पूर्वम्: ८।३।१०२
अनन्तरम्: ८।३।१०४
 
सूत्रम्
युष्मत्तत्ततक्षुःष्वन्तःपादम्॥ ८।३।१०३
काशिका-वृत्तिः
युष्मत्तत्ततक्षुःष्वन्तःपादम् ८।३।१०१

युष्मत् तत् ततक्षुसित्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत् सकारो ऽन्तःपादं भवति। युष्मदादेशाः त्वम्, त्वाम्, ते, तव। अग्निष्ट्वं नामासीत्। त्वा अग्निष्ट्वा वर्धयामसि। ते अग्निष्टे विश्वमानय। तव अप्स्वग्ने सधिष्टव। तत् अग्निष्टद् विश्वमापृणाति। ततक्षुस् द्यावापृथिवी निष्टतक्षुः। अन्तःपादम् इति किम्? यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जतवेदा विच।
न्यासः
ह्वस्वात्तादौ तद्धिते। , ८।३।१०३

"अपदान्तस्य" (८।३।५५) इत्यधिकारारात्? पदान्तेऽप्राप्ते मूर्धन्ये सतीदमारभ्यते। येषु तकारादिषु तद्धितेषु मूर्धन्येन भवितव्यम्(), तान्? दर्शयितुमाह--"तरप्तमपौ" इति। "सर्पिष्टरम्()" इति। "द्विवचनविभज्योपपदे" ५।३।५७ इत्यादिना तरप्()। प्रकृतिसकारस्य रुत्वम्(), विसर्जनीयः, तस्यापि "विसर्जनीयस्य सः" ८।३।३४ इति सकारः, तस्यानेन षत्वम्(), ष्टुत्वम्()। "सर्पिष्टमम्()" इति। "अतिशायने" ५।३।५५ इत्यादिना तमप्()। "चतुष्टये" इति। "संख्याया अवयवे तयप्()" ५।२।४२, तदन्ताज्जम्(), सप्तम्येकवचनं वा। यदा जस्? तदा "जशः सी" ७।१।१७ इति शीभावः। क्वचित्? "चतुष्ठयी" इति पाठः। तत्र हि "टिड्ढाणञ्()" ४।१।१५ इति ङीप्()। "सर्पिष्ट्()षम्(), सर्पिष्टा" इति। "तस्य भावस्त्वतलौ" ५।१।११८। "र्पिष्टः" इति प्रयोगे "पञ्चम्यास्तसिल्()" ५।३।७ इत्यनुवत्र्तमाने "अपादाने चाहीयरुहोः" ५।४।४५ इति तसिप्रत्ययः। "आविष्ट()" इति। आधिः शब्दाद्भवादावर्थे "अव्ययात्? त्यप्()" ४।२।१०३ ननु च "अमेहक्वतसित्रेभ्यस्त्यद्विधियोऽव्ययात्? स्मृतः" ["अमेहत्वतसित्रेभ्यस्त्यब्विधिरव्ययात्()"--प्रांउ।पाठः, अमेहक्वतसित्रेभ्यस्त्यब्विधिरव्ययात्? स्मृतः--कांउ।पाठः] (कारिका।४।२।१०४) इति तत्र परिगणयति, तत्कथमादिःशब्दात्? त्यप्()? नैष दोषः; अल्पाच्तरत्वात्? कुशब्दस्य त्रशब्दस्य वा पूर्वनिपाते कत्र्तव्ये तदकरणाल्लक्षणव्यभिचारं दर्शयता सूचितं व्यभिचार्येव तत्परिगणनम्(), तेनाविःशब्दादपि भवति। "सर्पिस्मात्()" इति। "विभाषा साति कार्त्स्न्ये" ५।४।५२ इति सातिः। ननु च "सात्पदाद्योः" (८।३।१११) इति वक्ष्यमाणात्? प्रतिषेधादेव मूर्धन्यो न भविष्यति; त()त्क तन्निवृच्यर्थेन "तादौ" इत्यनेन? इत्यत आह--"प्रत्ययषकारस्य" इत्यादि। सादित्यनेन हि सात्प्रत्यस्य यः सकारः, यश्च पदादिलक्षणस्तयोः षतवं प्रतिषिध्यते, न तु सात्प्रत्ययात्? पूर्वस्य प्रकृतिसकारस्य। ततो यदि "तादौ" इति नोच्येत, तदा प्रत्ययसकारस्याषत्वे प्रकृतिसकारस्य स्यादेव। त()स्मश्च सति ष्टुत्वं प्रत्ययसकारस्यापि स्यात्()। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रैदं व्याख्यानम्()--इहादिग्रहणं न कत्र्तव्यम्(), "यस्मिन्विधिस्तदादावल्ग्रहणे" (वा।१४) इत्येवं हि तादौ भविष्यति, तत्? क्रियते--ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीति तिङन्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्()। अप या "न रपर" ७।३।११० इत्यादौ "न" इति योगविभागः करिष्यते, तेन तिङन्तस्य न भवतीति। अस्मिस्तु व्याख्याने आदिग्रहणं विस्पष्टार्थम्()। "भन्द्युस्तराम्(), छिन्द्युस्तराम्()" इति। भिदिच्छिदिभ्यां लिङ्(), यासुट्(), "झर्जुस्()" ३।४।१०८, "लिङः सलोपः" ७।२।७९ त्यादिना सलोपः। "उस्यपदान्तात्()" ६।१।९३ इति पररूपत्वम्()। "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः, "तिङश्च" ५।३।५६ इति तरप्(), "किमेत्तिडव्यय" श्५।४।११ इत्यादिनाऽ‌ऽमुप्रत्ययः॥
बाल-मनोरमा
ह्यस्वात्तादौ तद्धिते १३०६, ८।३।१०३

