पूर्वम्: ८।३।३७
अनन्तरम्: ८।३।३९
 
सूत्रम्
सोऽपदादौ॥ ८।३।३८
काशिका-वृत्तिः
सो ऽपदादौ ८।३।३८

सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु। याप्ये पाशप् ५।३।५७ पयस्पाशम्। ईषदसमाप्तौ कल्पप् पयस्कल्पम्। यशस्कल्पम्। प्रागिवात् कः ५।३।७० पयस्कम्। यशस्कम्। काम्यच् पयस्काम्यति। यशस्काम्यति। अपदादौ इति किम्? पयẖ कामयते। पयḫ पिबति। सो ऽपदादावित्यनव्ययस्य इति वक्तव्यम्। इह मा भूत्, प्रातः कल्पम्, पुनः कल्पम् इति। रोः काम्ये नियमार्थम्। रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह म भूत्, गीः काम्यति। धूः काम्यति। उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम् किं प्रयोजनम्? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात्।
लघु-सिद्धान्त-कौमुदी
सोऽपदादौ ९८३, ८।३।३८

पाशकल्पककाम्येषु विसर्गस्य सः॥
न्यासः
सोऽपदादौ। , ८।३।३८

पूर्वस्यायमपवादः। "अपदादौ" इति। सुब्ब्यत्ययेन द्विर्वचनस्य स्थान एकवचनम्(); अन्यथा ह्रपदादित्वं कुप्वोर्विशेषणमिति नोपपद्यते। द्वित्वे सत्यपदाद्योरिति कुर्यात्()। "पाशकल्पककाम्येषु" इति सम्भवदर्शनम्(), न परिगणनम्(); व्यवच्छेद्याभावात्()। "पयस्पाशम्()" इति। "याप्ये पाशप्()" ५।३।४७। "पयस्कल्पम्()" इति। "ईषदसमाप्तौ कल्पप्()" ५।३।३७ इत्यादिना कलपप। "पयस्कम्()" इति। अज्ञातं पयः--"अज्ञाते" ५।३।७३ इति कः। "पयस्काम्यति" इति। "सुप आत्मनः क्यच्()" ३।१।८, "काम्यच्च" ३।१।९ इति काम्यच्()। "पय कामयते" इति। "कमेर्णिङ्()" ३।१।३०। "पय विबति" इति। "पा पाने" (धा।पा।९२५) पाघ्रादि ७।३।७८ सूत्रेण पिबादेशः। "सोऽपदादावनव्ययस्येति वक्तव्यमम्()" इति "सोऽपदादौ" इत्यस्मिन्? सूत्रेऽनव्ययविसर्जनीयस्य सकारादेशो भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्()--"वा शरि" ८।३।३६ इत्यतो वाग्रहमनृवत्र्तते, सा च व्यवस्थितविभाषा; तेनानव्ययस्यैव भविष्यतीति, नाव्ययस्य। "रोः काम्ये नियमार्थम्()" इति। एतद्? ग्रहणकवाक्याम्()। "रोरेव" इति। अस्यैव विवरणम्()। वक्तव्यशब्धस्यात्रापि स एवार्थः। व्याख्यानं पूर्वपदेव कत्र्तव्यम्()। "रोः" इति विसर्जनीयाक्षया स्थानषष्ठी। रोर्यो विसर्जनीयस्तस्येत्यर्थः। "उजब्जिरुपध्मानीयोपधः पठ()ते" इति। इह केषाञ्चिद्दर्शनमिदम्()--"उबज आर्जवे" (धा।पा।१३०३) इति, उपध्मानीयस्य त्वश्रवणम्(); कृतजश्त्वनिर्देशात्()। अन्येषां तु दर्शनम्? "उद्ज आर्जवे" ति। तत्राद्यपक्ष डब्जेः "हलश्च" ३।३।१२१ ति घञि "चजोः कु घिण्णयतोः" (७।३।५२) इति कुत्वे उपध्मानीयस्य "झलां जश्? झशि" ८।४।५२ इति बकारे अभ्युब्गः, समुबग इत्यनिष्टं रूपं न्यात्()। तस्मादुपध्यामीयस्य कवर्गे परतः सकारो वक्तव्यः; सकारे ह्रुपध्मानोयस्य कृते तस्य जश्त्वेन दकारः, एवमभ्पुद्गः समुद्गः--इतीष्टं सिध्यति द्विर्वचनप्रतिनेधोऽप्युपध्मानीयस्य वक्तव्य एव; अन्यथा एव; अन्यथा ह्रुब्जिजिषतीत्यत्र "अजादेर्द्वितीयस्य" (६।१।२) इत्युपध्मानीयस्य द्विर्वचनं प्रसज्येत। इतरस्मिस्तु दर्शने--असिद्धकाण्डे भ उब्जेर्वक्तदव्यः, अन्यथोब्जिजिषति, उब्जितेत्यादि न सिध्येत्()। तथा चोक्तम्()--"असिद्धे भ उब्जेः" इति। असिद्धवचनमसिद्धत्वाद्भकारस्य। उब्जिजिषतीत्यत्र "न न्द्राः संयोगादयः" ६।१।३ इति द्वितीयस्यैकाचो द्विर्वचनप्रतिषेधो यथा स्यात्()। तह्र्रयं भकारो वक्तव्यः? न वक्तव्यः; निपातनेन सिद्धत्वात्()। किं पुनर्निपातनम्()? "भुजन्युज्जौ प#आच्युपतापयोः" ७।३।६१ इति। अत्र हि तर्हि प्राप्नोति--अभ्युद्गः, समुदग इति? अकुत्वविषये निपातनमित्यदोषः।
तत्त्व-बोधिनी
सोऽपदादौ १२३, ८।३।३८

सोऽपदादौ। अपदाद्योरिति। सूत्रे व्यत्ययेन एकवचनम्। यदि तु "विसर्जनीयस्य सः" "शर्परे विसर्जनीयः" इत्यत्र मण्डूकप्लुत्यानुवर्तितो यः खर् स इहाप्यनुवत्र्य विशेष्येत "अपदादौ री"ति, तदा यथाश्रुतं साधु। परन्तु पनर्मण्डूकप्लुत्याऽनुवर्तने क्लेश इति भावः। अन्ये त्वाहुः-पुनर्मण्डूकप्लुति विनाप्यनुवर्त्तितुं शक्यः, "वा शरी"त्यत्र शरा खरं विशेष्य "शर्रूपे खरी"ति व्याख्याने, "कुप्वो"रिति सूत्रे "कुप्वोः खरी"ति व्याख्याने च क्षत्यभावादिति।

पयस्पाशमिति। "याप्ये पाशप्"। "ईषदसमाप्तौ कल्पप्"। "अज्ञाते" "कुत्सिते" इति कः। "काम्यच्चे"ति काम्यच्। पाशकल्पककाम्येष्विति वृत्तिः। सम्भवदर्शनमेतन्नतु परिगणनम्, अन्यस्याऽसम्भवात्। प्रातःकल्पमिति। अधिकरणशक्तिप्रधानस्यापि "प्रातः" शब्दस्येह वृत्तिविषये शक्तिमत्परत्वं, "दोषाभूतमहः" दिवाभूत रात्रि"रितिवत्।

गीः काम्यतीति। नच सत्वनिषेधेऽपीह "इणः षः" इति षत्वं स्यादिति वाच्यं, तत्रापि "काम्ये रोरेव"त्यस्याऽनुवृत्तेः। यदि तु "इणः षः" इत्यत्रैवेदं पठ()ते तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात्।