दशोपनिषत्सारः सानुवादः

दशोपनिषत्सारः सानुवादः

श्रीगणेशाय नमः ॥ ॥ ॐ परमात्मने नमः ॥ देवीं दधिमतीं नत्वा सच्चिदानन्दरूपिणीम् । दशोपनिषदां सारो गोविन्देन विरच्यते ॥ १॥ ``उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया'' इति व्युत्पत्त्या ब्रह्मविद्याप्रतिपादके वेदशिरोभागेऽयमुपनिषच्छब्दः प्रयुज्यते । एष वेदशीर्षस्थानीयभागो वेदान्तनाम्ना प्रसिद्धः । अयं वेदान्त एव ब्रह्मविद्या । ब्रह्मणो विद्या ब्रह्मविद्या । सा च शुद्धचैतन्यात्मकस्य ब्रह्मणोऽभेदेन ज्ञानरूपा । अत एवेयं ब्रह्मज्ञानमिति भण्यते । ब्रह्मज्ञानमात्मज्ञानतत्त्वज्ञानमिति त्रीणि नामानि पर्यायवाचीनि । सैवात्मविद्या इति कथ्यते । ब्रह्मविद्यैव सर्वत्र समतां दर्शयति । ब्रह्मविद्ययैवाऽज्ञानग्रन्थयश्छिद्यन्ते । ब्रह्मविद्याप्राप्तिप्रभावेण कर्मचाञ्चल्यं सुसंयतं, चित्तं चान्तर्मुखी भवति । ब्रह्मविद्ययैव मिथ्यानुभूतिविनाशः परमसत्योपलब्धिश्च भवतः । ब्रह्मविद्ययैव चैकात्मरसप्रत्ययसारा-ऽवाङ्मनसगोचर-स्वयं प्रकाश-विज्ञान-स्वरूपचेतनानन्दघन-रसैकघन-ब्रह्मणः प्राप्तिः सम्पद्यते । अस्या ब्रह्मविद्यायाः प्रतिपादनं यस्मिन् वेदात्युच्चशिरोभागे वर्तते, स एवोपनिषन्नाम्ना कथ्यते । एतासामुपनिषदां मन्त्राणां समन्वयस्तथा मीमांसा भगवता वेदव्यासेन ब्रह्मसूत्रे विहिता । या वेदान्तदर्शननाम्ना व्यपदिश्यते । एताभ्य उपनिषद्भ्य एव गोपालनन्दनानन्दकन्दो भगवान् श्रीकृष्णचन्द्रः श्रीमद्भगवद्गीतायाममृतरूपदुग्धं सुधीभोक्तॄणामुपभोगार्थमधुक्षत् । अत एवोपनिषद्-ब्रह्मसूत्र-भगवद्गीतानामक-ग्रन्थरत्नत्रयं ``प्रस्थानत्रयी'' नाम्रा प्रथितमस्ति । भारतवर्षीयाः सर्वे धर्माचार्याः प्रस्थानत्रयीवलेनैव सत्यान्वेषणमकुर्वन् । वेदा अपौरुषेया अत एवस्त अनादयो मन्यन्ते । तेषु त्रयो विषयाः प्रायेण प्रतिपादिताः । तेन वेदस्य त्रयो भागाः क्रियन्ते, ये काण्डनामधेयेन ग्रसिद्धाः । कर्मकाण्डः १, उपासनाकाण्डः २, ज्ञानकाण्ड ३ श्रेति । कर्मकाण्डे कर्मणां समूहो विवेचितः । उपासनाकाण्डे देवादीनामीश्वरस्य चाराधना वर्णिता अस्ति । ज्ञानकाण्डे मूलतत्त्वविचारः कृतोऽस्ति । कर्मोपासने तत्तत्त्वोपलब्धये योग्यतां दत्तः ! अतस्त उभे साधनस्वरूपेः स्तः । ज्ञानं च सिद्धान्तरूपम् । वेदस्य ज्ञानकाण्ड एवोपनिषदिति नाम्नोच्यते । सा वेदान्तनाम्ना चाम्नाय-मस्तकनामधेयेन कथ्यते । अत उपनिषदो ब्रह्मज्ञानस्रोतांसि सन्ति । उपनिषदां महत्त्वं मुक्तकण्ठं सर्वै रेवाचार्यैः स्वदेशीयैर्विदेशीयैश्चाङ्गीकृतमस्ति । वस्तुतो ब्रह्मविद्यामहिमेदृश एव । येन ब्रह्मविद्यामृतपानं कृतं स कृतार्थः सञ्जातः । तस्य न किमपि कर्तव्यं, न च किमपि प्राप्तव्यमवशिष्यते । ब्रह्माकारवृत्तिवर्णनप्रसङ्गे वेदान्तसिद्धान्तमुक्तावलीग्रन्थकारः स्पष्टं स्तौति ब्रह्मचेतसम् - कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन । अपारसच्चित्सुखसागरेऽस्मिंल्लीनं परे ब्रह्मणि यस्य चेतः ॥ ब्रह्मज्ञानयुतपुरुषस्य दृष्टव्यां सकलसंसारः सच्चिदानन्दस्वरूपः सञ्जायते । असञ्जडरूपमिदं जगत् दुःखं च तेन नानुभूयते न प्रतीयते च । तद्द्दष्टयां तु द्रष्ट्टा-दृश्य-दृष्टीनामेकीभावस्तेषामभेदप्रतीतिश्च । स द्रष्टा तु स्वयमेको निश्चल-निर्वाध-निष्कल-सचिदानन्दस्वरूप-सत्तामात्र एव । उपनिषदो बहूव्यः सन्ति । नारायणोपनिषदि त्वष्टोत्तशतोपनिषदां नामान्युल्लिखितानि वर्तन्ते । तासु केवलं दशैव प्रधाना यासां नामानि निम्रोक्तानि प्रसिद्धानि सन्ति । ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा । । आसु दशसंख्यापरिमितासूपनिषत्सु ब्रह्ममीमांसा समीचीनतया विविधप्रकारैश्व वर्णिता प्रतिपादिता चास्ति । तासां क्रमेण सारांशोऽधस्ताद्वर्ण्यते ।

