पूर्वम्: ८।१।७१
अनन्तरम्: ८।१।७३
 
सूत्रम्
आमन्त्रितं पूर्वम् अविद्यमानवत्॥ ८।१।७२
काशिका-वृत्तिः
आमन्त्रितं पूर्वम् अविद्यमानवत् ८।१।७२

आमन्त्रितं पूर्वम् अविद्यमानवद् भवति, तस्मिन् सति यत्कार्यं तन भवति, असति यत् तद् भवति। कानि पुनरविद्यमानवत्त्वे प्रयोजनानि। आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः। देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात् परस्य इति निघातो न भवति। षष्टिकामन्त्रिताद्युदात्तत्वं भवति। देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः ८।१।२८ इति निघातो न भवति। देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वम् इत्येवम् आदिसु युष्मदस्मदादेशा न भवन्ति। पूजायामनन्तरप्रतिषेधः प्रयोजनम्। यावद् देवदत्त पचसि इत्यत्र अपि पूजायां नानन्तरम् इत्येव प्रतिषेधो भवति। जात्वपूर्वम् ८।१।४७ तियेतत्, देवदत्त जातु पचसि इत्यत्र अपि भवति। आहो उताहो चानन्तरम् ८।१।४९ इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्र अपि भवति। आम एकान्तरमामन्त्रितमनन्तिके ८।१।५५ इति, आम् भो पचसि देवदत्त इत्यत्र अपि भवति। आमन्त्रितम् इति किम्? देवदत्तः पचति। पूर्वम् इति किम्? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद् भवति। पूर्वत्वम् च परापेक्षम् भवति इति परस्य एव कार्ये स्वनिमित्ते ऽन्यनिमित्ते वा तदविद्यमानवद् भवति, न तु स्वकार्ये। देवदत्त पचसि इत्यत्र अपि हि आमन्त्रिताद्युदात्तत्वं भवत्येव। इह इमं मे गङ्गे यमुने सरस्वति इति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयम् अविद्यमानवत्त्वान् निमित्तं न भवति। मेशब्दस्य निमित्तभावं न प्रतिबध्नाति।
न्यासः
आमन्त्रितं पूर्वमविद्यमानवत्?। , ८।१।७२

"तस्मिन्? सति" इत्यादिनाऽविद्यमानवद्भवतीत्यस्यार्थमाचष्टे। "अविद्यमानवत्()" इति। वतिना निर्देशोऽयम्(), अविद्यमानेन तुल्यं वत्र्तत इत्यविद्यमानवत्()। वतिश्च साद्श्ये भवति, एवञ्च तस्याविद्यमानेन सादृश्यं भवति यदि सत्यपि त()स्मस्तन्निबन्धनं कार्यं न भवति। असति च तस्मिन्? यत्? कार्यं तदत्तानिबन्धनं तत्? सत्यपि तस्मिन्? भवति। "आमन्त्रितनिघातेन" [आमन्त्रिततिङनिघात--काशिका--पदमंजरी च] इत्यादिना तस्मिन्? सति यत्कार्यं प्राप्नोति तदभावमविद्यमानवद्भावस्य प्रयोजनं दर्शयति। "देवदत्त् यज्ञदत्त" इति। अत्र पूर्वस्याविद्यमानत्वादसति निघाते यज्ञदत्तशब्दस्य षाष्टिकमेवामन्त्रि ६।१।१९२ ताद्युदात्तत्वं भवति। "देवदत्त मम ग्रामः स्वम्()" ति। "तवममौ ङसि" ७।२।