ऋषिगौतमप्रोक्तं शिवार्चनोपदेशम्

ऋषिगौतमप्रोक्तं शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) त्रिकालमप्रमादेन शिवमर्चय यत्नतः । गृहाण शाम्भवीं दीक्षां मोक्षार्थमपि यत्नतः ॥ ९६॥ मोक्षस्तु न भवत्येव विना शङ्करदीक्षया । सन्यासयोगो विज्ञेयो या दीक्षा शाम्भवी मता ॥ ९७॥ त्रिपुण्ड्रधारणं कार्यं ललाटादिषु भस्मना । रुद्राक्षधारणं कार्यमप्रमादेन सन्ततम् ॥ ९८॥ लिङ्गपूजैव कर्तव्या केवला सर्वसाधनैः । वेदावतंसः सततं जप्तः शैवः षडक्षरः ॥ ९९॥ रुद्राध्यायजपः कार्यः शिवमन्त्रसमाश्रयः । देवतासार्वभौमो यः सर्वदेवशिखामणिः ॥ १००॥ स एव सर्वदा ध्येयः पार्वतीरमणः प्रभुः ॥ १०१॥ सदा भस्मवता भाव्यं सदा रुद्राक्षधारिणा । श्रौतरुद्राक्षभस्मभ्यां विच्युतः पतितो भवेत् ॥ १०२॥ शैवप्रतानि कार्याणि तत्तत्कालेषु भक्तितः । शैवव्रतपरिभ्रष्टो भ्रष्ट एव भविष्यति ॥ १०३॥ दशशैवव्रतान्याहुर्जाबालश्रुतिपारगाः । तानि व्रतानि यत्नेन कार्याण्येव द्विजैः सदा ॥ १०४॥ प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् । कालाष्टम्यां तु तत्त्याज्यं भोजनं यत्नपूर्वकम् ॥ १०५॥ अवश्यं सितभूतायां कर्तव्यं निशि भोजनम् । असितायां तु भूतायां तन्न कार्यं द्विजातिभिः ॥ १०६॥ एकादश्यां सितायां तु त्याज्यं भोजनमास्तिकैः । असितायां तु भोक्तव्यं नक्ततमभ्यर्च्य शङ्करम् ॥ १०७॥ त्रयोदश्यां तु भोक्तव्यं रात्रावेव प्रयत्नतः । शिवलिङ्गार्चनं कार्यं स्वशक्त्या यत्नपूर्वकम् ॥ १०८॥ निशि यत्नेन कर्तव्यं भोजनं सोमवासरे । किमुतान्येषु दिवसेष्विति जाबालवादिनः ॥ १०९॥ ससोमा सितभूता या सार्द्रापातसमन्विता । तस्यामुपोषणं कार्यं निशि जागरणं तथा ॥ ११०॥ भोजनीयः प्रयत्नेन शैवः शक्तिपुरःसरम् । व्रतान्येतानि नियमात्कर्तव्यानि द्विजातिभिः ॥ १११॥ एतावन्तः शैवधर्माः शिवदीक्षेति गीयते । शैवमध्ये वस प्रीत्या शैवान्पोषय सर्वदा ॥ ११२॥ शैवानेवार्चय प्रीत्या शैवानेव विलोकयेत् । शिवालयानि यत्नेन कारयस्व यथोचितम् ॥ ११३॥ बहिर्बिल्ववनान्येव कारयस्व प्रयत्नतः । बिल्वपत्राणि सततं त्वमेवाहर सादरम् ॥ ११४॥ आहृत्य बिल्वपत्राणि पूजयस्व सदाशिवम् । अनभ्यर्च्य महादेवं मा मा भुङ्क्ष्व भ्रमादपि ॥ ११५॥ शिवतीर्थमपीत्वापि मा मा भुङ्क्ष्व कदाचन । कुरु यत्नेन सततं महादेवनिरीक्षणम् ॥ ११६॥ कुरु यत्नेन सततं शिवमन्त्रजपं सदा । सर्वदा नीलकण्ठेति महादेवेति संवद ॥ ११७॥ हृदि शङ्करमाराध्यं ध्यात्वा संवस सर्वदा । रुद्राक्षभस्मना सम्यग्भूषयस्व स्वकं वपुः ॥ ११८॥ यदा पुत्रा भविष्यन्ति तदा तानखिलानपि । शिवनामाङ्कितानेव कुरु यत्नेन सादरम् ॥ ११९॥ तानप्यवश्यं सम्बोध्य शाम्भवान्कुरु सर्वदा । प्रत्यहं शिवपूजायां नियोजय नृपात्मजान् ॥ १२०॥ यदा तु फलदध्यादि भोक्तव्यं ते भविष्यति । तदा स्तोकं नमः सोमेत्यादि मन्त्रान्पठ क्रमात् ॥ १२१॥ `हावुहावुहावु' इत्यादि मन्त्रान्पठ ततः परम् । अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ॥ १२२॥ ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् । इति वैदिकमन्त्रेण शिवपात्रं निवेदय ॥ १२३॥ शैवेभ्योऽप्यमुनान्नानि मनुनैव निवेदय । ततः परं तु तत्वायामीत्यादिमनुपञ्चकम् ॥ १२४॥ प्रत्येकं समनूद्यैव ततः प्राणाहुतिं कुरु । ततः परमुमाकान्तं कवले कवले स्मर ॥ १२५॥ मध्ये जलादिपानेऽपि स्मर साम्बं महेश्वरम् । स्मरन्हृदि महादेवं कुरु मौनेन भोजनम् ॥ १२६॥ वक्तव्यं यदि मध्ये स्यात्तदा शिवकथां वद । भुङ्क्ष्व शैवैः सहान्नानि पिब शैवैः सहामृतम् ॥ १२७॥ वस शैवैः सदा प्रीत्या यज शैवैः सहेश्वरम् । श‍ृणु शैवकथां नित्यं घोरपातकनाशिनीम् ॥ १२८॥ वद शङ्कर सर्वेश महादेवेति सर्वदा । अयं द्विजातिमात्रस्य धर्मोऽत्र समुदीरितः ॥ १२९॥ ब्रह्मक्षत्रियवैश्यानामेष धर्मः सनातनः । शिवक्षेत्रमिदं ज्ञेयमरुणाचलनामकम् ॥ १३०॥ अरुणाचलनाथस्य त्रिकालं कुरु पूजनम् । अशैवानां शिवक्षेत्रे प्रवेशो न यथातथा ॥ १३१॥ कुरु दैवादागतांस्तान्प्राणैरेव वियोजय । वाजपेयफलं प्राप्यमशैवानां विनाशने ॥ १३२॥ शैवधर्मेषु सततं निष्णातो भव सर्वदा । त्र्यम्बकेति च मन्त्रेण जप साम्बं सदाशिवम् ॥ १३३॥ त्र्यम्बकेति च मन्त्रेण यः पूजयति शङ्करम् । स सर्वान् लभते कामानिति जाबालवादिनः ॥ १३४॥ त्र्यम्बकैकशरण्यांस्तान् साम्बकानिति मन्महे । निरम्बकान्मन्महे तांस्त्रियम्बकपराङ्गमुखान् ॥ १३५॥ ?? ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं शिवार्चनोपदेशं १सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। ९६-१३५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 96-135.. Notes: Ṛṣi Gautama ऋषि गौतम delivers Upadeśa उपदेश about the procedures of worshiping Śiva शिव and highlights the importance of Śāmbhavi Dīkṣā शाम्भवी दीक्षा. He mentions about the important tithi-s तिथि and days (vāra वार) including Kālāṣṭami कालाष्टमी, Ekādashī एकादशी, Trayodashī त्रयोदशी, Somavāra सोमवार, w.r.t. Sita-Asita Pakṣa सित-असित पक्ष and the meal-timings to be followed. Ṛṣi Gautama ऋषि गौतम speaks about the Śaḍakṣara mantra षडक्षर मन्त्र, Rudrādhyāyī रुद्राध्यायी, worship at Aruṇācaleśvara अरुणाचलेश्वर; and emphasizes the use of the Tryambaka Mantra त्र्यम्बक मन्त्र for worshiping Sāmba SadāŚiva साम्ब सदाशिव. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Shivarchanopadesham
% File name             : shivArchanopadeshamgautamaproktaM.itx
% itxtitle              : shivArchanopadesham gautamaproktaM (shivarahasyAntargatam)
% engtitle              : shivArchanopadesham gautamaproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 21| 96-135||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org