१. ईशावास्योपनिषत्सारः ।

इदं स्थावरजङ्गमात्मकं सर्वं जगत् अभिन्न-निमित्तोपादानकारणरूपेणेश्वरेण व्याप्तमस्ति । अर्थादिदं जगत् ईश्वरादेव प्रादुर्भूतमीश्वरेणैव च रचितमस्ति । तेनेश्वरेणैवेदं जगत् व्याप्तं पूर्णं च । यथोपादनकारणभूतया मृत्तिकया घट-शरावादिकं कार्य व्याप्तमस्ति तथैवेश्वरेणैवेदं सर्वं जगत् व्याप्तं वर्तते । अथवा यथा नृपदृष्टयादिद्वारा नगरादिकं व्याप्तं, तथैवेश्वरेण जगद्द्वाप्तम् । अथवा यथा मनुष्यशरीराणि वसनैराच्छादितानि, तथैवेश्वरेणेदं सर्वं विश्वं व्याप्तम् । अथवा यथा सुवासितकुसुमानि स्वसौरभेण जलं घ्राणतर्पणं कुर्वन्ति, तथैवेश्वरेण स्वस्फूर्त्या व्याप्येदं जगद्रमणीयतरं विहितम् । अथवा यथा प्रवृत्तिकारणभूतवासनाभिर्मनुष्यमनांसि व्याप्तानि, तथैवान्तर्यामिस्वरूपेणेश्वरेणैतद्विश्वं व्याप्तं वर्तते । एष ईश्वरो वायुरूपेण चलति, किन्तु स्वरूपेण न चलति, यतोऽयमक्रियः । अयमीश्वरोऽविदुषां दूरतमः, यदयमनन्तकोटिहायनैरपि तैः प्राप्तुमशक्यः । किन्तु विदुषामतिनिकटत्तरः, यदयं सर्वेषां भूतानां प्रत्यगात्मभूतः (सर्वान्तर्यामी) । अयमीश्वरोऽस्मिञ्चराचरात्मकदृश्यविश्वमध्ये वर्तते, तद्वहिश्व । यो ज्ञानी सर्वभूतेष्विममीश्वरं, ईश्वरे च सर्वभूतानि पश्यति, स अभेददर्शी पुरुषो न कमपि निन्दति न चापि स्तौति । स न कीदृशमपि शोकं, न मोहञ्चाधिगच्छति । ये परमेश्वरं न जानन्ति ते मरणानन्तरमन्धकारमयतमोरूपलोकं ( नरकं ) प्राप्नुवन्ति । अयमात्मा सर्वगत-शुद्ध-शरीररहित-क्षत-रहित-स्नायुरहित-निर्मल- निष्पाप-सर्वद्रष्ट्ट-सर्वज्ञ-सर्वोत्कृष्ट-स्वयम्भूस्वरूपो वर्तते ।

२. केनोपनिषत्सारः ।

ईश्वरः श्रोत्रस्यापि श्रोत्रम् । अर्थादीश्वरसामर्थ्यादेव श्रोत्रेन्द्रियं स्वविषयं शब्दं ग्रहीतुं समर्थं भवति । एष सर्वेश्वरो मनसोऽपि मनः । अर्थादेतन्मनः सर्वविषयोपलब्धेः साधारणकारणभूतमस्ति, तन्मन ईश्वरस्य शक्त्यैव स्वविषयमुपलब्धुं शक्तिमद्भवति । अयमीश्वरो वाचोऽपि वाक् । अर्थात् वागिन्द्रियमीश्वरानुग्रहेणैव शब्दोच्चारणरूपव्यापारं करोति । एष ईश्वरश्चक्षुषश्चक्षुः । अर्थादेतन्नेत्रेन्द्रियमीश्वरसाहाय्येनैव स्वविषयं रूपं गृह्णाति । अस्यायं भावः, श्रोत्रादीनां सर्वेन्द्रियाणां प्रवृत्तिः स्वस्वविषयेषु भवति, तत्प्रवृत्तेः कारणभूत ईश्वरस्तद्विलक्षण-चेतनस्वरूपः । यथा गृहनिर्माणकर्ता शिल्पी गृहाद्भिन्न एव । धीरपुरुषो देहश्रोत्रादीन्द्रियेष्वात्मवुद्धिं परित्यज्य तस्येश्वरस्यात्मरूपेण साक्षात्कृत्यामृतत्त्वमेति, जन्ममृत्यु रहितो भवति । इन्द्राग्निवाय्वादयः समर्थदेवा अप्यस्य सर्वसमर्थदेवेश्वरस्याधीनाः । तत्साहाय्यमन्तरेण न कश्चित् किञ्चिदपि कर्तुं समर्थो भवति ।

३. कठोपनिषत्सारः ।

ओमित्येत्पदं ब्रह्म । ओमितीश्वरनाम श्रेष्ठमालम्बनं, परमालम्बनम् । एतदालम्बनं ज्ञात्वा पुरुषो ब्रह्मलोके महत्वमापद्यते । अयं नित्यश्चेतनरूपात्मा न जायते, न म्रियते, न कदापि पूर्वं जातः । अयमजो नित्यः शाश्वतः पुराणः शरीरावसाने न म्रियते । यः कश्चिदेनं हन्तारमर्थात् हननक्रियाकर्तारं मन्यते, यश्चैनं हतमर्थात् हननक्रियायाः कर्म मन्यते, तावुभावेनं न जानीतः । आत्मा न कदाचिदपि म्रियते, न चापि मारयति, न च हन्यते । अयमात्मरूपेश्वरः परमाण्वादिसूक्ष्मवस्तुभ्योऽपि सूक्ष्मतमः । अयमात्माकाशादिमहद्वस्तुभ्योऽप्यत्यन्तमहत्तमः । अयं समस्तप्राणिनां बुद्धिरूपगुहायामन्तरवस्थितः । अर्थादयं बुद्धिद्वारा ज्ञायते । अस्यात्मनो महिमानं निष्कामपुरुषो निर्मलान्तःकरणप्रसादादेव पश्यति, तं द्दष्ठ्वा च शोकरहितो भवति । शोकलक्षितजन्ममरणादिरहितो भवतीत्यर्थः । अयमात्मा जाग्रत्स्वप्नावस्थाष्ववस्थितोऽपि दूरं गच्छति । साक्षिरूपेण स्थितो भवति ! सुषुप्तिदशायां सुप्तोऽपि सर्वत्र याति । विशेषज्ञानाभावेन सामान्यज्ञानरूपेण सर्वत्र गच्छन्निव कथ्यते । अयमात्मा अनित्यशरीरेष्वशरीररूपेण तिष्ठति । धीर एनं महान्तं विभुमात्मानमीश्वरं ज्ञात्वा कर्तृत्वादिबन्धनरहितो भवति । अतः शोककारणभूताऽज्ञाननिवृत्त्या शोकरहितो भवति ।

४. प्रश्नोपनिषत्सारः ।

यथा पक्षी वृक्षनीडे सम्प्रतिष्ठितो भवति सम्यक् निवसति, तथैवास्मिन् स्वयम्प्रकाशेश्वरे स्थूल-सूक्ष्म-पृथिवी-जल-तेजो-वायुवियदादयः सम्प्रतिष्ठिताः सन्ति । पृथिवी पृथिवीमात्रा गन्धः, जलं तन्मात्रा रसः, तेजस्तन्मात्रा रूपं, वायुस्तन्मात्रा स्पर्शः, आकाशस्तन्मात्रा शब्दः, चक्षुर्द्रष्टव्यं, श्रोत्रं श्रोतव्यं, घ्राणं घ्रातव्यं, रसः रसयितव्यं, त्वक् स्पर्शयितव्यं, वाक् वक्तव्यं, हस्तावादातव्यं, उपस्थमानन्दयितव्यं, पायुर्विसर्जयितव्यं, पादौ गन्तव्यं, मनो मन्तव्यं, बुद्धिर्बोद्धव्यं, अहङ्कारोऽहङ्कर्तव्यं, चित्तं चेतयितव्यं, तेजो विद्योतयितव्यं, प्राणो विधारयितव्यं, तत्सव स्वयम्प्रकाशे आनन्दस्वरूपे परमेश्वरे सम्प्रतिष्ठितम् । न केवलं पृथिव्यादिजडप्रपञ्चः । किन्तु द्रष्टा, स्प्रष्टा, श्रोता, घाता, रसयिता, मन्ता, बोद्धा, कर्ता, विज्ञानात्मा पुरुषः, एते सर्वेऽस्मिन्नेव परमात्मनि प्रतिष्टिताः । य इमं छायारहितं, शरीररहितं, वर्णरहितं, शुभ्रं, शुद्धमक्षरमात्मानं विजानाति, स तमेव परमाक्षररूपं परमात्मानं प्राप्नोति स्वयं सर्वः सर्वज्ञश्च भवति ।