९६ इति तदममादेशौ साप्तिकौ। "इत्येवमादिषु" इति। आदिशब्देन "देवदत्त तुभ्यं दीयते" इत्येवमादीनां ग्रहणम्(), "युष्मदस्मदादेशा न भवन्ति" इति। "तेमयावेकवचनस्य" ८।१।२२ इत्येवमादयः। "पूजायामनन्तरप्रतिषेधः प्रयोजनम्()" इत्यादिना तस्मिन्नामन्त्रितेऽसति यत्कार्यं प्राप्नोति तस्य सत्यपि तस्मिन्? भावेऽविद्यमानवद्भावस्य प्रयोजनं दर्शयति। "यावद्देवदत्त पचसीत्यत्रापि" इत्यादि। यत्राप्यामन्त्रितं व्यवधायकमित्येषोऽपिशब्दस्यार्थो वेदितव्यः। "देवदत्तः पचति" इति। अत्राविद्यमानत्वाभावत्? तिङनिघातो भवत्येव। "पूर्वम्()" इति। किं देवदत्त इति पूर्वं परमपि खलु भवति? न चेह परमस्तीति नास्ति देवदत्तेत्यस्य पूर्वत्वम्()। तेनामन्त्रिताद्युदात्तत्वे कत्र्तव्ये नाविद्यमानवद्भवति। "देवदत्त पचसि" इति। अत्र पचसीत्येतदपेक्षया देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवद्भावेन तस्य भवितव्यम्(), ततश्चामन्त्रिताद्युदात्तत्व तस्य न स्यात्()। "इमं मे गङ्गे यमुने"--इत्यत्र च गङ्गेशब्दस्य यमुनेशब्देनानन्तर्यमपनयन्? स निघातनिमित्तभावं प्रतिबध्नीयादिति यमुनेशब्दस्य निघातो न स्यादित्येतच्चोद्यद्वयमाशङ्क्याह--"पूर्वत्वं च" इत्यादि। चकारोऽवधारणे, भिन्नक्रमश्च। परापेक्षमेवेत्येवं द्रष्टव्यम्()। इतिकरणो हेतौ। येषां यद्भावो यदपेक्षवद्भवति तेषां तद्भावेनानूद्यमानानां विधीयमानो धर्मस्तद्विषय एव प्रतीयते। तद्यथा--पुत्रः कार्येष्ववहित इति पुत्रस्य पुत्रभावः पुत्रापेक्ष इति तस्य पुत्रभावेनानूद्यमानस्य विधीयमानं कार्येष्ववहितत्वं यदपेक्षं पुत्रत्वं तत्कार्येष्ववगम्यते, नान्यकार्येषु। पूर्वत्वं चेदं परापेक्षमेव। तस्मात्? तदनूद्यामन्त्रितस्याविद्यमानवद्भावो यदपेक्षं तत्पूर्वत्वं तस्यैव परस्य कार्ये कत्र्तव्ये भवति, नान्यस्य। किंविशिष्टे कार्ये? स्वानिमित्ते, अन्यनिमित्ते या। स्वं निमित्तं यस्य तत्? स्वनिमित्तम्(), आमन्त्रितमित्यर्थः। तस्मादन्यच्छब्दान्तरं निमित्तं यस्य तदन्तनिमित्तम्()। यत एवं परस्यैव कार्ये कत्र्तव्ये तदामन्त्रितमविद्यमानवद्भवति, न तु स्वकार्ये कत्र्तव्ये, तेन देवदत्त पचसौत्यत्रामन्त्रिताद्युदात्तत्वं न परस्य कार्यम्(); किं तर्हि? आमन्त्रितस्यैव। यतः परस्य कार्यमनुदात्तत्वम्(), त()स्मस्त्वविद्यमानव्दभवत्येव। एवं प्रथमचोद्यं निराकृत्य द्वितीयं निराकर्त्तुमाह--"इमं मे गङ्गे यमुने" इत्यादि। अत्रापि पूर्वत्वं च परापेक्षं भवतीत्येष एव हेतुः। गङ्गेशब्दः पूर्वमामन्त्रितान्तः स्वयमविद्यमानवत्त्वान्निमित्तं न भवतीति