ईश्वरप्रोक्तं शिवरात्रिपूजोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
सा तिथिर्दुर्लभतरा योग्ययुक्ता विशेषतः ।
शिवरात्रिव्रतं पुण्यं ममैव प्रीतिदं परम् ॥ १॥
शिवलिङ्गतयोद्भूतस्तस्यां रात्रौ महेश्वरः ।
ब्रह्मविष्ण्वोर्बोधनार्थं चतुर्दश्यां निशि प्रिये ॥ २॥
माघे कृष्णचतुर्दश्यां सोमपार्द्रक ऋक्षके ।
सा तिथिर्दुलभतरा योग्ययुक्ता विशेषतः ॥ ३॥
माघे कृष्णचतुर्दश्यां पूज्योऽहंलिङ्गमध्यमे ।
रात्रौ यामेषु चतुर्षु अनिद्रोपोषणादिभिः ॥ ४॥
नैत्यकं व्रतमेतद्धि सर्वेषां सर्वदं शिवे ।
त्रयोदश्यर्धघटिका यदि तस्याङ्गता भवेत् ॥ ५॥
प्रदोषपूजा तत्रैव कार्या सा प्रहरादिमे ।
निशीथसमये ग्राह्या माघकृष्णचतुर्दशी ॥ ६॥
तस्यां समस्तपुण्यानि तीर्थान्यायतनानि च ।
स्थावरे वा चरे लिङ्गे सङ्क्रमिष्यन्ति पार्वति ॥ ७॥
उपवासप्रभावेण अतन्द्रो निशि जागरात् ।
चतुर्यामार्चनाद्देवि बिल्वपत्रेण केवलम् ॥ ८॥
अक्षयं पुण्यमाप्नोति शिवसायुज्यमश्नुते ।
शिवे मे शिवरात्रिं यः पूजाजागरणैः नयेत् ॥ ९॥
अखण्डितव्रती स स्यादाखण्डलशतं वसेत् ।
शिवलोके सर्वभौगैः सुरासुरनमस्कृतः ॥ १०॥
नित्यं च कामिकं देवि शिवरात्रिव्रतं मम ।
ममैव भक्तो यो देवि शिवरात्र्यर्चको भवेत् ॥ ११॥
पूजाजागरणोपेतो रात्रौ यामचतुष्टयम् ।
गणत्वमक्षयं तस्य मम कैलासमूर्धनि ॥ १२॥
वर्षे वर्षे महादेवि नरानार्यो द्विजान्त्यजाः ।
शिवरात्रौ महादेवं नित्यं भक्त्या यजन्ति हि ॥ १३॥
देवा विधीन्द्रविष्ण्वाद्याः सदाराश्चासुरा द्विजाः ।
शिवरात्र्यां महादेवं पूजयन्ति दृढव्रताः ॥ १४॥
शिवरात्रिव्रताद्देवि त्रिःसत्यं न परात्परम् ।
न पूजयन्ति भक्त्येशं रुद्रं त्रिभुवनेश्वरम् ॥ १५॥
योऽन्नभुक् कृमिभुक् स स्यात्सनिद्रोऽजगरो भवेत् ।
नानायोनिसहस्रेषु भ्रमते सोऽधमो नरः ॥ १६॥
द्वादशाब्दकमेवं स्याच्चतुर्विंशाब्दकं तु वा ।
यावज्जन्म महापुण्यं कुर्वन्मद्गणपो भवेत् ॥ १७॥
माघकृष्णचतुर्दश्यां भौमः सोमः प्रशस्यते ।
भौमवारेण संयुक्ता कृष्णाङ्गारचतुर्दर्शी ॥ १८॥
यद्यार्द्रपातयुक्ता चेत् शिवयोगाः सुदुर्लभाः ।
स जन्मायुतपापघ्नस्तस्यां बिल्वैकपूजनात् ॥ १९॥
शिवयोगस्य योगोऽस्य सम्भवेदुत्तमोत्तमः ।
त्रयोदशीकलाप्येका मध्ये चैव चतुर्दशी ॥ २०॥
अन्ते चैव सिनीवाली त्रिस्पृश्यं शिवमर्चयेत् ।
अर्धरात्रादधश्चोर्ध्वा युक्ता या स्याच्चतुर्दशी ॥ २१॥
तस्यामेव प्रकुर्वीत सोऽश्वमेधफलं लभेत् ।
प्रदोषव्यपिनी चापि ग्राह्या सेयं शिवार्चकैः ॥ २२॥
प्रदोषैककलाव्याप्तौ परैषा सम्प्रशस्यते ।
पूर्वापरेऽह्नि देवेशि निशीथ व्यापिकोत्तमा ॥ २३॥
जागरं चोपवासं च तस्यां कुर्याच्छिवार्चकः ।
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवरात्रिपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३२ शिवरात्रिपूजाव्रतकथनम् । १-२४.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 32 shivarAtripUjAvratakathanam . 1-24.1..
Notes:
Śiva शिव delivers Upadeśa उपदेश to Pārvatī पार्वती about observing Śivarātri शिवरात्रि during Māgha Kṛṣṇa Caturdaśī माघ कृष्ण चतुर्दशी which was the night when He had appeared as a Śivaliṅga शिवलिङ्ग to induce Awareness in Brahmā ब्रह्मा and Viṣṇu विष्णु. Śivarātri शिवरात्रि during Māgha Kṛṣṇa Caturdaśī माघ कृष्ण चतुर्दशी - especially the one that is in conjunction with Trayodaśī त्रयोदशी - even though for a moment, is of special significance - whereby a prior Pradośa Pūjā प्रदोष पूजा should be conducted.
Śiva शिव explains other significant Yoga-s योग that may occur with Śivarātri शिवरात्रि, and about the merits of observing Śivarātri शिवरात्रि.
Proofread by Ruma Dewan