५. मुण्ढकोपनिषत्सारः ।

अयं परमात्मा दिव्योऽमूर्तः पुरुषो बहिरन्तरोऽजोऽप्राणो ऽमनस्कः शुभ्रोऽक्षरात्परः । स्वकार्यात्परोऽव्याकृतस्तस्मादपि परः । अस्मात्परमात्मनः प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिर्जलं पृथिवी जायन्ते । या पृथिवी सर्वाधारभूता । अयं सर्वभूतानामन्तरात्मा । अग्निरस्य शीर्षस्थानीयः, चन्द्रसूर्यौ नेत्ररूपे, दिशा श्रोत्रम्, वेदोऽस्य वाक्, वायुरस्य प्राणः, विश्वं च हृदयं, पृथिवी पादरूपा । अस्माद् द्युलोकरूपोऽग्निर्जायते । यस्याग्नेः समिधः सूर्य-चन्द्र-पर्जन्यौषधयः पृथिवी । स्वर्गलोकं गतो जीवः सोमात्पर्जन्यं गच्छति, पर्जन्याद् वृष्टिद्वारा पृथिव्यामागच्छति, पृथिव्या ओषधिरूपेणान्ने सम्प्रजायते, अन्नं पुरुषो भक्षयति, अन्नसम्भूतं वीर्यं पुरुषो योषिति सिञ्चति, तेन ब्रह्वयः प्रजाः प्रजायन्ते । अस्मात्परमात्मन एव ऋग्वेदादयश्चत्वारो वेदाः दीक्षा-यज्ञ-क्रतु-दक्षिणा-संवत्सर-यजमान-नानालोका जायन्ते, येषु लोकेषु चन्द्रमा पवित्र यति सूर्यश्च तपति । एतानि सर्वाण्यक्षररूपपरमात्मनः सम्भूयन्ते । देवतासाध्य-मनुष्य-पशु-पक्षि-प्राणापान-व्रीहि-यव-तपः- श्रद्धा-सत्य-ब्रह्मचर्य-विधि-समुद्र-पर्वत- नद्यादयःसर्वाणि परमात्मन सम्प्रजायन्ते ।

६. माण्डूक्योपनिषत्सारः

``ॐ''-इत्यक्षरमिदं सर्वम् । भूतं भवत् भविष्यदिति सर्वमोङ्कार एव । अन्यत्त्रिकालातीतं तत्सर्वमोङ्कार एव । अयमात्मा ब्रह्म । इदं सर्वं ब्रह्म । अयमात्मा ओङ्कारः अ, उ, म्, नादरूपेण चतुष्पात् । तत्राकारः प्रथमपादो जाग्रत्स्थानः । अत्रायं बहिष्प्रज्ञ अर्थाद्वहिर्गन्ता गमनशीलो वा भवति । अस्य सप्ताङ्गानि, एकोनविंशतिर्मुखानि, अयं स्थूलस्य भोक्ता, अस्य नाम वैश्वानरः । द्यु-सूर्य-वायु-आकाश-जल-पृथिवी-आहवनीयाग्निरिति सप्त अङ्गानि । तेषां क्रमशो मस्तक-चक्षुः-प्राण-मध्यस्थान (उदरं)-बस्ति (मूत्रस्थानं) पाद-मुखानि निवासस्थानानि । पञ्च ज्ञानेन्द्रियाणि-पञ्च कर्मेन्द्रि-याणि-पञ्च प्राणाः-चत्वारोऽन्तःकरणवृत्तयो मनोबुद्धिश्चित्तोऽहङ्काररूपाः एकोनविंशतिः मुखानि सन्ति । अस्य द्वितीयपाद उकारः स्वप्नस्थानः । अत्रायमन्तःप्रज्ञ अर्थात् हृद्देशे द्रष्टा भवति । जाग्रद्वदस्यापि सप्ताङ्गानि, एकोनविंशतिः मुखानि । अत्रायं वासनामयभोगान् भुनक्ति । अस्य तैजस इति नाम । अस्य तृतीयपादो मकारः सुषुप्तिस्थानो यत्रायं सुप्तो न कामपि कामनामिच्छति, न चापि स्वप्नं पश्यति । सुषुप्तिस्थानेऽयमेकीभूतः प्रज्ञानघन आनन्दमयो वर्तते । केवलमानन्दमेव भुनक्ति । अत्रार्यं चेतोमुखः । प्राज्ञोऽस्य नामधेयम् । अयं सर्वेश्वरः, एष सर्वज्ञः, एषोऽन्तर्यामी, एष कारणरूपः, अस्मादेव सर्वेषां भूतानामुत्पत्तिप्रलयौ स्तः । चतुर्थपादो नादरूपो न अन्तःप्रज्ञो, न बहिष्प्रज्ञ, न उभयतः प्रज्ञः, न प्रज्ञानघनः, न प्रज्ञः, नाप्रज्ञः, नादृष्टः, नाव्यवहार्यः, अग्राह्यः, अलक्षणः, अचिन्त्यः, अव्यपदेश्यः (शब्दशक्तेरविषयः), एक आत्मा, एतदाकारस्य प्रत्ययोऽर्थादव्यभिचारीज्ञानमेवास्मिन् सारः--प्रमाणरूपः । अयं प्रपञ्चरहितः शान्तोऽद्वैतश्च । अयं चतुर्थः पादो मन्यते । स आत्मा, स विज्ञेयः ( ज्ञातुं योग्यः ) । य एनं जानाति स आत्मद्वारा आत्मानमाप्नोति ।

७. तैत्तिरियोपनिषत्सारः ॥

ओमिति ब्रह्म । ओमिति इदं सर्वम् । ब्रह्मवित् परमात्मानमाप्नोति । सत्यं ज्ञानमनन्तं ब्रह्म । यतः परमात्मनो वाचो मनसा सह गत्वा तमप्राप्य निर्वतन्ते । तमानन्दरूपं ब्रह्म ज्ञात्वा पुरुषः कुतश्चन न विभेति । आनन्द इति परं ब्रह्म । इदमेव ज्ञेयम् । अग्रे इदं जगत् असत् (अव्याकृत-ब्रह्मरूपं) एवासीत् । तस्मादसतो ब्रह्मणः सत् (नामरूपात्मकव्यत्तरूपं जगत्) अजायत । तदसह्रह्म एव स्वयमात्मानं नामरूपात्मकजगद्रूपेणारचयत् । अत एव तत्सुकृत (स्वयंकृत) इत्युच्यते । तत्सुकृतमेव रसरूपः । रसो वै सः । रस आनन्दरूपः । यत इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यास्मिंश्च प्रलयकाले पुनराविशन्ति । तद् ब्रह्म । अन्नं, प्राणो, मनो, विज्ञानं, आनन्द एतानि सर्वाणि ब्रह्मरूपाणि । आनन्द एव ब्रह्म । एषा भार्गवी वारूणीविद्या परमाकाशे हृदि प्रतिष्ठिता । एषा विद्या हृदयाकाशरूपगुहायां परमानन्दाद्वैतस्वरूपे ब्रह्मणि समाप्यते । यो विद्वानेतां जानाति स ब्रह्मणि स्थितो भवति । स ब्रह्मैव भवति ।

