पूर्वम्: ७।४।९७
अनन्तरम्: ८।१।२
 
सूत्रम्
सर्वस्य द्वे॥ ८।१।१
काशिका-वृत्तिः
सर्वस्य द्वे ८।१।१

सर्वस्य इति च द्वे इति च एतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः पदस्य ८।१।१६ इत्यतः प्राक्, सर्वस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति नित्यवीप्सयोः ८।१।४ इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्च अर्थतश्च उभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ हवतः। पचति पचति। ग्रामो ग्रामो रमणीयः। यदा तु द्विः प्रयोगो द्विर्वचनम् तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्य इति किम्? विस्पष्टार्थम्। अथ पदस्य इत्येव कस्मान् न उच्यते? न एवं शक्यम्, इह हि न स्यात् प्रपचति प्रपचति इति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोः असिद्धत्वादकृतयोरेव तयोर् द्विवचनं प्राप्नोति, तत्र पश्चाद् विकल्पे सत्यनिष्तम् अपि स्यात् द्रोग्धा द्रोढा, द्रोढा द्रोग्धा इति। तस्माद् वक्तव्यम् एतत् पूर्वत्र असिद्धीयम् अद्विर्वचने इति। सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्।
न्यासः
सर्वस्य द्वे। , ८।१।१

स्वरितलिङ्गासङ्गादधिकारत्वमस्यावगम्याह--"सर्वस्य" इत्यादि। "वक्ष्यामः" इति। व्याख्यास्याम इत्यर्थः। "प्राक्? पदस्य" ["पदस्य" इत्यतः प्राक्()--काशिका] इति। "पदस्य" (८।१।१६) इति वक्ष्यमाणो यो योगस्तस्मात्? प्रागिन्यर्थः। "पदस्य" ८।१।१६ इति वक्ष्यमाणस्य योगस्यानुकरणमेतत्()। विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्यादिवक्षितत्वादसत्यर्थवत्वे प्रातिपदिकत्वाभावान्न भवति, यथा--गवित्ययमाहेति। "सर्वस्य द्वे भवत इत्येवं तद्वेदितव्यम्()" इति। इतिकरणोऽर्थनिर्देशार्थः। "सर्वस्य द्वे भवतः" इति योऽयमर्थः प्रतीयत एतदर्थरूपं तद्वक्ष्यमाणं वेदितव्यमित्यर्थः। "वक्ष्यति" इति। सूत्रकारः। "तत्र" इति। "नित्यवीप्सयोः" ८।१।४ इत्यत्र योगे। इह द्वौ पक्षौ सम्भवतः--स्थाने द्विर्वचनम्(), द्विष्प्रयोगो द्विर्वचनञ्चेति। कथं कृत्वा? सर्वस्येति शब्दानुशासनप्रस्तावात्? सर्वस्य शब्दस्येति गम्यते। यद्? द्विशब्दश्चायं "आदशभ्यः संख्याः संख्येये वत्र्तन्ते" (हे।ग।९०) इति संख्येयवचनः, तच्चेह संख्येयं शब्दरूपं वा स्यात्(), आवृत्तिर्वा? "द्वे" इत्यपि निर्देशो नपुंसकलिङ्गेन वा स्यात्()? स्त्रीलिङ्गेन वा? तत्र यदा नपुंसकलिङ्गेन निर्देशः, तदा शब्दरूपे संख्येये। यदि स्त्रीलिङ्गेन निर्देशा, तदा शब्दस्यावृत्ती उच्चारणलक्षणे क्रिये। तत्र यदा शब्दरूपे विधीयेते तदा सर्वस्येति स्थानषष्ठीयं सम्पद्यते; अनियतसम्बन्धत्वात्? "षष्ठी स्थानेयोगा" १।