स्कन्दप्रोक्तं भस्मतत्त्वोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- स्कन्दजैगीषव्यसंवादे -
स्कन्द उवाच -
श्रीभाललोचनेनैव बृहज्जाबालसम्भवम् ।
भस्मोक्तं विमुक्तेर्हि जन्म जन्मवतां मुने ॥ १॥
श्रृणुष्व सावधानेन त्वमेकाग्रेण चेतसा ।
सद्योजातोद्भवात् वक्त्रात् पृथिवी समजायत ॥ २॥
पृथिवीरूपिणी या सा गौर्जज्ञे कपिलाख्यया ।
नन्दा सा नामतो विप्र तस्यां भूतिर्बभूव ह ॥ ३॥
वामदेवमुखाच्छम्भोर्वार्यग्रे समजायत ।
कृष्णवर्णा ततो भद्रा तस्यां वै भसितं सितम् ॥ ४॥
प्रख्यातं मुनिशार्दूल शूलपाणिप्रसादकृत् ।
अघोरवक्त्रादभवत् लेलिहाननोज्ज्वलत्प्रभः ॥ ५॥
वह्निरह्नाय जगतां मध्याह्नार्कशतोपमः ।
रक्ता च वै श्वेतवर्णा सुरभिः समजायत ॥ ६॥
तस्यां हि भस्म सञ्जातं भासनं पावनं परम् ।
तत्पूरुषमुखाद्वायुः सर्वायुः कारणो महान् ॥ ७॥
तस्माच्छ्वेताऽभवद्वर्णा सुशीला गौः पयस्विनी ।
तस्मात्क्षारं समुत्पन्नं क्षरस्तप्तकुलं मुने ॥ ८॥
ईशानवक्त्रादाकाशो व्योमकेशाद्वभूव ह ।
तस्माच्च चित्रवर्णाभूत् सुमना सा पयस्विनी ॥ ९॥
तद्गोमयोत्था रक्षाऽभूत् साक्षात् त्र्यक्षप्रसादकृत् ।
विद्या शान्तिः प्रतिष्ठा च शान्त्यतीता मनोन्मनी ॥ १०॥
कलाः पञ्चसमुत्पन्नाः क्रमोऽयं शङ्कराज्ञया ।
विभूतिर्भसितं भस्म क्षारं रक्षेति वै मुने ॥ ११॥
भवन्ति पञ्चनामानि पञ्चवक्त्रोद्भवानि हि ।
ऐश्वर्यकारणा भूतिर्भस्म सर्वाघभक्षणात् ॥ १२॥
भासनाद्भसितं प्रोक्तं क्षारणात्क्षारमापदाम् ।
संसारभयभीतानां रक्षा संरक्षणान्मुने ॥ १३॥
अग्नीषोमात्मकं भस्म सम्प्रोक्तं मुनिसत्तम ।
एको वह्निर्यथा यज्ञे समिन्धेताध्वरे तदा ॥ १४॥
बहुरूपो मुनिश्रेष्ठ तथेदं भस्म पावनम् ।
अतनोर्देवदेवस्य अष्टमूर्तेः पिनाकिनः ॥ १५॥
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ।
सोमः शक्याऽमृतमयः शान्तिः कीर्तिकरी तनुः ॥ १६॥
अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् ।
स्थूलसूक्ष्मेषु भूतेषु ते एव रसतेजसी ॥ १७॥
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
वैद्युतादिमयं तेजो मधुरादिमयो रसः ॥ १८॥
तेजोरसविभेदेन जगद्व्याप्तं चराचरम् ।
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरिष्यते ॥ १९॥
अत एव हविः क्लृप्तं मुने सर्वमुखेषु च ।
हविषा सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ २०॥
विस्तृप्ताः सुराः सर्वे अग्नीषोमात्मकं जगत् ।
ऊर्ध्वशक्तिमयः सोमो ह्यधः शिवमयोऽनलः ॥ २१॥
आभ्यां सम्पुटितं यस्माच्छश्वद्विश्वमिदं जगत् ।
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परावृतम् ॥ २२॥
यावदस्यास्पदं सौम्यममृतं विसृजत्यधः ।
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा ॥ २३॥
यावता दहनश्चोर्ध्वमधश्चाप्लावनं भवेत् ।
आधारशक्तिविधृतः कालाग्निरयमूर्ध्वगः ॥ २४॥
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ।
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिरधः शिवः ॥ २५॥
तदित्थं शिवशक्तिभ्यां (विना) न व्याप्तमिह किञ्चन ।
असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् ॥ २६॥