८. ऐतरेयोपनिषत्सारः ।

आत्मा द्विविधः । जीवात्मा परमात्मा चेति । तयोर्जीवात्मा तूपासकः, परमात्मा चोपास्यः । अयं जीवात्मा येन प्रेरितो रूपं पश्यति, शब्दं श‍ृणोति, गन्धं जिघ्रति, वाचं वत्ति, रसं जानाति, मनसा सङ्कल्पयति, बुद्धया निश्चिनोति, चित्तेन ध्यायति सुखदुःखान्यनुभवति च, अहङ्कारेणाहम्भावं करोति, तदेव विज्ञानरूपं ब्रह्म । प्रज्ञानं सर्वरूपेण सर्वत्र वर्तते । एष प्रज्ञानरूपात्मा एव ब्रह्म, एष इन्द्रः, एष प्रजापतिः, एते सर्वे देवाः, इमानि पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींपि सर्वाणि प्रज्ञाने प्रतिष्ठितानि । जरायुजा-ऽण्डज-स्वेदजो-द्भिज्जरूपेण चतुष्प्रकारकस्थावरजङ्गमात्मकप्राणिसमूहो बीजानि पशवः पक्षिणश्च सर्वे प्रज्ञाने प्रतिष्ठिताः । प्रज्ञानं ब्रह्म । प्रज्ञानमिति चैतन्यात्मा परमात्मा । य इदं प्रज्ञानरूपं ब्रह्म जानाति, स अस्माल्लोकादुत्क्रम्य स्वर्गलोके स्वयंप्रकाशात्मकब्रह्मणि सर्वकामनां प्राप्यामृतो भवति ।

९. छान्दोग्योपनिषत्सारः

इदमग्रे सृष्टिरचनापूर्वसमयेऽसदेव आसीत् । तत्सदासीत् । तदद्वितीयमासीत् । इदं सर्वं जगदस्यैव स्वरूपम् । तत्सत्यम् । स आत्मा । तत्त्वमसि । तदेकस्य ज्ञानेन सर्वं ज्ञातं भवति । यथा मृत्तिकैव सत्यं । मृत्तिकाकार्यभूतानि घट-शरावादीनि वाणीमात्रत्वात्सर्वाणि मिथ्यारूपाणि । यथा लोहं सत्यम् । तन्निर्मितखड्गछुरिकादीनि कार्यरूपाणि कथनमात्रत्वात् मिथ्यारूपाणि । यथा सुवर्णं सत्यम् । हेमनिर्मितानि कटककुण्डलादीनि कथनमात्रत्वात् मिथ्यारूपाणि । एवमेवायं सद्रूप आत्मा (ब्रह्म) सत्यम् । अस्य कार्यभूतसमस्तनामरूपात्मकं जगत् कथनमात्रत्वान्मिथ्या । सर्वे प्राणिनः सुखमभिलषन्ति । न कोऽपि दुःखमिच्छति । विद्वांसः सुखप्राप्त्यर्थमिन्द्रियसंयमादीन्याचरन्ति । सुखं विजानीयात् । किं सुखम् ? । यो भूमा (महान्) तत् सुखम् । अल्पे सुखं नास्ति । भूमा एव सुखम् । भूमा एव विजिज्ञासितव्यं । को भूमा ? । यत्रान्यन्न पश्यति, अन्यन्न श‍ृणोति, अन्यन्न विजानाति, स भूमा । यत्रान्यत्पश्यति, अन्यच्छृणोति, अन्यद्विजानाति, तदल्पम् । यो भूमा तदमृतम् । यदल्पं तन्मतर्य (मृत्यु-ग्रस्त)म् । स भूमा स्वमहिम्नि प्रतिष्ठितो न प्रतिष्ठितश्च । यो भूमा स आत्मा परमात्मा । य आत्मानं जानाति स स्वराट् (स्वयम्प्रकाशो) भवति । स कामचारो भवति ।

१०. वृहदारण्यकोपनिषत्सारः ।

अक्षरं ब्रह्म । एतस्याक्षरस्याज्ञायां सूर्याचन्द्रमसौ वर्तते । एतस्याक्षरपरब्रह्मण आज्ञायां स्वर्गपृथिव्यौ वर्तेते विधृते च । एतस्याक्षरपरमात्मन अज्ञायां निमेष-मुहूर्त्त-दिवस-रात्रि-पक्ष-मास-ऋतु-संवत्सरादीनि सर्वाणि विधृतानि तिष्ठन्ति । एतस्याक्षरपुरुषस्याज्ञायां गङ्गायमुनादिनद्यो हिमालयात् स्यन्दमाना पूर्वदिशायां वहन्ति । एतस्याक्षरस्याज्ञया मनुष्या दातारं प्रशंसन्ति । यद्यपि देवा अन्यप्रकारेण जीवितुं समर्थास्तथापि ते यजमानदत्तपुरोडाशादिकं प्रसन्नतया स्वीकुर्वन्ति । अर्यमादयः पितरश्च श्राद्धदत्तपदार्थं गृह्णन्ति । यः पुरुष एतदक्षरं ब्रह्म ज्ञात्वा जुहोति, यजते, तपस्तप्यते, स अनन्तफलभाग्भवति । य एतदक्षरब्रह्म अज्ञात्वा अस्माल्लोकान्मृत्युं प्राप्य गच्छति स कृपणः । यश्चैतदक्षरं ज्ञात्वा अस्माल्लोकात्परलोकं गच्छति स ब्राह्मणः (ब्रह्मज्ञानी) । एतदक्षरमदृष्टमपि द्रष्ट्ट, अश्रुतमपि श्रोतृ, अमतमपि मन्तृ, अविज्ञातमपि विज्ञात् । अतोऽन्यन्न किमपि दृष्ट्ट, श्रोतृ, मन्तृ, विज्ञातृ । अस्मिन्नक्षरे सर्वमोतप्रोतम् । अस्मिन् समस्तं ब्रह्माण्डमोतप्रोतम् । रज्जौ भुजङ्गवदारोपितम् । अयं सच्चिदानन्दस्वरूपः परमात्मा विज्ञातव्यो द्रष्टव्यश्च । श्रवण-मनन-निदिध्यासनरूपाराधनया परमात्मा ज्ञायते दृश्यते च । ॐ शम् । गोविन्द-भवन, जोधपुर ता० २२-३१-३८ नारायणोत्तरपद-गोविन्देन सुधीमता । दशोपनिषदां सारो रचितः स्यात्सतां मुदे ॥ १॥ शराङ्कनिधिभूवर्षे (१९९५) मार्गमासे मिते दले । योधपूर्यां प्रतिपदि समाप्तौ भौमवासरे ॥ २॥