१।४८ इति न्यायात्()। अस्मिन्? दर्शने "स्थाने द्विर्वचनम्()" इत्येष पक्षो भवति। यदा तु द्वे आवृत्ती विधीयेते तदा "द्विष्प्रयोगो द्विर्वचनम्()" इत्येष पक्षो जायते। अस्मिन्? दर्शने स्थान्यादेशभावो नास्ति। आवृत्तिर्हि क्रिया, तस्याश्चेह शब्दः साधनम्()। न च क्रियायाः साधनस्य च स्थान्यादेशभाव उपपद्यते। यदि हि स्यात्(), शब्दस्य स्थानिनो निवृत्तिधर्मत्वान्निवृत्तिरेव स्यात्(); ततश्च क्रियाया अभाव एव स्यात्()। न हि शब्देन विनोच्चारणक्रियोपपद्यते; तस्याः शब्दधर्मत्वात्()। तस्माद्यदाद्वे आवृत्ती विधीयेते तदा "द्विष्प्रयोगो द्विर्वचनम्()" इत्येष पक्ष उपजायते। अ()स्मस्तु पक्ष आवृ()त्तिशब्दापेक्षया सर्वस्येति "कर्त्()तृकर्मणोः कृति" २।३।६५ इति कृद्योगलक्षणा कर्त्तृषष्ठी वेदितव्या। सर्वो हि शब्द आवर्त्त्यमान एवावृत्तिक्रियायाः कत्र्ता भवति। अवाद्यां पक्षमाश्रित्यैतदुक्तम्()--सर्वस्य स्थाने द्वे भवत इति। कथं पुनः स्थाने द्विर्वचनपक्ष आश्रितः? कथं पुनर्नाश्रयितव्यः? सदोषत्वात्()। स्थाने द्विर्वचने पुनः--()आलिट्च्छवलिट्(), दाग्वागिति "पूर्वत्रासिद्धम्()" (८।२।१) इत्यसिद्धत्वात्? पूर्वं ढत्वादिभ्यो द्विर्वचने कृते ढत्वादयोऽत्र न सिद्ध्यन्ति; अपदान्तत्वात्()? नैष दोषः; वक्ष्यति ह्रेतत्()--"पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।दृ।७०) इति। अपि च नित्येऽर्थे वीप्सायाञ्च यः शब्दो वत्र्तते तस्य द्विर्वचनं विधीयते, न च ढत्वादिष्वकृतेषु नित्यादावर्थे पदस्य वृत्तिरुपपद्यते। तस्मात्? पूर्वं ढत्वादिभिरेव भवितव्यम्(); पश्चाद्()द्विर्वचनेनेत्येष क्रमः। इह तर्हि विसंविसम्(), मुसलम्भुलमित्यत्र "आदेशप्रत्यययोः" (८।३।५९) इति षत्वं प्राप्नोति? अयमप्यदोषः; यस्मादादेशो यः सकारस्तस्य षत्वं विधीयते, न ह्रत्रादेशः सकारः, किं तर्हि? तदवयवः। इह तर्हि नृभिर्नृभिरित्यत्र "रषाभ्यां नो णः समानपदे" (८।४।१) इति णत्वं प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकरस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन प्राप्नोति? एषोऽप्यदोषः; कार्यिणो नकारस्य रेफादिना निमित्तेन यदा सर्वदा समानपदस्थत्वमेवं सति णत्वेन भवितव्यमित#इ। किं वक्तव्यमेतत्()? न; कथं तर्हि अनुच्यमानं लभ्यते? समानग्रहणसामथ्र्यात्()। यदि