सम्बन्धनीयम्()। क्व विषये निमित्तं न भवति? परस्यैव सुमुनेशब्दस्यानुदात्तत्वे कत्र्तव्ये। मेशब्दस्य च निमित्तभावं न प्रतिबध्यातीति गङ्गेशब्दः पूर्वमामन्त्रितो यमुनेशब्दस्यानुदात्तत्वे कत्र्तव्ये विद्यमानवत्त्वादिति सर्वमपेक्षते। इह पूर्वशपब्दस्य सम्बन्धिशब्दत्वात्? परस्य कार्ये कत्र्तव्ये पूर्वस्यामन्त्रितस्याविद्यमानवद्भावो विधीयते। "इमं मे गङ्गे यमुने" इत्तयत्र च यद्यपि गङ्गेशब्दादन्यच्छब्दान्तरं "मे" इत्येतद्यमुनेशब्दस्यानुदात्तस्य निमित्तम्(), तथापि तदनुदात्तत्वं पस्यैवामन्त्रितस्य कार्यमिति तस्मिन्नपि कत्र्तव्ये गङ्गेशब्दोऽविद्यमानवद्भवति। अत एव प्रागुक्तम्()--अन्यनिमित्ते वैतेनाविद्यटचमानत्वान्मेशब्दस्य निघातं प्रति यो निमित्तभावः तं न प्रतिबध्नाति। वत्करणं किमर्थम्()? स्वाश्रयमपि यथा स्यात्()--आम्? भो देवदत्तत्रि। "आम एकगान्तरमामन्त्रितमनन्तिके" ८।१।५५ इत्येकान्तरतानिबन्धनो निघातप्रतिषेधः सिद्धो भवति। बहुवचनान्तञ्चैतद्विज्ञेयम्(); एकवचनान्ते हि "नामन्त्रिते समानाधिकरणे सामान्यवचनम्()" ८।१।७३ इति प्रतिषेधान्नैवाविद्यमानवत्त्वमस्ति। बहुवचनान्ते तु "विभाषितं विशेषवचने बहुवचनम्()" ८।१।७४ इति पक्षे विद्यते। ननु च परार्थे प्रयुज्यमानाः शब्दा अतिदेशं गमयन्ति, यथा--"गौर्वाहीक इति, तत्र विद्यमानस्याविद्यमानमिति वचनादतिदेशो गम्यते। अतिदेशधर्मश्च स्वाश्रया निवृत्तिरिति नार्थो वतिना? सत्यमेतत्(); एवं तु मन्यते--वतिमन्तरेण प्रयोगव्यवस्थार्थमिवं स्यात्(), कुतश्चिदामन्त्रितं पूर्वं न भवतीति। तथा चामन्त्रितस्यामन्त्रितेन पूर्वेणैकान्तराता न स्यादिति॥
बाल-मनोरमा
आमन्त्रितं पूर्वमविद्यमानवत् , ८।१।७२

आमन्त्रितं पूर्वम्। स्पष्टमिति। अनुवर्तनीयपदान्तराऽभावादिति भावः। "अग्ने तेवेति। "अग्ने तव श्रवो वयः" इत्यृचि "अग्ने" इत्यविद्यमानवत्। देवास्मानित्यत्र देवशब्दोऽविद्यमानवत्। "अग्ने नये"त्यृचि "अग्ने" इत्यविद्यमानवत्। "अग्न इन्द्र वरुणे"त्यृचि "अग्ने" इत्यविद्यमानवदिति भावः। ततः किमित्यत आह-इहेति। अग्ने तवेत्यत्र देवाऽस्मानित्यत्र च युष्मदस्मदोः ते-नसावादेशौ न भवतः, तव?समानित्यनयोः पदात्परत्वाऽभावात्पादादौ स्थितत्वाच्चा। "अग्ने नये"त्यत्र "नये"ति तिङन्तस्य "तिङ्ङ्तिङः" इत्यनुदात्तत्वं न भवति अतिङन्तात्पदात्परं तिङन्तं निहन्यते इति हि तदर्थः। इह च "अग्ने" इत्यतिङन्तस्याऽविद्यमानवत्त्वादतिङन्तात्परत्वाऽभावान्नानुदात्तत्वम्। अग्न इन्द्र वरुणेत्यत्र तु "आमन्त्रितस्य चे"ति सर्वानुदात्तत्वं न भवति, पदात्परमामन्त्रितं