। भाषानुवाद ।

यस्मादुत्पद्यते विश्वं यस्मिन्नेव च लीयते । पुनश्च धार्यते येन तं नमामि सदात्मकम् ॥ १॥ यो हि चेतयते विश्वं विश्वेन चेत्यते न यः । सर्वचेतनरूपश्च तं नमामि चिदात्मकम् ॥ २॥ सदा सुखयते विश्वं स्वयम्भूश्च स्वयम्प्रभः । आनन्दघनरूपो यस्तं नमामि सुखात्मकम् ॥ ३॥ ``उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया'' अर्थ-जिस से ब्रह्म के समीप बैठा जाय वा ब्रह्मात्मभाव प्राप्त किया जाय, वह उपनिषत् है-इस व्युत्पति से ब्रह्मविद्या के प्रतिपादक वेद के शिरोभाग के वास्ते ``उपनिषत्'' शब्द का प्रयोग किया जाता है । यह वेद का शीर्षस्थानीय भाग ``वेदान्त'' नाम से प्रसिद्ध है । यह वेदान्त ही ब्रह्मविद्या है । ब्रह्म की विद्या ``ब्रह्मविद्या'' कहाती है । वही शुद्ध-चैतन्य स्वरूप ब्रह्म के साथ अभेदरूप होने से ज्ञानरूप है । इसीलिये यह ब्रह्मविद्या ब्रह्मज्ञान नाम से पुकारी जाती है । ब्रह्मज्ञान-आत्मज्ञान-तत्त्वज्ञान ये तीनों नाम पर्यायवाची हैं । इसी को आत्मविद्या भी कहते हैं । ब्रह्मविद्या ही सर्वत्र समता का दर्शन कराती है । व्रझविद्या से ही अज्ञान की ग्रन्थियों का नाश होता है । ब्रह्मविद्या की प्राप्ति के प्रभाव से कर्म की चञ्चलता नियमित और चित्त अन्तर्मुखी होता है । ब्रह्मविद्या से ही मिथ्या अनुभव का विनाश और परम सत्य की प्राप्ति होती है । ब्रह्मविद्या से ही एकात्मरस-प्रत्ययसार, अवाङ्मननसगोचर, स्वयम्प्रकाश, विज्ञानस्वरूप, चेतनानन्दघन, रसैकघन, ब्रह्म की प्राप्ति होती है । वेदों के जिस अत्युच्च शिरोभाग में इस ब्रह्मविद्या का प्रतिपादन है, वही उपनिषत् नाम से कहा जाता है । इन्हीं उपनिषदों के मन्त्रों का समन्वय और मीमांसा भगवान् वेदव्यासजी ने ``ब्रह्मसूत्र'' में की है । जो ``वेदान्तदर्शन'' के नाम से पुकारा जाता है । इन्हीं उपनिषत् रूपी गौओं से गोपालनन्दन भगवान् श्रीकृष्णचन्द्र आनन्दकन्द ने विद्वानों के उपभोग के लिये श्रीमद्भगवद्गीता में अमृतरूप दूध को दुहा है । इसीलिये उपनिषत्-ब्रह्म सूत्र-श्रीमद्भगवद्गीता ये तीनों ग्रन्थरत्न ``प्रस्थानत्रयी'' के नाम से प्रख्यात हैं । भारतवासी समस्त धर्माचार्यों ने इसी प्रस्थानत्रयी के प्रकाश से ही सत्य की खोज की थी । वेद अपौरुषेय हैं, इसी से अनादि माने जाते हैं । इन वेदों में प्रायः तीन विषयों का प्रतिपादन किया गया है । इस से वेद के तीन भाग किये जाते हैं, जो ''काण्ड'' के नाम से प्रसिद्ध हैं । कर्मकाण्ड १, उपासनाकाण्ड २ और ज्ञानकाण्ड ३ ये तीन काण्ड हैं । । कर्मकाण्ड में कर्मों के समूह का विवेचन है, उपासनाकाण्ड में देवादि की और ईश्वर की आराधना का वर्णन है और ज्ञानकाण्ड में मूलतत्त्व का विचार किया गया है । कर्म और उपासना ये दोनों उस तत्त्व की उपलब्धि में योग्यता प्रदान करते हैं । इसलिये वे साधनस्वरूप हैं । और ज्ञान सिद्धान्तरूप है । वेद का ज्ञानकाण्ड ही उपनिषत् इस नाम से कहा जाता है । वह उपनिषत् ``वेदान्त'' अथवा ``आम्नायमस्तक'' नाम से पुकारी जाती है । इस से उपनिषत् ब्रह्मज्ञान के स्रोतस्वरूप हैं । उपनिषदों का महत्व क्या तो इस देश के और क्या विदेश के सब आचार्यों ने मुक्तकण्ठ स्वीकार किया है । वास्तव में उपनिषदों की महिमा ऐसी ही है । जिस किसी ने ब्रह्म-विद्या के अमृत का पान किया, वह कृतार्थ होगया । उसके न तो कुछ कर्तव्य शेष रहता है और न कुछ प्राप्त करने योग्य पदार्थ ही । ब्रह्माकार-वृत्ति का वर्णन करने के प्रसङ्ग में वेदान्तसिद्धान्तमुक्तावली ग्रन्थ के कर्ता ब्रह्म में चित्त लगाने वाले पुरुष की इस प्रकार स्पष्ट रूप से स्तुति करते हैंः- कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च तेन । अपारसच्चित्सुखसागरेऽस्मिंलीनं परे ब्रह्मणि यस्य चेतः ॥ अर्थ-जस पुरुष का चित्त उस अपार सत्-चित्-आनन्द के समुद्र रूप परब्रह्म में निमग्न हो गया है उस का कुल पवित्र, माता कृतकृत्य और पृथिवी पुण्यवाली हो जाती है । ब्रह्मज्ञानी पुरुष की दृष्टि में समस्त संसार सच्चिदानन्द स्वरूप हो जाता है । असत् रूप इस संसार और दुःख का उसे न तो अनुभव होता है और न प्रतीति ही होती है । उस की दृष्टि में तो द्रष्टा, दृश्य और दृष्टि इन तीनों का भेद ही नहीं रहता और सब एक-भाव से रहते हैं । और वह स्वयं एक, निश्चल, निर्बाध, निष्कल, साचदानन्दस्वरूप सत्तामात्र हो जाता है । उपनिषत् बहुतसी हैं । नारायणोपनिषत् में एक सौ आठ उपनिषदों के नाम दिये हुए हैं । उन में से केवल दस ही प्रधान हैं जिन के नाम निम्न पद्य में दिये हुए हैंः- ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरः । ऐतरेयं च छान्दोग्र्य वृहदारण्यं तथा ॥ अर्थ-ईश १, केन २, कठ ३ प्रश्न ४, मुण्डक ५, माण्डूक्य ६, तैत्तिरीय ७, ऐतरेय ८, छादोग्य ९ और बृहदारण्यक १० - ये दश हैं । इन दश उपनिषदों में ब्रह्म की मीमांसा भली भाँति और नाना प्रकार से की हुई है । उन का क्रमानुसार नीचे सारांश दिया जाता है ।