हि यत्र समानपदस्थत्वमसमानपदत्वञ्च तत्रापि स्यात्(), समानग्रहणमनर्थकं स्यात्()। नृभिरिति शब्दस्य नकारस्य द्विर्वचन एव कृते रेफेण निमित्तेन समानपदस्थत्वम्(), नाऽकृते। तस्माददुष्ट एव स्थाने द्विर्वचनपक्ष इति युक्त एवाश्रयितुम्()। "के द्वे" इति। एवं मन्यते--विशिष्टे द्वे एवेष्येते, इह च विशेषानुपादानादनियमेन ये केचन शब्दरूपे अप्नुत इति। "स्थानेऽन्तरतमः" १।१।४९ इति परिभाषया व्यवस्था भवितव्यतीत्यनेनाभिप्रायेणाह--"ये शब्दतश्च" इत्यादि। इह केषाञ्चित्? शब्दानां शब्दत एवान्तरतम्यम्(), यथा--बिभीतकादिवाचिनामक्षादिशब्दानाम्()। केषाञ्चिदर्थत एव, न शब्दतः, यथा--तरुपादपादिशब्दानाम्()। केषाञ्चिदुभयत एव, यथा--द्वयोः पजतिशब्दयोस्तिङतयोः। ततोभयथा यत्रान्तरतम्यमस्ति तत्र यथा स्यादित्येवमर्थमुभयोग्र्रहणम्()। एतच्च "स्थानेऽन्तरतमः" (१।१५०) इति परिभाषायास्तमब्ग्रहणाल्लभ्यते। ते एवोभयथाऽन्तरतमे दर्शयितुमाह--"एकस्य" इत्यादि। अथ "स्वं रूपं शब्दस्याशब्दसंज्ञा" (१।१।६८) इति स्वरूपग्रहणाद्()द्विशब्दादेश एव कस्मान्न भवति? द्विर्वचनेन निर्देशात्()। स्वरूपग्रहणे तु सति द्विशब्दादेशप्रसङ्गः। यतश्चायं "तस्य परमाभ्रेडितम्()" ८।१।२, "अनुदात्तञ्च" ८।१।३ इत्याह, ततो, विज्ञायते--न द्विशब्दादेश इति। द्विशब्दादेशे हि सति भेदनिबन्धनत्वात्? परस्य द्विशब्दस्य चाभिन्नत्वात्? परत्वमेव तावन्न द्विशब्दादेशे स्यात्(), कुतः पुनराम्रेडितसंज्ञा, अनुदात्तत्वञ्च? यदि च द्विशब्द आदेशः स्यात्(), "अव्यक्तानुकरणस्यात इतौ" ६।१।९५ इत्यनुवत्र्तमाने "नाम्रेडितस्यान्त्यस्य तु या" ६।१।९६ इत्याम्रेडितावयवस्याच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, न द्विशब्दस्याच्छब्दोऽवयवोऽस्ति। एतेन सर्वशब्दस्यापि स्वरूपग्रहणं प्रतिक्षिप्तम्()। यदि हि सर्वशब्दस्य स्वरूपग्रहणं स्यात्(), तस्यैव हि द्विर्वचनं स्यात्()। ततश्च पूर्ववदाम्रेडितसम्बन्धिनोऽच्छब्दस्य पररूपत्वप्रतिषेधो नोपपद्यते, "नित्यवीप्सयोः" ८।१।४ इत्यत्र नित्यग्रहणं चानर्थकं स्यात्()। तत्र हि नित्येऽर्थे वीप्सायां च वत्र्तमानस्य द्विर्वचनं विधास्यते। न च सर्वशब्दस्य नित्येऽर्थे वृत्तिरस्ति, तिङ्क्षु नित्यता; "अव्ययकृत्सुच्सुप्सु वीप्सा" इति वचनात्()। तस्मात्? सर्वस्येत्यत्रार्थग्रहणम्()। सर्वशब्दोऽयमिह सकले कलावति वत्र्तते, तेन पचतीत्यादेः कृत्स्नस्य शब्दस्य द्विर्वचनं भवतीत्यलमतिप्रसङ्गेन। एवं तावत्? स्थाने द्विर्वचनपक्षमाश्रित्य "सर्वस्य स्थाने द्वे भवतः" इत्युक्तम्()। इदानीम्? "द्विष्प्रयोगो द्विर्वचनम्()" इति पक्षमाश्रित्याह--"यदा तु" इत्यादि। तुशब्दः पूर्वस्मात्? पक्षाद्विशेवस्य प्रदर्शकः, तत्रान्तरतम्येन द्वे शब्दरूपे आदिश्येते। इह तु स एव शब्दो द्विरावर्त्त्यते, द्विरुच्यत इत्यर्थः। "द्वे आवृत्ती भवतः" इति। द्वे उच्चारणाक्रिये भवत इत्यर्थः। कथं पुनः "द्विष्प्रयोगो द्विर्वचनम्()" इति पक्ष आश्रयितव्यः? कथं च नाश्रयितव्यः? सदोषत्वात्()। द्विष्प्रयोगे हि--"आम्? पचसि पचसि देवदत्त" इत्यत्र "आम एकान्तरमामन्त्रितमनन्तिके" ८।१।५५ इति निघातप्रतिषेधो न प्राप्नोति; आमन्त्रितस्य पदद्वयेन व्यवधानादेकान्तरताया अभावात्()। स्थाने पुनर्द्विर्वचने ह्रेकपदस्यायमादेश इति सत्यप्यादेशस्य स्वगते भेदे स्थानिवद्भावादेकत्वव्यपदेशे सत्येकीवितरती भवतीति निघातप्रतिषेधः सिध्यति? नैष दोषः; धर्मभेदादुपचरितो हीह भेदः, स्वगतस्त्वभेद एव; अन्यथा वृत्तिरेव न स्यात्()। एकस्यैव हि वस्तुन आवृत्तदिः क्रियते। तस्माद्भिन्नत्वाद्वस्तुन इहैव सुनरमेकान्तरता सिध्यति। इह तर्हि पौनःपुन्यमिति? अत्र "गुणवचनब्राआहृणादिभ्यः कर्मणि च" (५।१।१२४) इति ष्यञ्? न प्राप्नोति, पौनःपुनिक इत्यत्र च "कालाट्ठञ्()" (४।३।११) इति ठञ्? न प्राप्नोति; अप्रातिपदिकत्वात्()। अप्रातिपदिकत्वं त्वर्थवत्समुदायानां समासस्यैवेति समासग्रहणस्य नियमार्थत्वात्()। स्थाने द्विर्वचने पुनर्यद्यपि सुबन्ततया स्वाश्रया प्रातिपदिकसंज्ञा नास्ति, तथापि स्थानिवद्भावात्? प्रातिपदिकग्रहणे ग्रहणात्? प्रातिपदिकं भवति। यद्यपि चास्य स्थानी प्रत्ययलक्षणेन सुबन्तः; तथाप्यप्रत्ययः १।२।४५ इति प्रातिपदिकसंज्ञायाः प्रतिषेधो न भवति; प्रातिपदिकसंज्ञायाः प्रत्ययलक्षणेताप्रत्यय १।२।४५ इति प्रतिषेधो न भवतीत्यस्यार्थस्य "न ङिसम्बुद्ध्योः" ८।२।८ इत्यनेन ज्ञापितत्वात्()। द्विष्प्रयोगे द्विर्ववसेऽपि न दोषः। अत्र समासग्रहणं हि तुल्यजातोयस्यैव प्रातिपदिकसंज्ञां निवत्र्तयति। कश्च तुल्यजातीयः? यस्य भेदसंसर्गद्वारेण समुदायार्थ उपजायते। कस्य चैवं विधोऽर्थं उपजायते? वाक्यस्य। नित्यादिश्चायमर्थः पदादस्थायां न दृष्ट एव। द्विरुक्तिकाले दृश्यमानः पदान्तरेण न भिद्यते, नापि संसृज्यत इति कुत एवम्प्रकारस्य समासग्रहणान्निवृत्तिः। अथ वाऽ‌ऽचार्यप्रवृत्तिज्र्ञापयति--भवत्येवंजातोयेभ्यस्तद्वितोत्पत्तिरिति, यदयं कस्यादिषु कौतस्कुतशब्दं पठति। कुतः कुत आगत इति "अव्ययात्त्यप्()" ४।