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ।
यश्चेत्थं भस्मसद्भावं ज्ञात्वा हि स्नाति भस्मना ॥ २७॥
अग्निरित्यादिभिर्मन्त्रैर्दग्धपाशः स उच्यते ।
अग्नेर्वीर्यं तु तद्भस्म सोमेनाप्लावितं पुनः ॥ २८॥
अयोगयुक्ता प्रकृतिरधिकाराय कल्पते ।
योगयुक्तं तु तद्भस्म प्लाव्यमानं समन्ततः ॥ २९॥
शाक्तेनामृतवर्षेण स्वाधिकारान्निवर्तयेत् ।
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ॥ ३०॥
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ।
यो वेद गहनं युद्धं प्लावनं च तथोदितम् ॥ ३१॥
अग्नीषोममयं जगत्स्थिरचरं सम्भावितं शङ्करात्
सारासारविचारसागरमहापारीणधुर्या मुने ।
जानन्त्येव गतागतेषु नितरामुत्कृष्टभावाभवे
भावा एव भवेऽपि भावपरमा भस्मैकभावासदः ॥ ३४॥
अग्निष्टोमपुटोद्भवेन भसिता लोका व भूषाङ्गकाः
शाङ्गा एव भवन्ति भाग्यपरमाः पापौघभङ्गाशयाः ।
दग्धानङ्गमहाङ्गसङ्गभुजगाभोगाङ्गलिङ्गार्चकाः
पुण्यापारपतङ्ग भावभवनास्ते पावना भूतले ॥ ३५॥
यो वा कोवा विभूत्या भवति हि कलितो दिव्यदेहस्त्रिपुण्ड्रैः
सर्वेषामपि पावनो हि सभवेत्स्वालोकसङ्गेन हि ।
तत्सङ्गेन च खण्डिताघनिचयो भूयो भवेद्वै जनो
जानन्ति श्रुतियुक्तिसूक्तिवचनैस्तद्भस्मनोऽम्ब प्रभो ॥ ३६॥
आर्यावर्तस्थितार्याः श्रुतिगदितमहापूतभस्मादिभिर्ये
पुण्ड्रं भालतले निधाय विमलं सर्वाघसङ्घोज्झिताः ।
शर्वस्यैव समर्चनप्रियतरा गर्वादिवर्गोज्झिताः ।
ते वीर्यैरधिकास्तरन्ति भुवनं ह्याचार्यवृत्तिस्थिताः ॥ ३७॥
भस्मेदं स्मरहन्तृभालफलकालङ्कारभूतं सदा
पापौघातुलघस्मरं स्मृतिकृतां बुध्यादिबोधप्रदम् ।
ज्ञानं चापि दिशेत्युमे विधिघृतं तिर्यक्त्रिकालेष्वपि
सर्वेषामविशेषतो द्विजगणेषूक्तं विशेषेण हि ॥ ३८॥
समाम्नाताम्नाय प्रबलवचनेनालमितर-
प्रमाणानां सङ्घैः श्रुतिगदितसीमानुसारणम् ।
प्रमादो नो भूत्यै भवति सुख कीतिर्नविनश-
च्छिवोत्कर्षज्ञानं भवति च विमुक्तः परतरम् ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं भस्मतत्त्वोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ५ । १-३९॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 5 . 1-39..
Notes:
Skanda स्कन्द speaks to Jaigīṣavya जैगीषव्य about the origin of Bṛhajjābāla बृहज्जाबाल.
He explains about the origin Pañcatattva पञ्चतत्त्व from ŚivaPañcamukha-s शिवपञ्चमुखाः; viz.
Pṛthivī पृथिवी - Sadyojāta सद्योजात
Vāri वारि - Vāmadeva वामदेव
Vahni वह्नि - Aghora अघोर
Vāyu वायु - Tatpuruṣa तत्पुरुष
Vyoma व्योम - Īśāna ईशान
Five types of Bhasma are described i.e. BhasmaPañcanāmāni भस्मपञ्चनामानि viz., Vibhūti विभूति, Bhasita भसित, Bhasma भस्म, Kṣāra क्षार, Rakṣā रक्षा.
The AgniṢomātmaka अग्निषोमात्मक and ŚivaŚaktyātmaka शिवशक्त्यात्मक Nature of The Universe, and the Nature of Kālāgni कालाग्नि is defined in context of Yoga योग.
ŚivaRahasyam daśamāṃśaḥ शिवरहस्यं दशमांशः has several chapters devoted to Bhasma भस्म - it’s preparation, application, related mantra-s etc.
Proofread by Ruma Dewan