पूर्वम्: ५।४।६७
अनन्तरम्: ५।४।६९
 
सूत्रम्
समासान्ताः॥ ५।४।६८
काशिका-वृत्तिः
समासान्ताः ५।४।६८

अधिकारो ऽयम्। आपादपरिसमाप्तेः ये प्रत्ययाः विहितास् ते समासान्तावयवा एकदेशाः भवन्ति, तद्ग्रहणेन गृह्यन्ते इति वेदितव्यम्। प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। उपराजम्। अधिराजम्। न अव्ययीभावातित्येष विधिर् भवति, अनश्च ५।४।१०८ इति टच्। द्विपुरी, तिर्पुरी इति। द्विगोः ४।१।२१ इति ङीप् भवति। कटकवलयिनी। शङ्खनूपुरिणी। कोशनिषदिनी। स्रक्त्वचिनी। द्वन्द्वोपतापगर्ह्यातिति इनिर् भवति। विधुरः। प्रधुरः। तत्पुरुषे तुल्यार्थ इत्येष स्वरो भवति। उच्चैर् धुरः। नीचैर् धुरः। बहुव्रीहौ प्रकृत्या पूर्वपदम् ६।२।१ इत्येतद् भवति।
न्यासः
समासान्ताः। , ५।४।६८

"समासान्ताः" इत्ययमधिकारः" इति। वक्ष्यमाणेन "बहुव्रीहौ संख्येये डजबहुगणात्()" ५।४।७३ इत्यादिना बहुव्रीह्रादित्वेन समासविशेषाद्विधास्यन्ते; यत्रापि बहुव्रीह्रादिग्रहणं नास्ति, तत्र सङ्घातः प्रकृतित्वेन निर्दिश्यते। यता--"अच्? प्रत्यन्ववपूर्वात्? सामलोम्नः" ५।४।७५ इति, ततश्च सामथ्र्यादेव समासान्ताः प्रत्याय विज्ञास्यन्ते, त()त्क समासग्रहणेन? यत्रैतदुभयं नास्ति--यथा--"ऋक्पूरब्धूःपथामानक्षे" ५।४।७४ इति, तदर्थं समासान्तग्रहणं क्रियते। अन्तशब्दोऽयं सामीप्यवचनोऽप्यस्ति, यदि तस्येह ग्रहणं स्यात्? प्रत्ययपरत्वेनैव डजादीनां सामीप्यस्य सिद्धत्वादन्तशब्दोऽनर्थकः स्यादिति मत्वाऽ‌ऽह--अवयववचनोऽयमन्तशब्दो गृह्रत इति दर्शयन्नाह--अवयवा इति अस्य पर्यायेण वृतिं()त कर्तुमाह--"एकदेशाः" इति। एकदेशशब्दमिहाश्रयता प्राक्समासविधेः समासार्थादुत्तरपदात्? वक्ष्यमाणाः प्रत्यया भवन्ति, पश्चात्? समासः--इत्युक्तं भवति। एवं हि ते समासस्यैकदेशा भवन्ति यदि प्राक्? समासवृत्तेः स्यात्()। समासान्तान्? कृत्वा पश्चात्? तदन्तेन समासः क्रियते। एवञ्च तैः सह समाससंज्ञा बवतीत्युपपद्यते डजादीनां समासावयवत्वम्()। अतश्चैतदेवं विज्ञेयम्()। योऽभिमन्यतेसमासे कृते डजादिभिर्भवितव्यमिति, तस्य "न कपि" (७।४।१४) इत्यत्र यद्वक्ष्यति वृत्तिकारः--"समासार्थे ह्रु त्तरपदे कपि कृते पश्चात्? समासेन भक्तिव्यम्()" इति, तद्विरुध्यते। ननु च समासार्थादुत्तरपदाड्डजादिषु कृतेषु पश्चात्? तदन्तेन समासः क्रियते--इत्यस्मिन्नपि पक्षे समानो दोषः, यतः "पथो विभाषा" (५।४।७२) इत्येवमादिषु नञः परो यः पथिन्()शब्दस्तदन्तात्? तत्पुरुषाद्विभाषा समासान्तो भवतीत्येवमादयो निर्देशा विरुध्यन्त एव? नैतदस्ति; तदविरोधस्य "ङ्याप्प्रातिपदिकात्()" ४।१।१ इत्यत्र प्रतिपादितत्वात्()। "तद्ग्रहणेन गृह्रन्ते" इति तच्छब्देन समासः प्रत्यवमृश्यते। समासावयवत्वे सति तेषामपि तदनुप्रदेशो भवति। अतस्ते। समासग्रहणेन गृह्रन्त इति। अथ समासावयवत्वे प्रत्ययस्य किं प्रयोजनम्()? इत्याह--"प्रयोजनम्()" इत्यादि। "अधिराजम्(), उपराजम्()" इति। यताक्रमं विभक्त्यर्थे सामीप्येऽव्ययीभावः। "अव्ययीभावे शरत्प्रभृतिभ्यः" ५।४।१०७, "अनश्च" (५।४।१०८) इति टजन्तस्याव्ययीभावग्रहणेन ग्रहणात्? "नाव्ययीभावादतोऽम्त्वपञ्चम्याः" २।४।८३ इति विभक्तेरलुक्(), अमन्तभावश्च भवति। द्वे पुरी समाह्मते इति "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समातः। स च "संख्यापूर्वो द्विगुः" २।१।५१ इति द्विगुसंज्ञः, "ऋक्पूरब्धूःपथाम्()" (५।४।७४) इत्यकारप्रत्ययान्तस्य द्विगुग्रहणेन ग्रहणावकारान्तात्? "द्विगोः" (४।१।२१) इति ङीप्? सिद्धो भवति। कोशनिषदिनीति। कोशश्च निषच्चेति समाहारद्वन्द्वः, "द्वन्द्वाच्चुदषहान्तात्? समाहारे" (५।४।१०६) इति टच्? तस्य द्वन्द्वग्रहणेन ग्रहणात्? कोशनिषदमस्या अस्तीति "द्वन्द्वोपतापगह्र्रात" ५।२।१२७ प्राणिस्थादिनिर्भवति, "ऋन्नेभ्यो ङीप्()" ४।१।५ इति ङीप्()। रुआक्त्वचिनीति। पूर्वेण तुल्यम्()। "विधुरः" प्रधुरः" इति। विगतो धुरः, प्रगतो धुर इति "कुगतिप्रादयः" २।२।१८ इति प्रादितत्पुरुषसमासः। पूर्ववदकारस्येह तत्पुरुषग्रहणेन ग्रहणात्? "तत्पुरुषे तुल्यार्थतृतीया" ६।२।२ इत्यादिना पूर्वपदप्रकृतिस्वरः सिद्धो भवति। पूर्वपदं पुनरतर निपात आद्युदात्तः। असति तु समासान्तत्वे प्रत्ययस्वरेणान्तोदात्तता स्यात्()। "उच्चैर्धुरः, नीचैर्धुरः" इति। उच्चैर्धूरस्येति नीचैर्धूरस्येति बहुव्रीहिः। पूर्ववदकारप्रत्ययः, तस्य बहुव्रीहिग्रहणेन ग्रहणात्? "बहुव्रीहौ प्रकृतया पूर्वपदम्()" ६।२।१ इति पूर्वपदप्रकृतिस्वरो भवति। पूर्वपदप्रकृतिस्वरस्त्विहान्तोदात्()तः। सनुतर्(), उच्चैस्(), नीचैस्(), शनैस, ऋधक्(), ऋते, युगपत्(), आरात्(), पृथगित्येते सनुतर्()प्रभृतयोऽन्तोदात्ताः, स्वरादिषु पाठात्()॥
बाल-मनोरमा
समासान्ताः ६६८, ५।४।६८