निहन्यते इति हि तदर्थः। इह च अग्नेशब्दस्याऽविद्यमानवत्त्वेन पदात्परत्वाऽभावादिन्द्रशब्दस्य नानुदात्तत्वम्। एवं वरुणशब्दस्यापि नानुदात्तत्वं, ततः प्राचीनयोरग्ने इन्द्र इत्यनयोरविद्यमानत्वात्। ननु "सर्वदा रक्ष देव नः" इत्यत्र कथं नसादेशः, देवेत्यस्याऽविद्यमानबत्त्वादित्यत आह--सर्वदेति। "लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि""प्रतापरूद्र!ते ख्याति"रित्यादौ तु "ते" इति विभक्ति प्रतिरूपकमव्ययं, तत्र आमन्त्रितस्याऽविद्यमानवत्त्वाद्युष्मच्छभ्दस्य पादादिस्थत्वात्। एवमिति। "इदं मे गङ्गे यमुने सरस्वति शुतुद्रिस्तोमँ परुष्णिया" इति मन्त्रे सर्वेषां निघात इत्यन्वयः। "आमन्त्रितस्य चे"त्यनुदात्तत्वमित्यर्थः। सर्वशब्दं विशिनष्टि--यमुने इत्यादिभ्यप्राचीनानामिति। इति आदिर्येशामिति विग्रहः। आदिना सरस्वतिशुतुद्रीत्यनयोग्र्रहणम्। तद्गुणसंविज्ञानो बहुव्रीहिः। "यमुने" "सरस्वति" "शुतुद्रि" इत्येतेषु एकैकस्मात्प्राचीनानां "गङ्गे" "यमुने" "सरस्वति" इत्येषां सर्वेषां निघात इत्यर्थः। शुतुद्रिशब्दस्य त्वनुदात्तत्वं नेत्यविवादं, तस्य द्वितीयपादादिस्थत्वात्। "आमन्त्रितस्य चे"त्यत्र "पदस्य, "पदात्", "अनुदात्तं सर्वमपादादौ" इत्यनुवृत्तेः" "इमं मे" इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्ते। ननु "गङ्गे" इत्यस्यानुदात्तत्वमुचितं, तस्य मे इति पदात्परत्वात्, यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोर्गङ्गे यमुन#ए इत्यनयोरविद्यमानवत्त्वे पदात्परत्वाऽभावादित्यत आह--आमन्त्रि[नाम]विद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्येति। आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम्। एवंच "इत्यादिभ्य" इति "सर्वेषा"मिति च बहुवचनमनुपपन्नमित्यपास्तम्। क्वचित् पुस्तकेषु "यमुने इत्यादिप्राचीनाऽ‌ऽमन्त्रिताऽविद्यमानवद्भावेऽपी"ति पाठो दृश्यते। तत्र आदिना सरस्वतीत्येतदुच्यते। यमुने सरस्वतीत्याभ्यचां प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव। अयं च निघातः पदकाले स्पष्टं श्रूयते।

तत्त्व-बोधिनी
आमन्त्रितं पूर्वमविद्यमानवत् ३६३, ८।१।७२

इहेति। "अग्ने तव" "देवास्मा"नित्यत्रयुष्मदस्मदोर्न भवत्यादेशः, "अग्ने नये"त्यत्र "तिड्डतिङः"इति न तिङन्तनिघातः, "अग्न इन्द्र वरुणे"त्यत्र तु "आमन्त्रितस्य चे"त्यमान्त्रितनिघातो नेति विवेकः। सर्वेषां निघात इति। अयं च निघातः पदकाले श्रीयते न तु संहिताकाले। "स्वरितात्संहितायामनुदात्ताना"मिति संहितायामेकश्रुतिविधानात्()।