२।१०३ इति त्यपि प्राप्तेऽस्मादेव निपातनादण्()। सर्वस्येति वचनमिह "अलोऽन्त्यस्य" (१।१।५२) निवृत्त्यर्थं वा स्यात्()? षष्ठ()र्थप्रतिपत्त्यर्थ वा? तत्र त्वलोऽन्त्यनिवृत्त्यर्थं तावन्नोपपद्यते। तथा हि--शब्दतश्चार्थतश्चान्तरतमाभ्यां द्वाभ्यां शब्दरूपाभ्यां भवितव्यम्()। ये चैवम्प्रकारे ते नियोगतोऽनेकाल्स्वरूपे इत्यन्तरेणापि सर्वग्रहणेन "अनेकाल्शित्सर्वस्य" १।१।५४ इति। सर्वस्यैव भविष्यतः, नान्त्यस्य। षष्ठ()र्थप्रतपत्त्यर्थमपि सर्वग्रहणं नोपपद्यते। तथा हि--यत्र तावत्? षष्ठ्युच्चार्यते "परेर्वर्जने" ८।१।५ इत्यादौ, तत्र षष्ठ्युच्चारणादेव षष्ठ()र्थस्य प्रतिपत्तिर्भविष्यति। "नित्यवीप्समोः" ८।१।४ इत्यत्र यद्यपि षष्ठी नोच्चार्यते, तथापि सर्वस्येति वचनमन्तरेणापि शक्यते षष्ठ()र्थोऽवगन्तुम्()। कथम्()? "द्वे" इति ह्रादेशनिर्देशः, आदेशश्च सम्बन्धिनमपेक्षते, "नित्यवीप्सयोः" ८।१।४ इति चार्थनिर्देशाः; न चार्थनिर्देशे स्थान्यादेशसम्बन्ध उपपद्यते। तस्मान्नित्यदीप्सयोर्यः शब्दो वत्र्तते तस्य द्वे भवतः--इत्येवं वाक्यार्थः स्थाने द्विर्वचनपक्षे तावदवगम्यते। यदा "द्विष्प्रयोगो द्विर्वचनम्()" तदापि विना सर्वस्येति वचनेन षष्ठ()र्थोऽवगम्यत एव। एवं ह्रावृत्तिर्हि क्रिया, तस्या अवश्यं साधनेन सम्बन्धिना भवितव्यम्(); तदायत्तत्वादात्मलाभस्य क्रियायाः। तस्माद्यत्तस्याः क्रियायाः साधनं तस्य द्वे भवत इति विल्पष्टैव षष्ठ()र्थप्रतिपत्तिर्भवतीत्यभिप्रायेणाह--"सर्वस्येति किम्()" इति। "विस्पष्टार्थम्()" इति। य एवं न शक्नोति सर्वादेशं षष्ठ()र्थं वा प्रतिपत्तुम्(), तं प्रति सुखप्रतिपत्तये सर्वस्येत्युच्यत इति भावः। "अथ" इत्यादि। एवं मन्यते--"पदस्य" इत्युच्यमाने समासतद्धितवाक्यानां द्विर्वचननिवृत्तिः कृता भवति; उत्तरत्र च "पदस्य" (८।१।१६) इति वक्तव्यं न भवति। एतदेव हि "पदस्य" इति वचनं तत्रानुवत्र्तयिष्यते। अनुच्यमाने "पदस्य" इत्येस्मिन्(), समासस्यापि द्विर्वचनं स्यात्()--पर्वणिपर्वणि सप्तसप्त पर्णान्यस्य सन्तीति सप्तपर्ण इति; तद्धितस्यापि द्वौ द्वौ पादौ ददाति "पादशतस्य संख्यादेः" ५।४।१ इत्यादिना वन्()--द्विपदिकां ददातीति; वाक्यस्यापि--ग्रामेग्रामे पानीयमिति। पदस्य" (८।१।