पूर्वम्: ६।४।११३
अनन्तरम्: ६।४।११५
 
सूत्रम्
इद्दरिद्रस्य॥ ६।४।११४
काशिका-वृत्तिः
इद् दरिद्रस्य ६।४।११४

दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति। दरिद्रितः दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलि इत्येव, दरिद्रति। क्ङिति इत्येव, दरिद्राति। दरिद्रातेरार्धधातुके लोपो वक्तव्यः सिद्धश्च प्रत्ययविधौ भवति इति वक्तव्यम्। दरिद्राति इति दरिद्रः। आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति। न दरिद्रायके लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा। अद्यतन्यां वेति वक्तव्यम्। अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वम् द्रष्तव्यम्।
न्यासः
इद्दरिद्रस्य। , ६।४।११४

"दरिद्रति" इति। "जक्षित्यादयः षट्()" ६।१।६ इत्यभ्यस्तसंज्ञा, तेनाभ्यस्तलक्षण आकारलोपो भवति। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"श्नसोरल्लोपः" ६।४।१११ इत्यतो मण्डूकल्पुतिन्यायेन लोपग्रहणमनुवर्त्त्य सार्वधातुके, हलि, क्ङितत्येतान्? विशेषान्? निवर्त्त्य दरिद्रातेः सामान्येनेत्त्वलोपौ विधातव्यौ। न चैवं सति तौ सङ्करेम प्रसजतः, यस्माद्वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतम्()। सा च व्यवस्थितविभाषा। तेन यत्रैवेष्यते यत्? तत्? तत्रैव भविष्यति, नान्यत्रेति। "सिद्धश्च प्रत्ययविधौ" इति। तथासौ कत्र्तव्यौ यथा प्रत्ययविधौ=प्रत्ययविधानकाले, सिद्धः=निष्पन्नो भवति। एतदुक्तं भवति--आर्धधातुके प्रत्यये विषयभूतेऽनुत्पन्ने एव लोपः कत्र्तव्य इति। एवं ह्रसौ प्रत्ययविधौ सिद्धो भवति, नान्यथा। "सिद्धश्च प्रत्ययविधौ" इत्यस्योपादाने यत्? फलं तद्? "आकारान्तलक्षणः" इत्यादिना दर्शयति। यद्यार्धधातुक उत्पन्ने सति लोपः क्रियते, तदा "श्याद्व्यधारुआउ" ३।१।१४१ इति सूत्रेण णप्रत्ययः स्यात्(); दरिद्रातेराकारान्तत्वात्()। ततश्च "आतो युक्? चिम्कृतोः" ७।३।३३ इति युकि कृते, "दरिद्राय" इत्यनिष्टं रूपं स्यात्()। "सिद्धश्च प्रत्ययविधौ" इत्युच्यमाने तु प्रागेव प्रत्ययोत्पत्तेर्लोपः, तस्मिन्? स्यनाकारान्तत्वात्? पचाद्यजेव भवति। तेन "दरिद्रः" इतीष्टं सिद्धं भवति। "न दरिद्रायके लोपः" इत्यादिना श्लोकेन यत्राद्र्धधातुके लोपो नेष्यते यत्र विकल्पेन चेष्यते कैश्चित्(), तद्दर्शयति। "दरिद्रायके" इत्यत्र ण्वुलन्ते शब्दे सिसाधयिषिते लोपो नेष्यते। दरिद्रातीति दरिद्रायाक इति। पूर्ववद्युक्()। "दरिद्राणे" इति। अत्रापि ल्युङते लोपो नेष्यते। "दिदरिद्रासतीत्येके" इति। सनि कृते द्विर्वचनम्(), अभ्यासकार्यम्()। "दिदरिद्रिषतीति वा" इति। "सनीवन्तर्ध" ७।२।४९ इत्यत्र "तनिपतिदरिद्राणाम्()" इत्युपसंख्यानाद्विकल्पेनेट्()। "अद्यतन्याम्()" इति। लुङीत्यर्थः "लुङोऽद्यतनि" इति पूर्वाचार्यसंज्ञा। "अदरिद्रासौत्()" इति। "यमरमनमातां सक्? च" ७।२।७३ इति सगिटौ, "अस्ति सिचोऽपृक्ते" ७।३।९६ इतीट्(), "इट ईटि" ८।२।२८ इति सिचो लोपः। ननु च "आतो धातोः" ६।४।१४० इत्याकारालोपे कृते दरिद्र इति निर्देशेन भवितव्यम्(), तत्? कथं दरिद्रस्येति निर्देश इत्याह--"दरिद्रस्येति निर्देशः" इत्यादि। "छन्दोवत्सूत्राणि भवन्ति" इत्यतः "ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्()" ६।३।६२ इति बहुलवचनाच्छान्दसमिह ह्यस्वत्वम्()। तपकरणं विस्पष्टार्थम्()। भाव्यमानतया सवर्णाग्रहणादेव दीर्घो न भविष्यति॥
बाल-मनोरमा
इद्दरिद्रस्य ३१२, ६।४।११४

इद्दरिद्रस्य। सौत्रो ह्यस्वः। "गमहने"त्यतः क्ङितीत्यनुवर्तते। "ई हल्यघो"रित्ते हलीति, "अत उदि"त्यतः सार्वधातुके इति। तदाह-- दरिद्रातेरिति। "श्नाभ्यस्तयो"रित्याल्लोपाऽपवादः। अलोऽन्त्यस्ये"त्यन्त्यस्य इकारः। दरिद्रित इति। "सार्वधातकमपि"दितितसो ङित्त्वादाकारस्य इकारः।

तत्त्व-बोधिनी
इद्दरिद्रस्य २७२, ६।४।११४

इद्दरिद्रस्य। "इद्दरिद्र" इतिवक्तुमुचितम्।