विष्णुप्रोक्तं शिवार्चनोपदेशम् ६
(शिवरहस्यान्तर्गते उग्राख्ये)
कण्वः (उवाच)
संसारताप सन्तप्तं मम चित्तमभूद्धरे ।
कथं संसारसन्ताप विच्छित्तिः स्याद्वदस्व मे ॥ १८४॥
विष्णुः (उवाच)
संसार सागरे घारे निमग्नानां दुरात्मनाम् ।
अपारकरुणासिन्धुः साम्ब एवावलम्बनम् ॥ १८५॥
- -
शिवमेव भजस्व सावधानं
सतु संसारदुरन्तदुःख हारी ।
बहुवस्तमुपास्य मुक्तिमापु-
स्त्रिपुरारिनिजभक्तमुक्ति हेतु ॥ १८६॥
नवबिल्वदलैरथान्तकान्तकं
यज कामान्तक मन्तकान्तकम् ।
विपदन्तकमन्तकान्तकं
शिवलिङ्गात्मकमाशु सन्ततम् ॥ १८७॥
बहुपापविमोचकं प्रभुं
यदिकालान्तकमर्चयिष्यति ।
सततं नियतं तदा भवा-
न्विषसंसारवशं न यास्यति ॥ १८८॥
भज भर्गमनर्गलप्रभुं
भगवन्तं भगनेवहारिणम् ।
भवभीमभयं तदा मुने
न भवन्तं प्रति भावयिष्यति ॥ १८९॥
भसिताभरणो भज प्रभुं
भवभीतिर्न भविष्यति ध्रुवम् ।
शुभदस्त्वयि शम्भुरव्ययो
नियतं तिष्ठति तं समर्चय ॥ १९०॥
नवबिल्वपलाशकाशपुष्पैः
कुशपुष्पैः कनकाह्वयप्रसूनैः ।
भसितेन च भाललोचनं
शिवलिङ्गे सततं समर्चय ॥ १९१॥
स कृदप्यमलैः सबिल्वपल्लवैः
कुशधुत्तूरपलाशकाशपुष्पैः ।
सजलैरभिपूज्य पार्वतीशं
सकलापज्जलधि तरन्ति धीराः ॥ १९२॥
हृदि तिष्ठति शैलजाधवे(पतौ)
शिवलिङ्गे च निरन्तरं शुभे ।
न यजन्ति नराधमाः सकृ-
न्नरकावासरता निरन्तरम् ॥ १९३॥
विदधाति परं पदं शिवः
कुशपत्रैरपि साधु पूजितः ।
तमुपास्य महेश्वरं भ्रमा-
त्सुरमन्यं समुपासते जनाः ॥ १९४॥
भगमन्तमुमापतिं भवं
भजनीयं न भजन्ति ये जनाः ।
नरकेषु पतन्ति ते जनाः
सततं सत्यमुदीर्यते मया ॥ १९५॥
दिवि ये न वसन्ति भूतलेऽपि
ग्रसिताः संसृतिघोरदन्दशूकैः ।
द्विज ते शिवपूजनौषधं
समवाप्यामृततां प्रयान्ति हि ॥ १९६॥
सकृदप्यतिभक्तिपूर्वकं
शिवमेवं प्रणमन्ति ते जनाः ।
अमरैरखिलैश्च ते नताः
सततं सत्यमिदं ध्रुवं ध्रुवम् ॥ १९७॥
कृतसर्वमखोऽपि जन्म धत्ते
कृतविश्वेशपदाम्बुजप्रणामः ।
न पुनर्जनिभाग्वदामि सत्यं
भुजमुद्धृत्य न संशयं कुरुध्वम् ॥ १९८॥
अकृतेशपदाम्बुजप्रणामा
नरकावासमवाप्य दुःखभोगम् ।
समवाप्य मुहुर्मुहुर्निवृत्ता
न भवन्ति प्रलयेऽपि सत्यमेव ॥ १९९॥
विविधामितपातकोच्चया ये
न नमन्ति त्रिपुरारिमादरेण ।
अत एव यमालयान्तरे ते
निवसन्त्यन्वहमाप्तदुःखभोगाः ॥ २००॥
प्रणमन्त्यमरास्त्रिलोचनं
मुनयः सिद्धगणाश्च सन्ततम् ।
निगमाश्च नमन्ति यं ततः
प्रणमस्व प्रणमाम्यहं तमीशम् ॥ २०१॥
सकलामरवन्दनीयमैशं
पदपद्मं त्रिदशकभागधेयम् ।
भज सन्ततमद्रिजासहायं
निरपायं निरवद्यमुक्त्युपायम् ॥ २०२॥
यज कोमलबिल्वपल्लवै-
रनुवारं भुजगाधिपैकहारम् ।
सकलाघहरं निरस्तवीरं
हरमाराधय तत्परं सदारम् ॥ २०३॥
भजतामभयप्रदं महेशं
भज मृत्युञ्जयमादरेण नित्यम् ।
तमपास्य न संवस द्विजं तं
हितमत्यन्तमुदीरितं मया ते ॥ २०४॥
द्विज ते शिवतुल्यमुत्तमं
न शिवान्यत्तव दैवतं सुरेषु ।
अत एव निरन्तरं (सुरेषु) महेशं
भज भालस्फुरदुज्ज्वलत्रिपुण्ड्रः ॥ २०५॥
द्विजदैवत दैवतं महेशं
यदि नाराधयसि प्रकाममीशम् ।
द्विजदैवत दानसङ्गता
तव सत्यं व वदामि नान्यथा ॥ २०६॥
अत एव तदर्चितः शिवो
वितरत्येव तदीप्सितं फलम् ।
सितकेवलभस्मधारणं
विधिवद्भूरि विधाय सादरम् ॥ २०७॥
सततं शिवनिष्ठचेतसां
