललाटतिलकोपेतं नीलालकविभूषितम् ।
सविलासं त्रिणयनं चन्द्राभरणभास्वरम् ॥ ३६॥
इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयम् ।
पश्चिमं पाशहस्तस्य छायया सदृशं निभम्
(सदृशप्रभम् , मौक्तिकप्रभम्) ॥ ३७॥
चन्द्रोत्तंसं सिताकारं धृतभस्म त्रिपुण्ड्रकम् ।
इति ध्यात्वा पुनरपि ध्यायेदेवं सदा शिवम् ॥ ३८॥
सूर्यचन्द्राग्निनयनं नीलकण्ठं जटाधरम् ।
ज्ञानचन्द्रकलाजूटमुद्यद्बाहुचतुष्टयम् ॥ ३९॥
त्रैगुण्यामलसम्भूतैर्दिव्यैर्दशभिरायुधैः ।
सर्वज्ञतादिसंसिद्धं हृदयादिषङ्गकम् ॥ ४०॥
पञ्चब्रह्मात्मवदनं पञ्चसादाख्यमूर्तिकम् ।
श्रीमत्पञ्चाक्षरमयं प्रणवाकारशालिनं(रूपिणम्) ॥ ४१॥ (प्रणवाकारमीश्वरम्)
समस्तवर्णरूपं च पञ्चब्रह्मकलामयम् ।
निवृत्तिज्ञानवैराग्य योगमोक्ष प्रतिष्ठया ॥ ४२॥
आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया ।
तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥ ४३॥
एवं पञ्चकलारूपमिदं सादाशिवं पुनः (वपुः) ।
चतुर्मूर्तिश्चतुर्वर्णा प्रतिवक्त्रांशुमण्डला ॥ ४४॥
एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी ।
अग्निवर्णा त्रिवदना विद्याशान्तिविशोभिता ॥ ४५॥
कृष्णवर्णा चतुर्वक्त्रा शान्तिध्वजविराजिता ।
पाशहृत्पञ्चवदना शान्त्यतीता शशिप्रभा ॥ ४६॥
सर्वाः पद्माक्षमालाढ्याः अभयेन विराजिताः ।
चतुर्भुजास्त्रिणयनाः पीनोन्नतपयोधराः ॥ ४७॥
आसां पञ्चाध्वगर्भान्ता पदाध्वान्ता सदाशिवः ।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा पवनाध्वकः ॥ ४८॥
तत्त्वाध्वा च कलाध्वा च षडध्वान इतीरिताः ।
चतुर्विंशत्पुराणानां भुवनानां शतद्वयम् ॥ ४९॥
भुवनाध्वा च स सञ्चिन्त्यो रोमवृन्दात्मना विभोः ।
पञ्चरुद्रादिरूपैश्च वर्णैर्वर्णाध्वकल्पना ॥ ५०॥
असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः ।
सप्तकोट्या महामन्त्रैर्मूलविद्यासमुद्भवैः ॥ ५१॥
मन्त्राध्वा रुधिरात्मासौ विचिन्त्यः पार्वतीपतेः ।
अनेकभेदसम्भिन्ना मन्त्राणां पादसंहतिः ॥ ५२॥
पादाध्वासौ पशुपतेः सिरामांसतया स्मृतम् ।
पृथिव्यादीनि षट्त्रिंशत्तत्वान्यागमवेदिभिः ॥ ५३॥
उक्तान्यमीभिस्तत्वाध्वा शुक्लमज्जास्थिरूपभृत् ।
नास्य देहेऽस्ति रुधिरं मांसं वा नास्ति किञ्चनः ॥ ५४॥
प्रतिबिम्बमिवाकाशे शक्रचापमिवाम्बरे ।
ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः ॥ ५५॥
तथापि कल्पनामात्रं कालव्याप्याध्वनामिदम् ।
ब्रह्मात्वीशानमूर्धानः पुरुषेण चतुर्मुखः ॥ ५६॥
हृदयादीन्यघोरेण गुह्यादीन्यपि वामतः ।
सद्योजातेन मन्त्रेण पादादीनि जगत्पतेः ॥ ५७॥
पञ्चमन्त्रतनुः शम्भुरेवं कल्पनया भवेत् ।
ओङ्कारबीजप्रभवः कलापञ्चकसंयुतः ॥ ५८॥
शुद्धस्फटिकसङ्काशः शुभमेधाविवर्धनः ।
सदाशिवात्मा व्योमस्थः ईशानः परिकीर्तितः ॥ ५९॥
गायन्त्रीप्रभवोमन्त्रः स्वर्णवर्णश्चतुष्कलः ।
वश्यकृद्गन्धवाहस्थः ईश्वरः पुरुषः स्मृतः ॥ ६०॥
अर्वप्रभवो मन्त्रः कलाष्टकविभूषितः ।
अभिचारकमत्यर्थमञ्जनाद्रिसमप्रभः ॥ ६१॥
अशेषाघहरः पुंसामघोरो रुद्रविग्रहः ।
सामवेदभवो मन्त्रस्त्रयोदशकलान्वितः ॥ ६२॥
वामदेवः प्रवालाभो वारितत्वास्थितो हरिः ।
यजुर्वेदोद्भवो मन्त्रः कलाष्टकयुतः स्थितः ॥ ६३॥
शान्तिकृत्पृथिवी संस्थः सद्योजातः पितामहः ।
तत्पूर्वश्चन्दबिम्बाभः ऋग्वेदवदनो अंशुमान् ॥ ६४॥
कलापञ्चदशोपेतो मुख्यमन्त्रात्मको हि सः ।
पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः ॥ ६५॥
खड्गखेटधनुर्बाणकमण्डल्वक्षधारिणः ।
वराभयोपेतकराः शूलपङ्कजपाणयः ॥ ६६॥
अघोरो घोर एतेषु तदन्ये सौम्यविग्रहाः ।
एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः ॥ ६७॥
तत्तद्बह्मकलाभेदैर्विचिन्त्याङ्गानि कल्पयेत् ॥ ६८॥
स्कन्द उवाच ।
बुद्ध्याभिध्याय रुध्वा विषमविषयजागाधबाधाप्रमुग्धं
दुग्धप्रायमदिग्धसर्वविषयाकारौघदग्धाघकम् ।
ध्यायेत क्षणमेव शिक्षणचणं त्र्यक्षं महोक्षस्थितं
सर्गापारविचक्षणेक्षणमुमे विक्षीणचिन्ताक्षकः ॥ ६९॥
वारंवारमपारसारकरुणावाराशिभाराशिहृद्-
घोराशीविषयानुभूषितभवोऽप्युन्मादभावोज्झितः ।
योषार्धाकृति कामकायदहनः सम्मोहनो मोहिनां
हेयानामविहायिनां अगसुते भूमैकसीमा शिवः ॥ ७०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवध्यानोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४८ शिवध्यानम् । १-७०॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 48 shivadhyAnam . 1-70..
Notes:
Śiva शिव delivers Upadeśa उपदेश to Devī देवी about Śivadhyāna शिवध्यान; especially wrt the Pañcabrahma पञ्चब्रह्म / Pañcavaktra पञ्चवक्त्र aspect.
Proofread by Ruma Dewan