१. ईशावास्य उपनिषत् का सार ।

यह स्थावर-जंगम रूप सर्व जगत् अभिन्न-निमित्त-उपादान कारण रूप ईश्वर से व्याप्त है अर्थात् ईश्वर में से यह जगत् बना है और ईश्वर ने ही जगत् को बनाया है । उस ईश्वर ने इस जगत् को व्यास यानी पूर्ण कर रखा है, जैसे कि उपादान कारण रूप मृत्तिका ने घट-शरावादि कार्य को व्याप्त कर रखा है, वैसे ही ईश्वर ने इस जगत् को व्याप्त कर रखा है । अथवा जैसे राजा की दृष्टि द्वारा नगरादि व्याप्त हुए रहते हैं, वैसे ईश्वर से जगत् व्याप्त किया हुआ है । अथवा जैसे मनुष्यों के शरीर वस्त्रादि से व्याप्त वा आच्छादित (ढके हुए) होते हैं, वैसे ईश्वर ने इस जगत् को व्याप्त वा आच्छादित कर रखा है । अथवा जैसे सुवासित पुष्प अपनी सुगन्ध से जल को रमणीय बनाते हैं, वैसे ईश्वर ने अपनी स्फूर्ति से इस जगत् को व्याप्त करके रमणीय बना दिया है । अथवा जैसे प्रवृत्ति की कारण-रूप वासनाएं जीवों के मन को व्याप्त किये हुए हैं, वैसे अन्तर्यामी ईश्वर ने इस जगत् को व्याप्त कर रखा है । यह ईश्वर वायु आदि रूप से चलता है, स्वरूप से नहीं चलता, क्योंकि अक्रिय है । यह ईश्वर अविद्वानों को दूर से भी दूर है, वे करोडों वर्षों में भी उसे नहीं पा सकते और विद्वानों के लिये पास से भी पास है, क्योंकि यह सच का प्रत्यगात्मा (अन्तर्यामी ) है । यह ईश्वर इस चराचर दृश्य के भीतर है और वाहर भी है । जो इस ईश्वर को सब भूतों में और सब भूतों को ईश्वर में देखता है, वह अभेददर्शी पुरुष किसी की निन्दा वा स्तुति नहीं करता । उस अभेददर्शी को न शोक होता है, न मोह होता हैं । जो इस ईश्वर को नहीं जानते, वे मरने के पश्चात् अन्धकार रूप तम से घिरे हुए लोकों (नरकों) को प्राप्त होते हैं । यह परमात्मा सर्वान्तर्यामी वा सर्वव्यापक, शुद्ध, शरीररहित, क्षत-रहित, स्नायु (नाडियों से ) रहित, निर्मल, धूर्म-अधर्मरूप पाप से रहित, सर्व द्रष्टा वा साक्षी, सर्वज्ञ, सर्वोत्कृष्ट और स्वयम्भू है ।

२. केनोपनिषत् का सार ।

यह ईश्वर श्रोत्र का भी श्रोत्र है अर्थात् ईश्वर के सामर्थ्य से श्रोत्र इन्द्रिय अपना विषय ``शब्द'' ग्रहण करने में समर्थ होती है । यह ईश्वर मनका भी मन है, अर्थात् मन जो सर्व विषयों को उपलब्ध करने का कारण है, वह मन ईश्वर की शक्ति से अपने विषयों को उपलब्ध करने में शक्तिमान् होता है । यह ईश्वर वाणी की वाणी है, अर्थात् वागिन्द्रिय ईश्वर के अनुग्रह से शब्द उच्चारण करने का व्यापार करती है । यह ईश्वर चक्षु का चक्षु है, अर्थात् नेत्र-इन्द्रिय ईश्वर की सहायता से अपने विषय ``रूप'' को ग्रहण करती है । भाव यह है कि, श्रोत्रादि सब इन्द्रियों की प्रवृत्ति जो अपने अपने विषयों में होती है, उस प्रवृत्ति का कारणभूत ईश्वर उन सब से विलक्षण चेतन-स्वरूप है, जैसे कि मकान आदि का घनाने वाला राज (कारीगर) मकान आदि से भिन्न होता है । धीर पुरुष देह और श्रोत्रादि इन्द्रियों में से आत्मबुद्धि त्याग कर इस ईश्वर का आत्म-रूप से साक्षात्कार करके अमृत अर्थात् मरण-रहित (अमर) हो जाते हैं । इन्द्र, वायु और अग्नि आदि समर्थ देवता भी इस सर्व-समर्थ देव ईश्वर के आधीन हैं, उस की सहायता विना कोई किञ्चित भी करने में समर्थ नहीं है ।

३. कठोपनिषत् का सार ।

``ओं'' यह अक्षर ब्रह्म है । ``ओं'' यह ईश्वर का नाम श्रेष्ठ आलम्बन है, परम आलम्बन है, इस आलम्बन को जानकर पुरुष ब्रह्मलोक में महत्व को प्राप्त होता है । यह नित्य चैतन्य-रूप आत्मा न तो जन्मता है, न मरता है, यह कभी उत्पन्न नहीं हुआ है, अज है, नित्य है, शाश्वत है, पुराण है, शरीर के मरने से यह नहीं मरता । जो इस को हन्ता यानी हनन-क्रिया का कर्ता मानता है और जो इस को हत यानी हनन-क्रिया का कर्म मानता है, वे दोनों इस को नहीं जानते । न यह कभी मरता है, न मारता है और न मारा जाता है । यह आत्मा-ईश्वर परमाणु आदि सूक्ष्म से भी अति सूक्ष्म और आकाश आदि महान् से भी अत्यन्त महान् है, समस्त जन्तुओं की बुद्धि-रूप गुहा में स्थित है । अर्थात् बुद्धि से जानने में आता है । इस आत्मा की महिमा को निष्काम पुरुष निर्मल अन्तःकरण के प्रसाद (कृपा) से देखता है और देखकर वीत-शोक हो जाता है, यानी शोक से लक्षित जन्म-मरणादि से रहित हो जाता है । यह आत्मा जाग्रत् और स्वम अवस्था में बैठा हुआ ही दूर चला जाता है यानी साक्षी रूप से स्थित रहता है और सुपुप्ति अवस्था में सोता हुआ सर्वत्र चला जाता है, यानी विशेष ज्ञान के अभाव से सामान्य ज्ञानरूप से सर्वत्र जाता हुआ-सा कहलाता है । यह अनित्य शरीरों में अशरीर रूप से स्थित है । इस महान्, विभु, आत्मा, ईश्वर को जान कर धीर पुरुष कर्तृत्वादि रूप बन्धन से रहित हो जाता है । इस लिये शोक के कारण अज्ञान के निवृत्त हो जाने से पुरुष शोकरहित हो जाता है ।

४. प्रश्नोपनिषत् का सार ।

जैसे पक्षी वृक्ष के घोंसले में सम्प्रतिष्ठित होते हैं-भली प्रकार से रहते हैं, इसी प्रकार इस स्वयम्प्रकाश ईश्वर में स्थूल, सूक्ष्म, पृथिवी, जल, तेज, वायु और आकाश सम्प्रतिष्ठित हैं । चक्षु द्रष्टव्य, श्रोत्र श्रोतव्य, घ्राण घ्रातव्य, रस रसयितव्य, त्वक् स्पर्शयितव्य, वाक् वक्तव्य, हस्त आदातव्य, उपस्थ आनन्दयितव्य, पायु विसर्जयितव्य, पाद गन्तव्य, मत मन्तव्य, बुद्धि बोद्धव्य, अहंकार अहंकर्तव्य, चित्त चेतयितव्य, तेज विद्योतयितव्य और प्राण विधारयितव्य-ये सब स्वयम्प्रकाश आनन्दखरूप ईश्वर में सम्प्रतिष्ठित हैं । पृथिवी आदि जड प्रपञ्च ही नहीं, किन्तु द्रष्टा, स्प्रष्टा, श्रोता, घ्राता, रसयिता, मन्ता, बोद्धा, कर्ता और विज्ञानात्मा पुरुष, ये सभी इस परमात्मा में सम्प्रतिष्ठित हैं । जो इस छायारहित, शरीररहित, वर्णरहित, शुभ्र, शुद्ध अक्षर को जानता है, वह परम अक्षर को ही प्राप्त होता है और सर्व एवं सर्वज्ञ हो जाता है ।