ह्यस्वात्तादौ। "इण्को"रित्यत इण्ग्रहणमनुवर्तते। "सहेः साडः स" इत्यतः स इति षष्ठ()न्तमनुवर्तते। "अपदान्तस्य मूर्धन्यः" इति च। तदाह--ह्यस्वादिण इति। निष्ट() इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः।

अरण्याण्ण्य इति। "वक्तव्य" इति शेषः। आरण्याः सुमनस इति। "स्तिरयः सुमनसः पुष्प"मित्यमरः। अरण्ये भवा इत्यर्थे णप्रत्यये टापि "आरण्या" इति रूपम्। अणि तु ङीप् स्यादिति भावः।

दूरादेत्य इति। "वक्तव्य" इति शेषः। दूरेत्य इति। दूरादागतः, दूरे भव इति वाऽर्थः। दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः।

उत्तरादाहञिति। "वाच्य" इति शेषः। औत्तराह इति। उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः। औत्तर इति त्वसाधु।

तत्त्व-बोधिनी
ह्यस्वात्तादौ तद्धिते १०४६, ८।३।१०३

ह्यस्वात्तादौ। पदान्तत्वात्षत्वस्याऽप्राप्तावयमारम्भः। आदिग्रहणं तु व्यर्थं, "यस्मिन्विधि"रित्येव सिद्धेः। ह्वस्वांत्किम्()। गीस्तराम्। धूस्तराम्। तदौ किम्()। सर्पिःसाद्भवति। तद्धिते किम्()। सर्पिस्तरति। "तिङन्तस्य प्रतिषेधो वाच्यः"। भिन्द्युस्तरम्।

दूरादेत्यः। दूरेत्य इति। दूरादागत इत्यादिरर्थः।

उत्तरादाहञ्। औत्तराह इति। इहाद्युदात्तत्वं स्त्रियां टाप्च बोध्यः। यदा तु "उत्तराच्च"त्याहिप्रत्यये ततोऽण्क्रियते, "अमेहे"ति परिगणनेन त्यपोऽभावात्, तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप्च विशेषः।