१६) इति चोत्तरत्र न वक्तव्यं भवति। "नैवं शक्यम्()" इति। अत्र कारणमाह--"इह हि" इत्यादि। "प्रपचति" इति। वाक्यमेतत्(), पदसमुदायात्मकत्वात्()। अत्र "पदस्य" इत्युच्यमानेऽस्य द्विर्वचनं न स्यात्()। तस्मादशक्यं पदस्येति वक्तुम्()। सप्तपर्णः, द्विपदिकां ददातीत्यत्र तु पदस्येत्युच्यमाने द्विर्वचनं न भविष्यति; समासतद्धिताभ्यामेवोक्तत्वात्()। वीप्सायां ग्रामेग्रामे पानीयमित्यत्रापि न भविष्यति; अवयवद्विर्वचनेनैव वीप्साया द्योतितत्वादित्यभिप्रायः। "इह" इत्यादि। "द्रूह जिधांसायाम्()" (धा।पा।११९७), ततस्तृच्(), द्रुह्()+तृ इति स्थिते घत्वढत्वे प्राप्नुतः, द्विर्वचनं च, तत्र "पूर्वत्रासिद्धम्()" ८।२।१ इति द्विर्वचने कत्र्तव्ये यत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं पूर्वं प्राप्नोति। कृते तस्मिन्? पश्चात्? "वा द्रुहमुहष्णुष्णिहाम्()" ८।२।३३ इति विकल्पे सत्यनिष्टमपि प्राप्नोति। नावश्यमिष्टमेव यद्ययं नियमो लभ्यते। यदैकस्य धत्वं भवति तदा द्वितीयस्यापि घत्वेन भवितव्यम्(), यदा त्वेकस्य ढत्वं तदा द्वितीयस्यापि ढत्वेन भवितव्यमिति तदेष्टमेव स्यात्()। न त्वेष नियमो लभ्यते; नियमकारणाभवात्()। तस्मात्? कदाचिदनिष्टमपि स्यात्()। तत्र यदा पूर्वोत्तरयोरेकस्य घत्वं भवत्यपरस्य ढत्वम्(), तदानिष्टमपि प्राप्नोति। यदोभयोरपि घत्वं ढत्वं वा भवति, तदेष्टं स्यात्? तस्मादनिष्टनिवृत्त्यर्थम्? "पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।वृ।७०) इति वक्तव्यम्()। "पूर्वत्रासिद्धम्()" ८।२।१ इत्यस्मिन्नधिकारे भवं पूर्वत्रासिद्धीयं नलोपादिकार्यम्()। गहादित्वाच्छः ४।२।१३७, ततो द्विर्वचनादन्यत्रासिद्धं भवति, न तु द्विर्वचने। अथ वा--पूर्वत्र सपादसप्ताध्याय्यामसिद्धं पूर्वत्रासिद्धम्(), तदेव नलोपादिकार्यम्(), तत्र भवं पूर्वत्रासिद्धीयम्()। तत्? पुनस्तस्यैव नलोपादेरसिद्धत्वम्, तद्()द्विर्वचनादन्यस्मिन्? कत्र्तव्ये भवति, न तु द्विर्वचन एव। एतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"न मु ने" ८।२।३ इत्यत्र नेति यचोगविभागः कत्र्तव्यः, तेन द्विर्वचने कत्र्तव्येऽसिद्धत्वं न भविष्यतीति। असति चासिद्धत्वे द्रूहेस्तृचि कृते पूर्वं विकल्पेन घत्वम्(), "झषस्तधोर्घोऽधः" ८।२।४० इति धत्वम्(), "झलां जश्? झशि" ८।४।५२ इति जश्त्वम्()--धकारस्य गकारः, ततो द्विर्वचनम्()--द्रोग्धाद्रोग्योति। यदा तु घत्वं नास्ति तदा "हो ढः" ८।२।३१ इति ढत्वम्(), पूर्ववद्धत्वम्()। ष्टुत्वञ्च, "ढो ढे लोपः" ८।३।१३ इति पूर्वढकारलोपः, ततो द्विर्वचनम्()--द्रोढाद्रोढेति; इष्टमेव सिध्यति। यदि तर्हि "पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।वृ।