तनुबन्धो न कदापि दुःखदः ॥ २०८॥
श्रुतिवोषितभस्मधारणं
विहितं यच्छिवलिङ्गपूजनम् ।
तदिदं द्वयमास्तिकैर्द्विजै-
र्नपरित्याज्यमिति श्रुतिःस्वयम् ॥ २०९॥
द्विज केवलभस्मधारणं
सततं केवललिङ्गपूजनम् ।
श्रुतिबोधितमित्यवेहि तस्मा-
त्तदुपास्यं द्वयमप्यनन्यभाजः ॥ २१०॥
शिवमेव यजस्व सर्वकालं
शिवभिन्नं न यजस्व मोहतोऽपि ।
शिवभिन्नसमर्चनं वृथैवे-
त्यनुवारं कुरु निश्चयं द्विज त्वम् ॥ २११॥
शिव शङ्कर चन्द्रशेखरे
त्यतिभक्त्या वद सन्ततं मुदा च ।
शिवनामजपं विहत्य नान्य-
ज्जपोमादपि नाम सर्वथैव ॥ २१२॥
शिवनामसुधैव विप्र पेया
सततं मुक्तिमभीप्सता द्विजेन ।
शिवनामसुधापरा तु जिह्वा
द्विज नानाविधभूरिपुण्यलभ्या ॥ २१३॥
शिवनाम सुधारतैव जिह्वा
महतामेव भवत्यतोऽनुवारम् ।
शिवशङ्कर चन्द्रशेखरेति
त्रिपुरारे इति सञ्जपस्व नित्यम् ॥ २१४॥
शिवनामसुधां मुहर्मुहुः
पिब सानन्दमनन्तरायमाशु ।
शिवनामसुधैव मुक्तिहेतु-
र्मुनिवृन्दैरखिलैश्च सेव्यमाना ॥ २१५॥
अमृतामृतमार्य मुक्तिबीजं
शिवनामामृतमित्यवैमि नूनम् ।
अत एव मुहुर्मुहुर्मया
शिवनामामृतमेव पीयते ॥ २१६॥
शिवनामसुधां निपीय भक्त्या
सुधियः साधु सुधां च नाद्रियन्ते ।
दिवि पीतसुधाः प्रयान्ति गर्भं
शिवनामामृतपाः प्रयान्ति मुक्तिम ॥ २१७॥
शिवनामसुधा विनिर्मिता
गिरिजेशेन पुरा कृपालुना ।
द्विज सात्कृतपुण्यसञ्चयै-
र्मुहुरत्यन्तमुदा निपीयते ॥ २१८॥
रसभाजनभोजने निदानं
रसना ह्येव यया मुहुः प्रकामम् ।
शिवनामसुधा निपीयते
नियमेनान्यविलापनं विहाय ॥ २१९॥
शिवमर्चितमन्वहं प्रसूनै-
र्नवबिल्वैरपि पश्य सावधानम् ।
इदमेव फलं मतं यतोऽक्ष्णो-
र्विलसत्पद्मपलशतुल्यकान्त्योः ॥ २२०॥
नवबिल्वदलैः समर्चितं
शिवलिङ्गं द्विज साधु पश्यताम् ।
विविधामितघोरपापसङ्घः
प्रलयं याति न संशयस्तदैवम् ॥ २२१॥
शृणु शर्वकथामघौघहन्त्री-
मनुवारं नियमेन सावधानम् ।
इदमेव फलं विनिश्चितं
श्रुतिभिः श्रोत्रयुगस्य वस्तुतस्तु ॥ २२२॥
नवकोमलबिल्वपल्लवैः
शिवलिङ्गं सविधानमर्चयित्वा ।
शिवसात्कृतबिल्वपलवा-
न्समुपाघ्राय विनोदयस्व चित्तम् ॥ २२३॥
स्पृश शङ्करमर्चितं त्रिकालं
सकलाघौघविनाशनाय नित्यम् ।
भज चेतसि भालचन्द्रमौलिं
मुहुरानन्ददमद्वितीयमेकम् ॥ २४४॥
मनसा वचसा च कर्मणा
शिव एकः शिवया समन्वितः ।
भजनीय इति श्रुतिः स्वयं
प्रतिवारं प्रतिबोधकृत्सदा ॥ २२५॥
त्रिपुरारिकथासुपूजनेऽपि
त्रिपुरारेरभिवीक्षणेऽपि चित्तम् ।
महतां भवति ह्यनन्यभाजां
न भवत्येव दुरात्मनां कदापि ॥ २२६॥
- -
दधीचिरुवाच
इति विष्णुवचः श्रुत्वा कण्वः सन्तुष्टमानसः ।
शिवार्चनपरो जातः सर्वभावेन सर्वदा ॥ २२७॥
अतो यत्नेन सततं कर्तव्यं शिवपूजनम् ।
शिवार्चनं यतो नित्यं भुक्तिमुक्तिफलप्रदम् ॥ २२८॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं ६ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । १८५-२२८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 185-228..
Notes:
Viṣṇu विष्णु delivers Upadeśa उपदेश (to Ṛṣi Kaṇva ऋषि कण्व) about the essentiality of worshiping Śiva शिव and savoring the Ambrosia/Nectar of The Name of Śiva शिवनामामृत / शिवनामसुधा.
Proofread by Ruma Dewan