समासान्ताः। इत्यधिकृत्येति। "आपादपरिसमाप्ते"रिति भावः। अत्र समासपदमलौकिकविग्रहवाक्यपरमेव। अत एव "बहुकुमारीक" इत्यत्र ह्यस्वो न। "गोस्त्रियोः" इति सूत्रे "अन्तः" इति सूत्रे च भाष्ये स्पष्टमेतत्। एवंचाऽलौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः। अन्तशब्दश्चरमावयववाची। अत एव उपशरदमित्यादौ "नाव्ययीभावा"दित्यम्। तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाऽभावादम् न स्यात्। तथाच टचस्तदनवयवत्वे "अव्ययानां भमात्रे टिलोपः" इति प्रसज्येत। टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरदित्यस्याव्ययत्वाऽभावान्न टिलोपः। समासान्तप्रत्ययाश्चलौकिकविग्रवाक्ये सुपः परस्तादेव भवन्ति। अत एव "प्रत्ययस्थात्" इति सूत्राभाष्ये "बहुचर्मिका" इत्युदाह्मतं सङ्गच्छते। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः।

तत्त्व-बोधिनी
समासान्ताः ५९२, ५।४।६८

समासान्त इति। समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः। तेनोपशरदमित्यत्र "नव्ययीभावा"दित्यम् सिध्द्यति, अव्ययीभावस्याऽदन्तत्वात्, द्विपुरीत्यादौतु "ऋक्()पूरब्धू"रित्यप्रत्यय उत्तरपदस्यावयव इति "अकारान्तोत्तर पदो द्विगुः स्त्रियो"मिति स्त्रीत्वे "द्विगो"रिति ङीप्सिध्यतीति बोध्यम्।