७०) इत्येतद्वक्तव्यम्(); तदा "पूर्वत्रासिद्धम्()" (८।२।१) इत्यत्र औजढवित्यस्य सिद्धये यद्वक्ष्यति--"ढत्वष्टुत्पढलोपादीनामसिद्धत्वाण्णौ यष्टिलोपस्तस्य स्थानिवद्भावाद्? हत्? इत्येतद्()द्विरुच्यते" इति--तद्धिरुध्यते? न#आस्ति विरोधः; "पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।वृ।७०) इत्यस्यासर्वविषयत्वात्()। कथं विज्ञायते? "उभौ साभ्यासस्य" ८।४।२० इत्यस्य सूत्रस्यारम्भात्()। यदि हि "पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।वृ।७०) इत्येतत्? सर्वविषयकं स्यात्(), एवं सति "अनितेः" ८।४।१९ इत्यनेन कृतणत्वस्य द्विर्वचनेन भवितव्यमिति सिद्धम्()--प्राणिणिषतीत्यादिकं रूपम्(), किम्? "उभौ साभ्यासस्य" (८।४।२१) इत्येनेन सूत्रारम्भेम? आरब्धञ्च, ततो ज्ञापते, पूर्वत्रासिद्धीयमद्विर्वचने" (जै।प।वृ।७०) इत्येतदसर्वविषयमिति। यस्तु मन्यते--आष्टमिकं द्विर्वचनमभिप्रेत्यैतद्वक्यव्यमिति, तदयुक्तम्(); तस्य "सुविनिर्दुभ्र्यः सुपिसूतिसमाः" ८।३।८८ इत्यत्र विषुषुपुरित्यस्य सिद्ध्यर्थं यद्वक्ष्यति--"षुपिभूतो द्विरुच्यते" इति; तद्विरुध्यते; यदि हि षष्ठिके द्विर्वचने कत्र्तव्ये षत्वस्यासिद्धत्वं नास्ति, एवं षुपिभूतस्य द्विर्वचनं लभ्यते, नान्यथा। तस्मात्? पूर्व एव परीहारः साधुः। "सर्वस्येतद्वा" ["सर्वस्य" इत्येतदेव--काशिका, पदमञ्जरी च] इति। वाशब्दः पूर्वप्रयोजनापेक्षया विकल्पार्थः। अथ वा--नैवम्(), विस्पटार्थ सर्वग्रहणम्()। किं तर्हि? कृतसर्वकार्यस्य प्रतिपत्त्यर्थ कृतम्()। सर्वं ढत्वादिकार्य यस्य तस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थं सर्वग्रहणं द्रष्टव्यम। एतत्? कथम्()? सर्वशब्दोऽयं मत्वर्थीयाकारप्रत्ययान्तः--सर्वं कार्यमस्यास्तीति सर्वः, अर्शाअदित्वादच्? ५।२।१२६, तेन कृतसर्वकार्यस्य द्विर्वचनं भवतीत्युक्तं भवति॥
बाल-मनोरमा
सर्वस्य द्वे , ८।१।१

अथ द्विरुक्तप्रकरणम्। सर्वस्य द्वे। इत्यधिकृत्येति। "द्विर्वचनवधयोऽनुक्रंस्यन्ते" इति शेषः।

तत्त्व-बोधिनी
सर्वस्य द्वे १५८९, ८।१।१

सर्वस्य द्वे। सर्वशब्दस्य द्वे भवत इति विधिरत्र न शङ्क्यः, किं तु "नित्यवीप्सायो"रित्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयं, तदाह----इत्यधिकृत्येति। एतदर्थरूपमधिकृत्येत्यर्थः। स्वरूपग्रहणं तु न भवति, "नाम्रेडितस्यान्त्यस्य तु वे"ति लिङ्गात्। स्वरूपग्रहणे हि सति द्विरुक्तसर्वशब्दस्यैव परमाम्रेडितं स्यान्न तु द्विरुक्तस्याऽव्यक्तानुकरणशब्दस्य परमिति "नाम्रेडितस्ये"ति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं सङ्गच्छेत()। ननु "नित्यवीप्सयो"रित्यादौ "पदस्ये"ति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयते इति किमनेन सर्वस्येति ग्रहणेनेति चेत्। अत्राहुः--"स्वादिषु "इति पदसंज्ञामादाय "वृक्षाभ्या"मित्यादौ प्रकृतिभागमात्रस्य द्विर्वचनं स्यात्। कृते तु "सर्वस्ये"ति ग्रहणे "सर्वशब्दोऽवयवकार्त्स्न्त्ये वर्तते"इति "सर्वावयवोपेतस्य द्वित्वं न तु कस्चिदवयो वज्र्यते"इत्यर्थलाभादिष्टसिद्धिरिति। इह "द्वे"इत्यस्य सङ्ख्येयापेक्षायां शब्दरूपे गृह्रेते, शब्दानुशासनप्रस्तावात्। "सर्वस्ये"ति स्थानषष्ठी। सोऽयं स्थाने द्विर्वचनपक्षः। यदि तु उच्चारणे सङ्ख्येये, तदा स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानं, भवति, सर्वं चेन्निवृत्तं कस्योच्चारणं स्यात्, अतः "सर्वस्ये"त्यद्याह्मतोच्चारण शब्दापेक्षया "कर्तृकर्मणोः कृती"ति कर्मणि षष्ठी। "सर्वं द्विरुच्चारये"दिति फलितोऽर्थः। सोऽयं "द्विःप्रयोगो द्विर्वचन"मिति पक्षः। ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पद्त्वं स्यान्न त्ववयवयोः, ततश्च पदकार्याणि न स्युः। न चेष्टापत्तिः। "अपचन्नपच"न्नित्यत्र ङमुट्, "वृक्षान् वृक्षा"न्नित्यत्र "पदान्तस्ये"ति णत्वनिषेधः, "अग्रेऽग्रे"इत्यत्र "एङः पदान्ता"दिति पूर्वरूपत्वं च न सिध्येत्। किं चाऽपदान्तत्वप्रयुक्तकार्याणि स्युः। तद्यथा "पयःपयः"इत्यत्र "सोऽपदादौ"इति सत्वं स्यात्, "पपीःपपीः" इत्यत्र "इणः षः"इति षत्वं स्यात्। "पाशकल्पककाम्येषु"इति वृत्तिग्रन्थमवष्टह्र कथञ्चित्सत्वषत्वपरिहारेऽपि "अशीताश्नीते"त्यत्र "अतो गुणे"इति पररूपं स्यादिति चेत्। अत्राहुः---यदि प्रत्यस्तमितावयवभेदः समुदाय एव एवादेशः स्यात्, "द्वे" इति द्विवचनमनुपपन्नं स्यात्, अतो "द्वे"इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते, तत्र स्थानिवद्भावेन समुदायस्य पदत्वं, स्त एव चावयवयोरपीति न कश्चिद्दोष इति। स्यादेतत्---द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि समुदायस्य सा न सिध्यति। ततश्च "देवदत्तः पचतिपचती"त्यादौ "तिङ्ङतिङः"इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत्। अत्राहुः---"पचतिपचती"त्यादौ हि स एव धातुः प्रत्ययश्चाऽत्र द्विः पठ()ते। ततश्च [यो] यस्मात्प्रत्ययो विहितस्तदादितदन्तमिति विधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते। तेनाऽवग्रहादिः सिध्यतीति।