५. मुण्डकोपनिषत् का सार ।

यह परमात्मा दिव्य है, अमूर्त है, पुरुष है, बाहिर है, भीतर है, अज है, अप्राण है, अमन है, शुभ्र है और अपने कार्य से पर जो अक्षर अव्याकृत है, उस से भी पर है । इस ईश्वर में से प्राण, मन, सर्व इन्द्रियां, आकाश, वायु, ज्योतिः, जल और विश्व को धारण करने वाली पृथिवी उत्पन्न होती है । यह सव भूतों का अन्तरात्मा है । अग्रि इस का सिर है, चन्द्र-सूर्य इस के नेत्र हैं । दिशा श्रोत्र हैं, वेद इस की वाणी है, वायु इस का प्राण है, विश्व हृदय है और पृथिवी इस के पैर हैं । इस से द्युलोक रूप अग्रि उत्पन्न होता है, जिस अग्नि का समिध सूर्य, चन्द्रमा, पर्जन्य, औषधि और पृथिवी हैं । स्वर्ग लोक को गया हुआ जीव सोम से पर्जन्य को आता है, पर्जन्य से वृष्टि द्वारा पृथिवी पर आता है, पृथिवी से औषधि रूप अन्न में आता है, अन्न को पुरुष भक्षण करता है, अन्न से बने हुए वीर्य को योषित् (स्त्री) में सींचता है, उस से बहुतसी प्रजा उत्पन्न होती है । ऋगादि चारों वेद, दीक्षा, यज्ञ, क्रतु, दक्षिणा, संवत्सर, यजमान और लोक, जिन में चन्द्र पवित्र करता है और सूर्य तपता है, वे सब अक्षर ईश्वर से उत्पन्न होते हैं । देवता, साध्य, मनुष्य, पशु, पक्षी, प्राण, अपान, ब्रीहि, यव, तप, श्रद्धा, सत्य, ब्रह्मचर्य, विधि, निषेध, समुद्र, पर्वत और नदियां, सब ईश्वर से उत्पन्न होते हैं ।

६. माण्डुक्योपनिषत् का सार ।

``ॐ'' यह अक्षर ही सब कुछ है । यह जो कुछ भूत, वर्तमान और भविष्यत् है सब कुछ ओंकार ही है । दूसरा भी तीनों कालों के सिवा जो कुछ है वह भी ओंकार ही है । यह आत्मा ब्रह्म है । यह सच ब्रह्म है । यह आत्मारूप ओंकार अ-उ-म-नाद रूप से चार पाद ( अंशों) वाला है । उन में ``अकार'' प्रथम पाद जाग्रत् अवस्था रूप स्थान वाला है । यहां यह बहिःप्रज्ञ यानी बाहिर का जाने वाला होता है । इस के सात अंग और उन्नीस मुख हैं । स्थूल इस का भोग है और इस का नाम वैश्वानर है । द्यु, सूर्य, वायु, आकाश, जल, पृथिवी और आहवनीय अग्नि-ये इस के सात अंग हैं । शिर, चक्षु, प्राण, पेट वाति (मूत्रस्थान), पैर और मुख-ये सात स्थान क्रमशः सात अंगों के रहने के हैं । पांच ज्ञानेन्द्रिय, पांच कर्मेन्द्रिय, पांच प्राण, चार अन्तःकरण-ये उन्नीस इस के मुख हैं । इस का दूसरा पाद ``उकार'' स्वप्न-स्थान वाला है । यहां यह अन्तःप्रज्ञ होता है, यानी हृदय में देखने वाला होता है । जाग्रत् के समान यहां भी इस के सात अंग और उन्नीस मुख हैं । यहां यह वासनामय भोग भोगता है, तैजस इस का नाम है । तीसरा पाद ``मकार'' सुषुप्ति-स्थान वाला है, जहां यह सोता हुआ न कुछ कामना करता है, न स्वप्न देखता है । सुषुतस्थान में एकीभूत, प्रज्ञानघन, आनन्दमय होता है, आनन्द को ही भोगता है, यहां यह चेतोमुख होता है, प्राज्ञ इस का नाम है । यह सर्वेश्वर है, यह सर्वज्ञ है, अन्तर्यामी है, कारण है, सब भूतों की उत्पत्ति और नाश इस से होते हैं । चौथा पाद ``नाद'' रूप न तो अन्तःप्रज्ञ है, न बहिःप्रज्ञ है, न उभयतः प्रज्ञ है, न प्रज्ञानघन है, न प्रज्ञ है, न अप्रज्ञ है, अदृष्ट है, अव्यवहार्य है, अग्राह्य है, अलक्षण है, अचिन्त्य है, अव्यपदेश्य है-शब्दशक्ति का अविषय है, एक आत्मा, इस आकार का प्रत्यय यानी अव्यभिचारी ज्ञान ही इस में सार-प्रमाण है; यह प्रपञ्च से रहित है, शान्त है, यह अद्वैत है । यह चौथा पाद माना जाता है । वह आत्मा है, वह विज्ञेय (जानने योग्य) है, जो इसको जानता है, वह आत्मा द्वारा आत्मा को ही प्राप्त होता है ।

७. तैत्तिरियोपनिषत् का सार ।

``ओं'' यह शब्द-ब्रह्म है । ॐ यह सर्व-स्वरूप है । ब्रह्म का जानने वाला परमात्मा को प्राप्त होता है, ब्रह्म सत्य, ज्ञान और अनन्त है । जिस ब्रह्म-रूप परमात्मा को वाणी और मन दोनों नहीं पहुँचते, किन्तु उसे प्राप्त न करके वापिस लौट आते हैं । उस आनन्द-रूप ब्रह्म को जान कर पुरुष किसी से भी भयभीत नहीं होता । आनन्द यह पर-ब्रह्म है । यह ब्रह्म ही जानने योग्य है । सब से पहले यह जगत् असत् अर्थात् अव्याकृत ब्रह्म रूप ही था । उसी अप्रकट ब्रह्म से इस सत् अर्थात् नाम-रूपात्मक व्यक्त जगत् की उत्पत्ति हुई । उस असत् ब्रह्म ने ही स्वयं अपने को ही नाम-रूपात्मक जगत् रूप से रचा । इसी लिये वह सुकृत (वा स्वकृत वा स्वयं रचा हुआ) कहा जाता है । वह सुकृत ही रसरूप है । वह ब्रह्म रस-रूप है । वह रस आनन्द रूप है । जिस आनन्द से ही ये सब प्राणी उत्पन्न होते हैं, उत्पन्न होने पर आनन्द के द्वारा ही जीते हैं और प्रलय समय में उसी आनन्द में समा जाते हैं, वह आनन्द ब्रह्म है । अन्न, प्राण, मन, विज्ञान, आनन्द ये सब ब्रह्म-स्वरूप हैं । आनन्द ही ब्रह्म है । यह भृगु ऋषि की जानी हुई और वरुण की उपदेश की हुई अर्थात् वरुण की भृगु से कही हुई विद्या है । यह विद्या हृदयाकाश-रूप गुहा में परमानन्द अद्वत ब्रह्म में समाप्त होती है । जो विद्वान् इस को जानता है, वह ब्रह्म में स्थित हो जाता है । वह ब्रह्म ही हो जाता है ।

८. ऐतरेयोपनिषत् का सार ।

आत्मा दो प्रकार का है । जीवात्मा और परमात्मा । इनमें जीवात्मा तो उपासक है और परमात्मा उपास्य हैं । यह जीवात्मा जिस की प्रेरणा से रूप को देखता है, शब्द को सुनता है, गन्ध को सूंघता है, वाणी को बोलता है रस वा स्वाद को जानता है, मन से संकल्प करता हैं, बुद्धि से निश्चय करता है, चित्त से ध्यान करता हैं और सुखःदुख का अनुभव करता हैं, अहंकार से अहम्भाव अर्थात् ``यह मैं और मेरा'' ऐसा विचार करता है, वही विज्ञान-रूप ब्रह्म है । प्रज्ञान सर्व-स्वरूप ब्रह्म से सर्वत्र-विद्यमान है । यह प्रज्ञान रूप आत्मा ही ब्रह्म है । यही इन्द्र है । यही प्रजापति है । ये सच देवता, ये पांच महाभूत पृथिवी, जल, अग्नि, वायु और आकाश प्रज्ञान में प्रतिष्ठित हैं । जरायुज, अंडज, स्वेदज, उद्भिज्ज ये चार प्रकार के स्थावर-जगंग प्राणी सब प्रज्ञान में प्रतिष्ठित हैं । वैसे चीज ( कारण रूप ), पशु, पक्षी आदि सव अज्ञान में प्रतिष्ठित हैं । प्रज्ञान ही ब्रह्म है । प्रज्ञान-रूप चैतन्य आत्मा परमात्मा है । जो इस प्रज्ञान-रूप ब्रह्म को जानता है, वह इस लोक से जाकर स्वर्ग लोक में स्वयम्प्रकाश-रूप ब्रह्म में सब कामनाओं को प्राप्त होकर अमृत अर्थात् अमर हो जाता है ।

९. छान्दोग्योपनिषत् का सार ।

यह सत् ही सृष्टि के पूर्व एक अद्वितीय था । सब जगत् इसी का स्वरूप है । वह सत्य है, वह आत्मा है, वह तू है । इस एक के जानने से सब का ज्ञान हो जाता है । जैसे मृत्तिका सत्य है, मृत्तिका के कार्य घट-शराव आदि वाणी-मात्र होने से मिथ्या हैं । जैसे लोहा सत्य है, तलवार, चाकू आदि लोहे के कार्य कथन-मात्र होने से मिथ्या हैं और जैसे सुवर्ण सत्य है, सुवर्ण के कनक-कुंडल आदि कहने-मात्र होने से मिथ्या हैं । इसी प्रकार यह सत्-रूप आत्मा सत्य है और इस का कार्य नाम-रूप जगत् कथन-मात्र होने से मिथ्या है । सब सुख चाहते हैं, दुःख कोई नहीं चाहता । विद्वान् सुख के लिये इन्द्रियसयंमादि करते हैं । सुख को जानना चाहिये । सुख क्या है? जो भूमा यानी महान् है, वह सुख है । अल्प में सुख नहीं है । भूमा ही सुख है । भूमा को जानना चाहिये । भूमा क्या है ? जहां दूसरे को नहीं देखता, दूसरे को नहीं सुनता, दूसरे को नहीं जानता, वह भूमा है । जहां दूसरे को देखता है, दूसरे को सुनता है, दूसरे को जानता है, वह अल्प है । जो भूमा है वह अमृत है और जो अल्प है वह मर्त्य वा मृत्यु-ग्रस्त है । जो इस भूमा को जानता है, वह स्वराट् होता है और सब लोकों में उस का काम-चार होता है ।

१०. वृहदारण्यकोपनिषत् का सार ।

इस अक्षर परमेश्वर की आज्ञा में सूर्य और चन्द्रमा वर्तते हैं । इस अक्षर की आज्ञा में खर्ग और पृथवी ठहरे हुए हैं । इस की आज्ञा में निमेष, मुहूर्त, दिन, रात, पक्ष, मास, ऋतु और संवत्सर हैं । इस अक्षर की आज्ञा से गंगा-यमुनादि नदियां हिमालय पर्वत से निकल कर पूर्व दिशा को बहती हैं । इस अक्षर की आज्ञा से दानी की मनुष्य प्रशंसा करते हैं । देवता अन्य प्रकार से जीने में समर्थ हैं तो भी यजमान के दिये हुए पुरोडाशादि को प्रसन्नता से ग्रहण करते हैं और अर्यमादि पितर श्राद्ध में दिये हुए पदार्थों को लेते हैं । जो इस अक्षर को जान कर हवन करता है, यज्ञ करता है और तप करता है, वह अनन्त फल पाता है । जो इस अक्षर को न जान कर इस लोक से मर कर जाता है, वह कृपण है और जो इस को जान कर इस लोक से मर कर जाता है वह ब्राह्मण है । यह अक्षर अदृष्ट होकर द्रष्टा है, अश्रुत होकर श्रोता है, अमत होकर मन्ता है, अविज्ञात हो कर भी विज्ञाता है, इस के सिवा अन्य द्रष्टा, श्रोता, मन्ता, विज्ञाता नहीं है । इस से समस्त ब्रह्माण्ड ओत-प्रोत है, रज्जु में भुजंगादि के समान आरोपित है । यह सच्चिदानन्द-स्वरूप परमेश्वर जानने और देखने योग्य है । श्रवण-मनन-निदिध्यासन रूप आराधना से ईश्वर जानने और देखने में आता है । इति शम् । इति दशोपनिषत्सार-भावानुवाद ! नारायणोत्तर पद-गोविन्देन सुधीमता । दशोपनिषदां सारो रचितः स्यात सतां मुदे । गोविन्द गोविन्द-भवन, जोधपुर । ता० २४-११-३८ Encoded and proofread by Pranab Mukherjee pranab9 at gmail.com
% Text title            : Dashopanishatsara Essence of Ten Principal Upanishads with Hindi Translation
% File name             : dashopaniShatsAra.itx
% itxtitle              : dashopaniShatsAraH sArthaH (nArAyaNapaNDitavirachitam)
% engtitle              : dashopaniShatsAraH sArthaH
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : nArAyaNapaNDita
% Language              : Sanskrit - Hindi
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pranab Mukherjee pranab9 at gmail.com
% Proofread by          : Pranab Mukherjee pranab9 at gmail.com
% Description/comments  : Isha kena kaTha prashna muNDa mANDUkya tittiraH aitareyaM ChAndogyaM bRihadAraNyakaM
% Indexextra            : (Scan
% Latest update         : July 8, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org